Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 278
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७१ ७ अङ्कः] अनर्घराघवम् । सीता—(रामं प्रति ।) अजउत्त, तधा णिरणुकोसो कधं उण पडिणिवुत्तो महादेओ देवीए । रामःस्मरपरिभवनिःसहायदी(रथ सुभगंकरणैरियं तपोभिः । तदकृत यदसौ निजेऽपि देहे जयति जगत्पतिरात्मनाद्वितीयः ॥ ३२ ॥ विभीषणः--(सपरिहासम् ।) __चिरमनया तपसित्वा कपालविषविषधरैकचित्तस्य । चक्रे हरस्य मूर्तिः फलमध फलदम च ॥ ३३ ॥ सीता—(विहस्य तं प्रति सकौतुकम् ।) कदरस्सि उण संणिवेसे भअवदीए सव्वमङ्गलाए पाणिग्गहणमङ्गलं आसी। विभीषणः---इदं पुरस्तादोषधिप्रस्थं नाम नगराजनगरम् । अत्र हि मेदिनीकरः । नीलेति । नीललोहितो हरः । लाञ्छनं चिह्नम् । जगदन्तः प्रलयः । संज्वलनं संधुक्षणकाष्ठम् । आत्मभूः कामः । कामं काष्ठं प्राप्य ज्वलितो हराक्षिज्वलनो जगत्रयं धक्ष्यतीति भावः । अजउत्तेति । 'आर्यपुत्र, तथा निरनुक्रोशः कथं पुनः प्रतिनिवृत्तो महादेवो देव्यै' [इति च्छाया । इह निरनुक्रोशो निर्दयः । प्रतिनिवृत्तः संमु खीभूतः । स्मरेति । इयं गौरी असुभगः सुभगः क्रियते यैस्तैस्तपोभिस्तदकृत कृतवती यदसौं जगत्पतिः शिवो निजे खीयेऽपि शरीरे आत्मना स्वेन द्वितीयो द्विसंख्यापूरको जयति वर्धते । एका गौरी द्वितीयस्तु स्वयं भगवान् इत्येकस्मिञ्शरीरेऽर्धनारीश्वरोऽभू. दित्यर्थः । सुभगंकरणेति 'आद्यसुभग-' इति करणे ख्युन् । 'अरुर्द्विषत्-' इति मुम् । आत्मनाद्वितीय इत्यत्र 'आत्मनश्च पूरणे' इति तृतीयाया अलुकू । चिरमिति । अनया गौर्या चिरं तपसित्वा तपश्चरित्वा हरस्य मूर्तिः शरीरमधं फलं चक्रे कृतम् । गौर्या तदर्धप्राप्तेः । यद्धि प्राप्यते तत्फलम् । अर्धे च फलदं कृतम् । तदर्धस्य फलदातृवात् । 'भूर्तेः' इति पाठे कायस्याधं फलमधं च फलदमित्यर्थः स्फुट एव । तपसित्वेति तपश्चरतीत्यर्थे 'कर्मणो रोमन्थतपोभ्यां वर्तिचरोः' इति क्यङ् । 'क्यस्य विभाषा' इति यलोपः । 'वृष- इति पाठे वृषो वृषभः । विषधरो वासुकिः । 'मूर्तिः काठिन्यकाययोः' इत्यमरः । कदरस्सि इति । 'कतरस्मिन्पुनः संनिवेशे भगवत्याः सर्वमङ्गलायाः पाणिग्रहणमङ्गलमासीत्' [इति च्छाया 1] इह कतरस्मिन्कुत्र । संनिवेशः स्थानम् । सर्वमङ्गला गौरी । ओषधिप्रस्थं हिमालयस्य पादशैलः । नगराजो हिमालयः। संप्रदाता १. 'सहासम्'. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331