________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२९६
काव्यमाला |
रामः -- ( स्मित्वा ।) आं मैथिलि, आम् । इहैव रोहणगिरेरुपत्यकायां द्वितीयमायतनं मुनेर्लोपामुद्रावल्लभस्य । स तत्रभवान्
अपि च ।
Acharya Shri Kailassagarsuri Gyanmandir
बृहत्पात्रप्राप्त्या विततजलमम्भोधिमुदरे
दधावषाह्यं किल कलशजन्मा कुलपतिः । यमाराध्यन्विन्ध्याचल शिखरशोथैक भिषजं
विवखानाश्वीनं गगनमैविरोधात्कलयति ॥ ८८ ॥
निपीते येनाब्धौ स्तिमितगुरुभिः पक्षपटलैः प्रयत्नादुड्डीय प्रतिपदमपव्यस्तपतिताः । विशन्तः कौलीरं कुहरमशरण्याः शिखरिणः
क्षणं दृष्टास्तस्य स्तुतिषु न गिरां साहसरसः ॥ ८९ ॥
खादतीति ध्वनिः । रोहणः पर्वतभेदः । 'उपत्यकाद्रेरासन्ना भूमिः' इत्यमरः । आयतनं देवतागृहम् । 'चैत्यमायतनं तुल्ये' इत्यमरः । लोपामुद्रागस्त्यपत्नी । बृहदिति । कलशजन्मागस्त्यः अम्भोधिमुदरे दधाविति संबन्धः । वृहत्पात्रस्य महायोग्यस्य प्राप्त्या विस्तीर्ण जलं यस्य तम् । यमगस्त्यमाराध्यन् रविराकाशमाश्वीनमधेने काहगम्यं कलयति जानाति करोति वा | अविरोधात् निर्विघ्नमित्यर्थः । विन्ध्याचलशिखरस्य यः शोथो रोगभेदः अकस्मादङ्गवृद्धिः शोथनान्नैव प्रसिद्धस्तस्य भिषजं वैद्यम् । तत्प्रतीकारकर्तृत्त्वात् । कथेयमतिप्रसिद्धैव । इह आराध्यन्नित्यत्र कथं सकर्मता, इयनोऽकर्मके विधीयमानत्वात् इति चेत्, न । तत्राकर्मकादित्यस्य प्रायिकत्वात् । एवंविधप्रयोगस्य बहुशो दर्शनात् । ' प्रयोगमूला हि पाणिनिस्मृतिः' इति वचनादित्यवधेयम् । अश्वेन यदेकाहेन गम्यते तदाश्वीनम् | 'अश्वस्यैकाहगमः' इति खञ् । निपीत इति । तस्यागस्त्यस्य स्तुतिषु गिरां साहसरसो न । अपि तु साहसरस एव । शिरवालने नकारः । तद्गुणा विशिष्य वक्तुं न शक्यन्त इति भावः । येनागस्त्येन समुद्रे पीते तत्रस्थाः शिखरिणो मैनाकादयः पर्वताः कौलीरः कुलीरः कर्कटस्तत्संबन्धि कुहरं विवरं विशन्तः सन्तः क्षणं दृष्टाः । जनैरिति शेषः । स्तिमितमामत एव गुरुभिरतिभारैः पक्षपटलैर्यतः अतः प्रयत्नात्कष्टादुड्डीय ऊर्ध्वं गत्वा प्रतिपदं पदे पदे अपव्यस्ता व्याकुलाः सन्तः पतिताः । शरण्यो रक्षिता स न विद्यते येषां ते । शृङ्गार एव सार्वभौमश्चक्रवर्ती राजा ।
१. 'इह हि ' . २. 'गाधं' ३ 'अधिरोहन् '. ४. 'व्रजन्तः ',
For Private and Personal Use Only