________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४
काव्यमाला।
भवतु वपुषा यावांस्तावानगस्त्यरुषा पुन
निधिरयमपामीषत्पानस्तपांसि नमोऽस्तु वः ॥ १५ ॥ रामः-(सबहुमानम् ।) वत्स, किमुच्यतेमुनेः कलशजन्मनो जयति कापि गम्भीरता __ यया चुलकमम्भसामपि निधिः समुत्पद्यते । अमुष्य पुनरीश्महे न विवरीतुमुत्तुङ्गतां
यया भवति नोच्चकैरहह सोऽपि विन्ध्याचलः ॥ १६ ॥ अपि च वत्स, दुरवगाहगम्भीरखभावानि महतां चरितानि । तथा हि ।
जगद्विगमघस्रघस्मरसहस्रभानुप्रभा
परिकथितपिण्डितो लवणकूटमेवार्णवः । अयं क्षणमभूदथ ज्वलति कालरुद्रानले
चटच्चटदिति स्फुटन्न भवति स्म यावत्क्षणात् ॥ १७ ॥ पयसामेव जननम् । तथा च विष्णुपुराणम्-'अप एव ससर्जादौ तासु वीर्यमवासृजत्' इति । पयोधरान्मेघान्पिपतु पूरयतु । 'पृ पालनपूरणयोः'। लोट् । 'अर्तिपिपर्योश्च' इतीत्त्वम् । वडवावक्त्रज्योतिर्वडवानलं वहतु दधातु । सुधाभुजो देवान्दधातु पुष्णातु । 'डुधाञ् धारणपोषणयोः' । निजामृतदानात्तेषां पोषणम् । अत एव सुधाभुज इत्युक्तम् । वपुषेति 'प्रकृत्यादिभ्य उपसंख्यानम्' इति तृतीया । वपुषा शरीरेण यावान्यावत्परिमाणस्तावांस्तावत्परिमाणो भवतु । अगस्त्यस्य रुषा क्रोधेन पुनरयमपां निधिरपि ईषत्पानः सुखपेयः । यैस्तपोभिरगस्त्येन जलनिधिरपि पीतस्तानि हे तपांसि, वो युष्मभ्यं नमोऽस्तु । नमस्कारोऽस्त्वित्यर्थः । मुनेरिति । कलशजन्मागस्त्यः । चुलकं गण्डूषः । अमुष्यागस्त्यस्योत्तुङ्गतामुच्छितत्वं पुनर्विवरीतुं प्रकाशयितुं न वयमीश्महे न प्रभवामः । अहह आश्चर्ये । ययोत्तुङ्गतया स विन्ध्यगिरिरपि नोच्चकैर्भवति । न वर्धत इत्यर्थः । कलशादुत्पन्नस्य गाम्भीर्योतुगते किं ब्रूम इति भावः । विवरीतुमित्यत्र 'वृतो वा' इति दीर्घत्वम् । दुरवगाहानि दुःखविलोडनीयानि । अत एव गम्भीराणीत्यर्थः । जगदिति । अयमर्णवः समुद्रो जगद्विगमस्य प्रलयस्य यद्धा दिनं तत्र घस्मरो भक्षणशीलो यः सहस्रभानुः सूर्यस्तस्य प्रभाभिः परिक्कथितोऽतिपक्कः अत एव पिण्डितः पिण्डीकृतो यतो
१. 'वत्स' इति पुस्तकान्तरे नास्ति. २. अस्माच्छोकादग्रे केषुचिन्मूलपुस्तकेषु 'अपि च, अचिन्त्याः पन्थानः किमपि महतामन्धकरिपोर्यदक्ष्णोऽभूज्ज्योतिस्तदकृत कथामप्यमदनाम् । मुनेर्नेत्रादत्रेर्यदजनि पुनर्योतिरहह प्रतेने तेनेदं मदनमयमेव त्रिभुवनम् ॥' अयं श्लोको वर्तते.
For Private and Personal Use Only