________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६५
७ अङ्कः
अनघराघवम् । सीता-अजउत्त, जलणिहिमज्झवहिणो लङ्कापोदअस्स जम्बूदीवोवसंजमणसिङ्खलेव्व को एसो पडिहासदे ।
रामः-देवि मेदिनीनन्दिनि, पतितपौलस्त्यजगद्विजयकेतुदण्डानुकारी ककुत्स्थकुटुम्बर्दुःखसंविभागदायादस्य वानरपतेः कीर्तनमयोऽयं महासेतुः ।
सीता--( सहर्षम् ।) दिठुिआ अज्जउत्तदसणपञ्चासाए बन्धप्परोहणमहौसहं सेदुबन्धो दीसइ । ( अञ्जलिं वहा ।) भअवं, णमो दे।
ऽतो लवणकूटमेवाभवत् । पूर्व रविरहिमना क्वथितः पश्चात्पिण्डीकृतः । अत एव कूटत्वम् । दुग्धादौ तथा दृष्टम् । अथानन्तरं कालरुद्रानले प्रलयकालीनरुद्रसंबन्धिवह्नौ ज्वलति सति चटत् चटत् इति स्फुटन्सन् क्षणान भवति स्म यावत् । न वृत्त एव यावत् । यावदित्युक्तिविशेषे । चटचटदिति स्फुटित्वा क्षणान्नष्ट इत्यर्थः । अयं भावःप्रथमं रवितेजसा क्षारमयत्वालवणकूटमेवाभवत् । अनन्तरं प्रलयानलज्वालया चटचटदिति कृत्वा स्फुटित इति दुरवगाहगम्भीराणि महतां चेष्टितानीति । चटदित्यत्र चटच्छब्दस्य तान्तत्वे 'अव्यक्तानुकरणस्यात इतौ' इति 'अत्' इत्यस्य पररूपत्वे चटितीति रूपप्रसङ्गः । तेन चटशब्दो दान्त एवात्र गम्यते । 'घस्रो दिनाहनी' इत्यमरः । घस्मर इति 'सृघस्यदः क्मरच्' । 'घस्ल अदने' । 'पुञ्जराशी तू करः कूटमस्त्रियाम्' इत्यमरः । चटदित्यव्यक्तानुकरणम् । भवति स्मेति 'लट् स्मे' इति भूते लट् । अजउत्तेति । 'आर्यपुत्र, जलनिधिमध्यवर्तिनो लङ्कापोतस्य जम्बूद्वीपोपसंयमनशृङ्खलेव क एष प्रतिभासते' [इति च्छाया । इह लङ्केव पोतो वहिनं 'डोंगी' इति ख्यातः । उपसंयमनं बन्धनम् )। पोतोऽपि महत्या रज्ज्वा बध्यत इति भावः । केतुः पताका । रावणे पतिते तत्केतुदण्डोऽयं पतित इति लक्ष्यते । ककुत्स्थकुटुम्बो रामादिः । संविभागः सम्यग्वण्टनम् । दायादोंऽशहरः दायं विभजनीयधनमादत्ते दायादः । 'आतश्चोपसर्गे' इति कः । 'विभक्तव्यधने दायः' इति विश्वः । वानरपतेः सुग्रीवस्य । कीर्तनं कीर्तिः । दिट्रिआ इत्यादि । 'दिष्ट्या आर्यपुत्रदर्शनप्रत्याशाया बन्धप्ररोहणमहौषधं सेतुबन्धो दृश्यते' [इति च्छाया।] इह दिष्ट्या हर्षे । प्रत्याशाया बन्धोऽनुबन्धस्तस्य प्ररोहणमङ्कुरस्तत्र महौषधं सेतुबन्ध इत्यजहल्लिङ्गतयान्वयः । यदा सेतुबन्धवार्ता मया श्रुता तदा त्वदर्शनप्रत्याशाबन्धो वृत्त इति भावः । 'प्रत्याशायाश्छिन्नप्ररोहणमहौषधम्' इति पाठे प्रत्याशायाश्छिन्नं छेदस्ततः प्ररोहणं जन्म तत्र महौषधमित्यर्थः। छिन्नमिति भावे क्तः । भअवमिति । 'भगवन् , नमस्ते' [इति च्छाया ।] इह 'नमःस्वस्ति-' इति
१. धरित्रीनन्दिनि'. २. 'दुःखविभाग-' ३. 'वानरपतेः सुग्रीवस्य कीर्तिमयोऽयं'.
For Private and Personal Use Only