________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ अङ्कः अनर्वराघवम् ।
२६७ सुग्रीवः-देव, भवच्चरितचित्रशालिकायामस्माकं चेतसि किं किं नाम न लिखितमस्ति । अपि च ।
सेतूद्योगे सपदि लवणादन्यमन्तस्तिमिभ्यः
कालेनायां मधुरमपि हि स्वादमुद्भेदयन्त्यः । शैलक्षेपोच्छलितसलिलव्यूहतुच्छे समन्ता
__द्वारा पत्यौ पैटुतररयं निम्नगाः संनिपेतुः ।। २१ ।। विभीषणः-देव मनुवंशमौक्तिकमणे, सद्यः पीत्वा दरीभिर्जलधिमथ चिरादृष्टमेनाकबन्धु
प्रीतिप्रौढाश्रुपूरद्विगुणमहिमभिर्निर्झरैः पूरयन्तः । ये विन्यस्ताः पुरस्तान्निशि निशि निवहैरोषधीनां ज्वलद्भि___ स्ते दृश्यन्ते तदात्वोषितकपिशिबिरस्मारिणः सेतुशैलाः ॥ २२ ।।
सीता--(सस्मितम् । ) अज्जउत्त, गोरीगुरुणो गिरिन्दस्स जुवराओ जलणिहिगब्भवसदी मेणाओ जाणामि पक्खच्छेअं पि विणा थावरीभूदो। 'अलंकृञ्-' इत्यादिना इष्णुच । 'कुहरं सुषिरं विवरं बिलम्' इत्यमरः । चित्रशालिका चित्रप्रधानं गृहम् । नाम संभावनायां निश्चये वा । सेविति । शैलक्षेपादुच्छलितो यः सलिलव्यूहो जलसमूहस्तेन तुच्छे वारां पत्यो समुद्रे । अत एव पटुतररयं मनोहरवेगं यथा स्यादेवं निम्नगा नद्यः संनिपेतुर्मिलन्ति स्म । कीदृश्यः । पूर्व तिमिभिर्मत्स्यभेदैः समुद्रजलस्य लवणः स्वाद उपलब्धः शैलक्षेपादुच्छलितलवणमयजलपूरैस्तुच्छे समुद्रे तेभ्यस्तिमिभ्यो जलानां मधुरं वादं प्रकाशयन्यः । सेतोवन्धस्योद्योगे उपक्रमे सति । कालेन क्रमेण । तिमिभ्य इति तादर्थ्य चतुर्थी । सद्य इति । ये सेतुशैलाः सेत्वर्थ पर्वताः पुरस्तात्प्रथमं विन्यस्ताः । अर्थात्सेतौ । यद्वा पुरस्तात्प्रथमं विन्यस्तास्तटे जलनिधिं न प्राप्तास्ते पर्वता निशि निशि प्रतिरात्रं ज्वलद्भिरोषधीनां निवर्हतुभूतैः तदात्वं तत्काल: तत्रोषितमवस्थितं यद्वानरसैन्यं तस्य स्मारिणो दृश्यन्ते । ओषधीनां तेजसा पर्वताः कपीनां कपिशत्वाद्वानरसैन्यनिवासभ्रममुत्पादयन्तीति भावः । कीदृशाः । दरीभिः कंदराभिर्जलधिं पीत्वा अनन्तरं जलाभावादृष्टो यो मेनाक एव बन्धुः। मेनाकस्य समुद्रमध्यस्थितखात् । तस्य प्रीत्या प्रौढ उपचितो योऽश्रुपूर आनन्दाश्रुसमूहस्तेन द्विगुणो महिमा महत्त्वं येषां तैर्निझरैः पुनर्जलधिं पूरयन्तः । सेतुशैला इति शाकपार्थिवादित्वान्मध्यमपदलोपी समासः। 'तत्कालस्तु तदात्वं स्यात्' इत्यमरः । अजउत्तेति । 'आर्यपुत्र, गौरीगुरोगिरीन्द्रस्य युवराजो जलनिधिगर्भवसतिर्मेनाको
१. 'सेतूद्योगात्'. २. 'अन्यमन्य'. ३. 'पटुतरममूः'. ४. 'जलनिधिमचिरं.'
For Private and Personal Use Only