________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
रामः- (विहस्य।) देवि महाकुलक्षत्रियसंभवे, एवमेतत् । । सेतूपक्रमसंभ्रमाहृतगिरिप्रक्षेपवेगोच्छल
निःशेषाम्बुपरिस्फुटोदरदरीगम्भीरिमा सागरः । चक्रे गोष्पदवद्विलचितवतोऽप्यन्तर्भयं मारुतेः पूर्णत्वादतिरिच्यते हि महतस्तुच्छस्य दुर्लङ्घयता ।। ८४ ॥
(नेपथ्ये।) देवें, त्वर्यतां त्वर्यताम् । संनिधत्ते खलु भगवद्वसिष्ठगृहीतो मङ्गल:भिषेकमुहूर्तः ।
रामः--(आकर्ण्य ।) कथर्मंयोध्यायाः प्रत्यावृत्तो मारुतिरस्मांस्त्वरयति ।
सीता-(सहर्षम् ।) अजउत्त, कधं अञ्जणाणन्दणो तुवरावेदि । ता भअवं पुप्फअ, अवणम । मेइणीसंणिहिदगअणमग्गेण गच्छहा । (अधोऽवलोक्य रामं प्रति ।) अजउत्त, किं उण एवं तरुणजीमूदसामले महीवलए महुमहणवच्छत्थले कोत्थुमकिरणत्थबअं विअ जलन्तं लक्खीअदि। .
निदर्शनम्' [इति च्छाया।] इह निदर्शनं दृष्टान्तः । सेत्विति । उपक्रम आरम्भः । संभ्रमस्त्वरा । आहृत आनीतः । शैलपतनवेगादुच्छलदितस्ततो गच्छत् । परिस्फुटो व्यक्तः उदरमेव उरी केंदरा तस्या गम्भीरिमा गम्भीर्य यत्र तादृश: सागरो मारुतेह. नूमतोऽन्तर्भयं चक्रे । पूर्णत्वात् पूर्णदशातः । कीदृशस्य । गोष्पदं गोपदपरिमाणबिलं तद्वलचितवतोऽपि । 'गोष्पदं सेविते माने' इत्यमरः । 'गोष्पदं सेवितासेवितप्रमाणेषु' इति निपातनम् । उक्ते उपपत्तिमाह--हि यतः महतस्तुच्छस्यापि दुर्लङ्घयतातिरिच्यते अतिरिक्ता भवति । तुच्छ एव महादुर्लङ्घयो भवतीति भावः । अज्ज उत्तेति । 'आर्यपुत्र, कथमञ्जनानन्दनस्त्वरयति । तद्भगवन् पुष्पक, अवनम । मेदिनीसंनिहितगमनमार्गेण गच्छामः' [इति च्छाया।] इह अञ्जनानन्दनो हनूमान् । 'अञ्जना मरुतः सूनोजनन्यां च हलाहले' । अवनम अधो गच्छ । अजउत्तेति । 'आर्यपुत्र, किं पुनरेतत्तरुणजीमूतश्यामले महीवलये मधुमथनवक्षःस्थले कौस्तुभकिरणस्तवक इव ज्वललक्ष्यते'
१. 'महाक्षत्रिय-'; 'महाक्षत्रियकुल-'. २. 'सेतुप्रक्रम'. ३. कौतुक. ४. 'देव, त्वर्यताम् । संनिधत्ते भगवान्वसिष्टः संगृहीतमङ्गला-'. ५. 'खलु' इति पुस्तकान्तरे नास्ति. ६. 'अयोध्यातः'.
For Private and Personal Use Only