Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 288
________________ Shri Mahavir Jain Aradhana Kendra ७ अङ्कः] www.kobatirth.org अनर्घराघवम् । मेरो दुरयन्ति संसदमधःसंपातिभिज्योतिषामाटोपैर्विटपोपरिस्थिततरुच्छायाभृतोऽधित्यकाः । निष्पीतासु च मासि मासि विबुधैरिन्दोः कलासु क्रमादुद्दामप्लवमानलाञ्छन मृगच्छिन्नाप्रदर्भाङ्कुराः ॥ ५४ ॥ लक्ष्मणः- - ( सीतां प्रति । ) अपि च । Acharya Shri Kailassagarsuri Gyanmandir ऐतासु पर्वतनितम्बतटीषु पश्य मध्यंदिनेऽपि हरिचन्दनवाटिकेयम् । पक्षस्थितधुमणिविम्बतयातिदीर्घच्छायावितानमधुरा मुदमादधाति ॥ ५५ ॥ For Private and Personal Use Only २८१ भूमेः स्वर्णतया फलोत्तरतरुस्मेरस्य मेरोस्तटीसीमन्तोऽयमनूरुसारथिरथप्रस्थानघण्टापथः । अस्मिन्नुद्धियते कथंचन हयैरुद्दामचण्डातपज्वालाजालविलीनकाञ्चनशिलाजम्बालमनः प्रधिः ॥ ५६ ॥ 'कपार्दोऽस्य जटाजूटः' इत्यपि । उन्नम्यतामूर्ध्वं गम्यताम् । मेरोरिति । अधित्यकाः पर्वतोर्ध्वभूमयः । मेरो: संपदं हर्ष संपदं शोभां वा मेदुरयन्ति उपचितीकुर्वन्ति । कीदृश्यः । अधःसंपातिभिरवः संचारिभिः सूर्यादीनां ज्योतिषां तेजसामाटोपैः समूहैर्हेतुभूतैः शाखोपरिस्थिततरुच्छायां बिभ्रति यास्ताः । यदा ज्योतिरूर्ध्वं तदाधरछाया, यदा चाधस्तेजस्तदोपरिच्छाया । अत्र च मेरोरुच्चतया शैलाग्रस्थितवृक्षाणामधो ज्योतिषामाटोपादूर्ध्वमेव च्छाया । तेन च्छायानां स्थिरत्वमिति भावः । मासि मासि प्रतिमासम् 'पद्दनोमासू-' इत्यादिना मासशब्दस्य हलन्तो मास्आदेशः । निष्पीतासु भक्षितासु । यथापर्यांयपीतस्य सुरैर्हिमांशोरिति । विबुधैर्देवैः । उद्दाम उद्भटः । मृगस्योद्दामत्वं प्रतिवन्धकचन्द्रभक्षणात् । दर्भः कुशः । एतास्विति । नितम्बः कटकम् | 'कटकोsस्त्री नितम्बोऽद्रेः' इत्यमरः । मध्यंदिने दिनमध्ये | मध्यशब्दादौणादिको दिनप्रत्ययः । हरिचन्दनं देवदारुभेदः । पक्षः सुमेरोः पार्श्वम् । मणिः सूर्यः । छाया प्रतिबिम्बम् । वितानो विस्तारः । मधुरा मनोज्ञा । अन्यत्र प्रातः सायंकालयोरृक्षच्छाया दीर्घा । अत्र तु रवेः पार्श्वस्थतया मध्याह्नेऽपि सा दीर्घेति हर्ष इति भावः । भूमेरिति । अयं मेरोस्तटीसीमन्तस्तटीरेखा । स्त्रीकेशरचना रेखायां सीमन्तशब्दो मुख्यः । इह तु लक्षणया रेखामात्रे प्रयुक्त इति । भूमेः स्वर्णतया फलोत्तराः फलप्रधाना ये तरवस्तैः स्मेरस्य १. मूलपुस्तकेष्वयं श्लोकः 'भूमेः स्वर्णतया -' इत्याद्यग्रिमश्लोकादनन्तरं वर्तते.

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331