Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 272
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६५ ७ अङ्कः अनघराघवम् । सीता-अजउत्त, जलणिहिमज्झवहिणो लङ्कापोदअस्स जम्बूदीवोवसंजमणसिङ्खलेव्व को एसो पडिहासदे । रामः-देवि मेदिनीनन्दिनि, पतितपौलस्त्यजगद्विजयकेतुदण्डानुकारी ककुत्स्थकुटुम्बर्दुःखसंविभागदायादस्य वानरपतेः कीर्तनमयोऽयं महासेतुः । सीता--( सहर्षम् ।) दिठुिआ अज्जउत्तदसणपञ्चासाए बन्धप्परोहणमहौसहं सेदुबन्धो दीसइ । ( अञ्जलिं वहा ।) भअवं, णमो दे। ऽतो लवणकूटमेवाभवत् । पूर्व रविरहिमना क्वथितः पश्चात्पिण्डीकृतः । अत एव कूटत्वम् । दुग्धादौ तथा दृष्टम् । अथानन्तरं कालरुद्रानले प्रलयकालीनरुद्रसंबन्धिवह्नौ ज्वलति सति चटत् चटत् इति स्फुटन्सन् क्षणान भवति स्म यावत् । न वृत्त एव यावत् । यावदित्युक्तिविशेषे । चटचटदिति स्फुटित्वा क्षणान्नष्ट इत्यर्थः । अयं भावःप्रथमं रवितेजसा क्षारमयत्वालवणकूटमेवाभवत् । अनन्तरं प्रलयानलज्वालया चटचटदिति कृत्वा स्फुटित इति दुरवगाहगम्भीराणि महतां चेष्टितानीति । चटदित्यत्र चटच्छब्दस्य तान्तत्वे 'अव्यक्तानुकरणस्यात इतौ' इति 'अत्' इत्यस्य पररूपत्वे चटितीति रूपप्रसङ्गः । तेन चटशब्दो दान्त एवात्र गम्यते । 'घस्रो दिनाहनी' इत्यमरः । घस्मर इति 'सृघस्यदः क्मरच्' । 'घस्ल अदने' । 'पुञ्जराशी तू करः कूटमस्त्रियाम्' इत्यमरः । चटदित्यव्यक्तानुकरणम् । भवति स्मेति 'लट् स्मे' इति भूते लट् । अजउत्तेति । 'आर्यपुत्र, जलनिधिमध्यवर्तिनो लङ्कापोतस्य जम्बूद्वीपोपसंयमनशृङ्खलेव क एष प्रतिभासते' [इति च्छाया । इह लङ्केव पोतो वहिनं 'डोंगी' इति ख्यातः । उपसंयमनं बन्धनम् )। पोतोऽपि महत्या रज्ज्वा बध्यत इति भावः । केतुः पताका । रावणे पतिते तत्केतुदण्डोऽयं पतित इति लक्ष्यते । ककुत्स्थकुटुम्बो रामादिः । संविभागः सम्यग्वण्टनम् । दायादोंऽशहरः दायं विभजनीयधनमादत्ते दायादः । 'आतश्चोपसर्गे' इति कः । 'विभक्तव्यधने दायः' इति विश्वः । वानरपतेः सुग्रीवस्य । कीर्तनं कीर्तिः । दिट्रिआ इत्यादि । 'दिष्ट्या आर्यपुत्रदर्शनप्रत्याशाया बन्धप्ररोहणमहौषधं सेतुबन्धो दृश्यते' [इति च्छाया।] इह दिष्ट्या हर्षे । प्रत्याशाया बन्धोऽनुबन्धस्तस्य प्ररोहणमङ्कुरस्तत्र महौषधं सेतुबन्ध इत्यजहल्लिङ्गतयान्वयः । यदा सेतुबन्धवार्ता मया श्रुता तदा त्वदर्शनप्रत्याशाबन्धो वृत्त इति भावः । 'प्रत्याशायाश्छिन्नप्ररोहणमहौषधम्' इति पाठे प्रत्याशायाश्छिन्नं छेदस्ततः प्ररोहणं जन्म तत्र महौषधमित्यर्थः। छिन्नमिति भावे क्तः । भअवमिति । 'भगवन् , नमस्ते' [इति च्छाया ।] इह 'नमःस्वस्ति-' इति १. धरित्रीनन्दिनि'. २. 'दुःखविभाग-' ३. 'वानरपतेः सुग्रीवस्य कीर्तिमयोऽयं'. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331