________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ अङ्कः] अनर्घराघवम् ।
२९५ रामः-(दृष्ट्वा बिभीषणं प्रति।) तकुटङ्कलिखितार्कमण्डलप्रोच्छलत्कणकदम्बभासुरम् । शिल्पशालमिव विश्वकर्मणः किं विभाति मृगतृष्णकामयम् ॥ ८५ ।। विभीषणः-देव, स एषः । ज्येष्ठामूलीययात्रासरभसकरभीकाम्यकान्तारवा
दूरेऽपि ज्योतिरक्ष्णोरपलपति महर्जाज्वलज्जाङ्गलश्रीः । विश्वद्रीचीभिरस्मिन्निबिडमुडुपते कान्तिभिः प्रस्नुवानाः फेनायन्ते निजोष्मकथनपरिणमझुडुदं चन्द्रकान्ताः ॥ ८६ ॥
(सर्वे विमानावनतिं नाटयन्ति ।) रामः--(विलोक्य सीतां प्रति ।) देवि, दक्षिणेन
सिंहलद्वीपमम्भोधिसंभूतमिदमुत्पलम् ।
माणिक्याचलकिंजल्करमणीयमुदीक्ष्यते ॥ ८७ ॥ सीता-जहिं कासकुसुमसंकासो अगत्थहंसो चरइ ।
[ इति च्छाया । इह जीमूतो मेघस्तद्वत् झ्यामे महीवलये पृथ्वीमण्डले । त': कुन्दः । टङ्कः 'टांकी' इति प्रसिद्धः । लिखितस्तक्षितः । कदम्बः समूहः । शिल्पस्य शाला शिल्पशालम् । 'विभाषा सेना-' इत्यादिना क्लीवत्वम् । ज्येष्ठामूलीयेति। अयं मरुदेशभेदो दूरेपि अक्षणोस्तेजोऽपलपति खण्डयति । कीदृशः । ज्येष्ठामूलीयो ज्येष्ठमासः । तथा च हारावली-'ज्येष्टामूलीयमिच्छन्ति मासमाषाढपूर्वजम्' इति । तत्र यात्रायां मरभसा या करभी उष्ट्री तस्याः काम्य इच्छाविषयः कान्तारो दुर्गपथस्तद्रूपं वर्म यस्य सः । ज्येप्टे हि उष्ट्री सरभसा कामुकी जायते । जङ्गलो निर्जलो देशः । तस्येयं जाङ्गली । सा चासौ श्रीश्चेति 'पुंवत्कर्मधारय-' इति पुंवद्भावः । अस्मिन्मरौ चन्द्रकान्ताः फेनायन्ते फेनमुद्वमन्ति । सर्वतो गमनकारिणीभिरुडुपतेश्चन्द्रस्य कान्तिभिः प्रम्नुवानाः स्वयं क्षरन्तः । कर्मकर्तरि तङ् । निजोष्मणा मरुस्थलतेजसा क्वथनं पाकस्तेन परिणमझुद्दं यथा स्यादेवम् । 'क्वथनभरनमबुद्रुदं' इति पाठे क्वथनभरेण पाकभरेण । दक्षिणेन दक्षिणस्यां दिशीयर्थः । ‘एनबन्यतरस्याम्' इत्येनप् । सिंहलेल्यादि सुगमम् । जहिं इति । 'यत्र काशकुसुमसंकाशोऽगस्त्य. हमश्चरति इति छाया।] इह संकाशः सदृशः । अन्योऽपि श्वेतो हंगश्वरति
For Private and Personal Use Only