Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 286
________________ Shri Mahavir Jain Aradhana Kendra ७ अङ्कः ] किं च । www.kobatirth.org अनर्घराघवम् । Acharya Shri Kailassagarsuri Gyanmandir २७९ यन्नाट्यभ्रमिघूर्णमानवसुधाचक्राधिरूढे भृशं मेरौ पार्श्वनिविष्ट॑वासरनिशाचके परिभ्राम्यति । तैजस्यस्तडितो भवन्तु शतशो दृष्टा हि जाताः कथं तामस्योऽपि स वः पुनातु जगतामन्तेष्टियज्वा विभुः ॥ ५० ॥ लक्ष्मणः- जयति परिमुषितलक्ष्मा भयादनुपसर्पतेव हरिणेन । इह केसरिकरजाङ्करकुटिला हरमौलिविधुलेखा ॥ ५१ ॥ सीता - ( सपरिहासम् । ) एदस्त दंदसूअणर करोडमुण्डमालामण्डणस्स मसाणवासिणो भूसणता ज्जेव्व रोहिणीवल्लहस्स कलंको, किं तवस्सिणा कुरङ्गएण । For Private and Personal Use Only क्रीडारभसिनि कुमारे कार्तिकेये तां च पद्ममालाभ्रमेण जिघृक्षौ ग्रहीतुमिच्छौ सति हसन्सन् मृडानीप्रभुर्महेशो वो युष्माकं कल्याणानि द्रढयत्वित्यर्थः । नमसितरीति 'नमो वरिव -' इति क्यच् । 'यस्य हल:' इति यलोपः । परिवृढः प्रभुः । ' प्रभौ परिवृढः ' इति निपातनम् । यन्नाट्येति । स भगवान् अन्तेष्टिरन्तयज्ञः प्रलयनामा तस्य यज्वा याज्ञिको विभुः सर्वव्यापी महादेवो वो युष्मान्पुनातु । यस्य प्रलयार्थ नाट्ये भ्रम्या मण्डलोभ्रमेण घूर्णमानं भ्रमितं यचक्रं तत्राधिरूढे मेरी सुमेरौ अत एव भृशमत्यर्थं भ्राम्यति सति तैजस्यस्तेजोविकारास्तडितो विद्युतो भवन्तु । हि यतस्ताः शतशो बहुधा दृष्टाः । तामस्य स्तमोविकारा अपि तडितः कथं भवन्तु । अदृष्टपूर्वत्वात् । तथापि दृश्यन्त इत्याश्चर्यम् । ननु कथं तैजस्यतामस्यश्च तडितो भवन्तीत्यत आहमेरौ कीदृशे । पार्श्वे समीपे निविष्टाभ्यां दिनरात्रिभ्यां चित्रे कर्बुरे । अयमाशयःपरमेश्वरनाट्येन परिभ्राम्यति सुमेरौ समीप स्थित दिवसरात्र्योरपि भ्रमणेन यथाक्रमं तैजस्यस्तामस्यश्च तडितो जाता इति । जयतीति । इह कैलासतटीभूमौ शिवशिर:शशिलेखा जयति । कीदृशी । सिंहनखाग्रवत्कुटिला वक्रा । अत एव सिंहनखभ्रमजन्यत्रासादनुपसर्पतेव पलायमानेनेव हरिणेन परिमुषितं व्यक्तं लक्ष्म कलङ्को यस्य तादृशी । हरिणेनेति 'प्रकृत्यादिभ्य उपसंख्यानम्' इति तृतीया । करजो नखः । अनुपसर्पतेवेत्यत्र इवशब्द उत्प्रेक्षायाम् | 'अन्यथैव स्थिता वृत्तिवेतनस्येतरस्य वा । अन्यथोत्प्रेक्ष्यते या तु तामुत्प्रेक्षां विदुर्बुधाः ॥ ' मन्ये शके ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवंशब्दोऽपि तादृशः ॥' इति दण्डी । वस्तुतस्तु — हरशिरः स्थितचन्द्रलेखायां कलङ्को न वर्तत एवेति तत्रोत्प्रेक्षा । एदस्सेति । 'एतस्य ददशूकनरकरोटिमुण्डमाला१. 'पार्श्वनिवेशि - '; 'पार्श्व निवासि -'. --

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331