________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६
काव्यमाला।
रामः-देवि विश्वंभरासंभवे, पश्य पश्य ।
यथा दूरापातित्रिदिवयुवतीनेत्रसुलभा
मपां भर्ता हारावलिवलयलक्ष्मी वितनुते । तथायं माणिक्यस्फटिककनकग्रावशिखरै
रशून्यात्मा सेतुः प्रभवति महानायक इव ॥ १८ ॥ अपि चास्मिन्बध्यमाने
शैलप्रवेशात्प्रचलीभवद्भिः कल्लोलकूटैरभिताडितानाम् ।
आसीन्निवृत्त्याचलगामिनीनामम्भोधिरेव प्रभवो नदीनाम् ॥ १९ ॥ (सुग्रीवं प्रति ।) सखे,
तथा सेतुश्रद्धोत्कलितकपिनिक्षिप्तशिखरि
प्रतिष्ठावर्धिष्णुः क्षणमथ नदीभिः प्रतिवहन् । समुत्खातक्षोणीधरकुहरपूर्तिव्यतिकर
प्रमृष्टाहंकारः स्मरति तदवस्थो निधिरपाम् ॥ २० ॥
चतुर्थी । यथेति । अयमपां भर्ता समुद्रस्तथा हारावलिवलयलक्ष्मी वितनुते । क्षमावेटनाइरागमनाच हारवलयाकारतया नेत्रविषयो भवतीति भावः । यथायं सेतुर्माणिक्यस्फटिककनकप्रस्तरशृङ्गैरशून्यात्मा व्याप्तः सन्महानायक इव प्रभवति जायते पारावारं व्याप्य तिष्ठति इति वा योज्यम् । नायको हारमध्यमणिः । कीदृशीं लक्ष्मीम् । दूरापातिनीनां दूरादागमनशीलानां देवत्रीणां नेत्रैः सुलभां सुखप्राप्याम् । बध्यमाने बन्धनं प्राप्तवति । शैलेति । समुद्रे शैलप्रवेशात्प्रचलीभवद्भिः कल्लोलसमूहैरभिताडितानामाहतानां यतोऽतो हेतोनिवृत्त्य व्याघुट्य पर्वतगामिनीनां नदीनामम्भोधिरेव प्रभव उत्पत्तिस्थानमासीत् । नद्यः पर्वतात्प्रभवन्ति, अत्र तु शैलप्रवेशानन्तरं कल्लोलाघातात्परिवृत्याचलं प्रति यान्त्यो नद्यः समुद्रादिव प्रभूता इति भावः । तथेति । तथा सेतुश्रद्धया सेत्वादरेण उत्कलितैरुत्कण्ठितैः कपिभिर्निक्षिप्तानां गिरीणां प्रतिष्टया संघर्षेण वर्धिष्णुवर्धनशीलः । यद्वा सेत्वादरेण उत्कलितानामुत्पाटितानां कपिभिर्निक्षिप्तानां गिरीणां प्रतिष्टया उत्कर्षेण वर्धिष्णुः । अथानन्तरं क्षणं नदीभिः प्रतिवहन् सेतुसंगमात्प्रतीपेन वहन् सन् । अथ उत्पाटितशैलस्थानविवरपूरणव्यतिकरण समूहेन संबन्धेन वा नष्टाहंकारस्तदवस्थो बन्धनकालावस्थः समुद्रः स्मरसि । इह वाक्यार्थस्यैव कर्मता। 'कथमासीनिधिरपाम्' इत्यपि पाठः । तत्र कथमासीरिकरूप आसीदित्यर्थः । वर्धिष्णुरिति
१. 'त्रिदशयुवती'. २. 'विभवति'. ३. 'प्रबलीभवद्भिः'.
For Private and Personal Use Only