Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 274
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ अङ्कः अनर्वराघवम् । २६७ सुग्रीवः-देव, भवच्चरितचित्रशालिकायामस्माकं चेतसि किं किं नाम न लिखितमस्ति । अपि च । सेतूद्योगे सपदि लवणादन्यमन्तस्तिमिभ्यः कालेनायां मधुरमपि हि स्वादमुद्भेदयन्त्यः । शैलक्षेपोच्छलितसलिलव्यूहतुच्छे समन्ता __द्वारा पत्यौ पैटुतररयं निम्नगाः संनिपेतुः ।। २१ ।। विभीषणः-देव मनुवंशमौक्तिकमणे, सद्यः पीत्वा दरीभिर्जलधिमथ चिरादृष्टमेनाकबन्धु प्रीतिप्रौढाश्रुपूरद्विगुणमहिमभिर्निर्झरैः पूरयन्तः । ये विन्यस्ताः पुरस्तान्निशि निशि निवहैरोषधीनां ज्वलद्भि___ स्ते दृश्यन्ते तदात्वोषितकपिशिबिरस्मारिणः सेतुशैलाः ॥ २२ ।। सीता--(सस्मितम् । ) अज्जउत्त, गोरीगुरुणो गिरिन्दस्स जुवराओ जलणिहिगब्भवसदी मेणाओ जाणामि पक्खच्छेअं पि विणा थावरीभूदो। 'अलंकृञ्-' इत्यादिना इष्णुच । 'कुहरं सुषिरं विवरं बिलम्' इत्यमरः । चित्रशालिका चित्रप्रधानं गृहम् । नाम संभावनायां निश्चये वा । सेविति । शैलक्षेपादुच्छलितो यः सलिलव्यूहो जलसमूहस्तेन तुच्छे वारां पत्यो समुद्रे । अत एव पटुतररयं मनोहरवेगं यथा स्यादेवं निम्नगा नद्यः संनिपेतुर्मिलन्ति स्म । कीदृश्यः । पूर्व तिमिभिर्मत्स्यभेदैः समुद्रजलस्य लवणः स्वाद उपलब्धः शैलक्षेपादुच्छलितलवणमयजलपूरैस्तुच्छे समुद्रे तेभ्यस्तिमिभ्यो जलानां मधुरं वादं प्रकाशयन्यः । सेतोवन्धस्योद्योगे उपक्रमे सति । कालेन क्रमेण । तिमिभ्य इति तादर्थ्य चतुर्थी । सद्य इति । ये सेतुशैलाः सेत्वर्थ पर्वताः पुरस्तात्प्रथमं विन्यस्ताः । अर्थात्सेतौ । यद्वा पुरस्तात्प्रथमं विन्यस्तास्तटे जलनिधिं न प्राप्तास्ते पर्वता निशि निशि प्रतिरात्रं ज्वलद्भिरोषधीनां निवर्हतुभूतैः तदात्वं तत्काल: तत्रोषितमवस्थितं यद्वानरसैन्यं तस्य स्मारिणो दृश्यन्ते । ओषधीनां तेजसा पर्वताः कपीनां कपिशत्वाद्वानरसैन्यनिवासभ्रममुत्पादयन्तीति भावः । कीदृशाः । दरीभिः कंदराभिर्जलधिं पीत्वा अनन्तरं जलाभावादृष्टो यो मेनाक एव बन्धुः। मेनाकस्य समुद्रमध्यस्थितखात् । तस्य प्रीत्या प्रौढ उपचितो योऽश्रुपूर आनन्दाश्रुसमूहस्तेन द्विगुणो महिमा महत्त्वं येषां तैर्निझरैः पुनर्जलधिं पूरयन्तः । सेतुशैला इति शाकपार्थिवादित्वान्मध्यमपदलोपी समासः। 'तत्कालस्तु तदात्वं स्यात्' इत्यमरः । अजउत्तेति । 'आर्यपुत्र, गौरीगुरोगिरीन्द्रस्य युवराजो जलनिधिगर्भवसतिर्मेनाको १. 'सेतूद्योगात्'. २. 'अन्यमन्य'. ३. 'पटुतरममूः'. ४. 'जलनिधिमचिरं.' For Private and Personal Use Only

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331