Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 284
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ अङ्कः ] अनर्घराघवम् । २७७ सीता - ( साभ्यसूयमिव ) णिअदेव्वदुव्विलासविआरालसो लोओ लच्छीदेवीए दुज्जसवअणाई गाएदि । (पुरो दर्शयन्ती ) को एसो दीसदि दिअस कूडी किद जोण्हाविच्छद्दपडिरूवो गिरी । विभीषणः - देवि, सोऽयं कैलासशैलः स्फटिकमणिभुवामंशुजालैर्ज्वलद्भिछाया पीतापि यत्र प्रतिकृतिभिरुपस्थाप्यते पादपानाम् । यत्रोपान्तोपसर्पत्तपनकरधृतस्यापि पद्मस्य मुद्रा मुद्दामानो दिशन्ति त्रिपुरहरशिरश्चन्द्रलेखामयूखाः ॥ ४५ ॥ रामः — हन्त, शतधा दृश्यमानोऽपि न चक्षुरकौतुकं करोति । गिरिः कैलासोऽयं दशवदनकेयूरविलस नमणिश्रेणीपत्राङ्करमकरमुद्राङ्कितशिलः । अमुष्मिन्नारुह्य स्फटिकमय सर्वाङ्गविमले निरीक्षन्ते यक्षाः फणिपतिपुरस्यापि चरितम् ॥ ४६ ॥ स्फोरणाय । उच्चैः पदं महोत्कर्षेण (महोत्कर्षम् ) । करवालः खङ्गः । ध्रुवमुत्प्रेक्षे | असिधाराव्रतमसिधारायां संचरणरूपं व्रतमित्यर्थः । चरति करोति । णिअदेव्वेति । ‘निजदैवदुर्विलासविचारालसो लोको लक्ष्मीदेव्या दुर्यशोवचनानि गायति । क एष दृश्यते दिवसकूटीकृतज्योत्स्नाविच्छर्दप्रतिरूपो गिरिः ॥' [ इति च्छाया ।] इह दैवं भाग्यम् । दुर्विलासो दुर्विपाकः । विच्छर्दः समूहः । प्रतिरूपस्तुल्यः । सोऽयमिति । सोऽयं कैलासनामा शैलः । अस्तीत्यध्याहार्यम् । यत्र शैले पादपानां वृक्षाणां छाया स्फटिकांशुजालैः पीताप्यपह्नुतापि प्रतिकृतिभिः प्रतिबिम्बैरुत्थाप्यते व्यक्तीक्रियते । शून्यनभोभागे स्फाटिककिरणैरेव वृक्षच्छाया नाशिता । स्फटिकभुवि तु प्रतिबिम्बेन गृह्यत इत्यर्थः । गिरेरत्युच्चतया रवेरुपान्तगमनम् । करो हस्तो रश्मिश्च । धृतं विकासितं विधृतं च । पद्ममब्जम् । मुद्रा संकोचः । त्रिपुरहरो महेशः । लेखा कला तस्या मयूखाः किरणाः । प्रकाशक सूर्य किरण समीपस्थितान्यपि पद्मानि अतिसंनिहितप्रबलमहादेवमस्तकस्थचन्द्रकिरणा मुद्रयन्तीति भावः । गिरिरिति । केयूरमङ्गदम् । पत्राङ्कुरं पत्रावली । मकरचिह्नविशेषस्तस्य मुद्रया चिह्नेनाङ्किता शिला यस्य सः । अमुष्मिन्कैलासे स्फटिकमयसर्वाङ्गविमले आरुह्य यक्षाः फणिपतिपुरस्यापि वासुकिनगरस्य पातालस्यापि व्यवहारं 'पश्यन्ति । अत्युच्चत्वात् । यद्वा अतिविमलस्फटिकतेजसा चक्षुस्तेजः प्रसरणस्याप्रतिबन्धा १. ' दृश्यमानेन चक्षुः '; 'दृश्यगानो न चक्षुः '. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331