Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 290
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ अङ्कः] अनर्घराघवम् । २८३ सुग्रीवः-सत्यमगोचरे गिरां दशकण्ठक्रीडितानि । एकैके निवसन्ति ते भुजभृतः कस्मै निगृह्णामहे वीरक्षेत्रमियं पुनर्वसुमती पौलस्त्यमाबिभ्रती । वाली त्वाह्यमानमेनमपि यचक्रे कृते चक्षुषी पश्यामः श्रवसी कृते च शृणुमस्तद्वक्तुमल्पे वयम् ॥ ५८ ॥ रामः-(सबहुमानम् ।) स किं वाच्यो वाली भुजकुलिशमूलेन देशतो दशग्रीवं यस्य प्रतिजलधि संध्याविधिरभूत् । कथं वा निर्वाच्यः स च दशमुखो यस्य दमने __मनागासीद्वालिव्ययचरितमेवोपकरणम् ।। ५९ ॥ सीता--(रामं प्रति ।) अज्ज उत्त, किं उण एवं दलिदकप्पूरसलाआमलक्कगोरअं गअणङ्गणे दीसइ । द्वितीया । 'कालभावाध्वदेशानाम्' इति न्यायात् । तथा चामरावतीं प्राप्य विहारं करोतीत्यर्थः । अगोचरे अविषये । एकैक इति । एकैके अनेके ते भुजबलभृतो बाहुबल. धारिणो निवसन्ति । तेषु मध्ये इत्यर्थात् । कस्मै निगृह्णामहे कुत्सां कुर्मः । कस्मै इत्यत्र 'क्रियाग्रहणमपि कर्तव्यम्' इति संप्रदानता । 'ग्रह गृह्ण कुत्सायाम्' । इयं पुनर्भूमी रावणं दधाना वीरक्षेत्रं वीराणां स्थानमस्ति । वाली पुनरेनमपि रावणमपि आह्वयमानं स्पर्धमानं यच्चके यादृशं परिभवभाजनं कृतवान् । कक्षास्थमित्यर्थः । तच्चक्षुषी कृते इति कृत्वा पश्यामः । श्रवसी कौँ कृते इति कृत्वा शृणुमः । वक्तुं तद्वयमल्पे असमर्था एव । श्रवणौ चक्षुषी च वे द्वे इति श्रुतं दृष्टं च । एकेनैव तु मुखेन कथं रावणपरिभवो वालिपराक्रमश्च वक्तुं शक्यः । बहुभिरेव मुखैवक्तुं शक्यत इति भावः । अल्पे इत्यत्र 'प्रथमचरम-' इत्यादिना जसि सर्वनामसंज्ञा । स किमिति । किं वाच्यः । अपि तु वक्तुमेव न शक्यः । भुज एव कुलिशं वज्रम् । दशतः पीडयतः । प्रतिजलधि समुद्रे समुद्रे । वीप्सायामव्ययीभावः । रावणं कक्षायां निक्षिप्य प्रतिसमुद्रं वाली संध्यावन्दनं कृतवानिति प्रसिद्धिः । दमने मारणे । व्ययो विनाशः । चरितमाचरणम् । मनागेकदेशतः । उपकरणं रावणवधकरणमित्यर्थः । रावणजेतृविनाशे सति रावणस्य सुकरत्वादिति भावः । तथा च येन वालिना रावणः कक्षायां निक्षिप्य वृतः स वाली यथा नाशितस्तथैवायं रावणोऽपीति रावणस्य शौर्योत्कर्ष. प्रतिपादितः । अजउत्तेति। 'आर्यपुत्र, किं पुनरेतद्दलितकर्पूरशलाकाखण्डगौरं गगनाङ्गणे दृश्यते' [इति च्छाया ।] इह दलिता भन्नाः । शलाकाः काष्टिकाः 'सराग' इति ख्याता । 'छत्रादिकाष्टीशरयोः शलाका' इति मेदिनीकरः। मल्लक इति देशी खण्डवाचकः । गौरं शुभ्रम् । अवदातः १. 'निगृह्णीमहे'; 'निगृहामहे. २. 'दधतो.' . For Private and Personal Use Only

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331