________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अङ्कः] अनर्घराघवम्
२५३ चेदानी कालकूटोपदिग्धैरिव कण्ठध्वनिभिरेव मूर्छयतो भुवनानि भैरवस्य स्मरति समयमद्य परमेष्ठी।
___ (पुनर्नेपथ्ये ।) दिव्यास्त्रैर्भूर्भुवःस्वस्त्रितयडमरणोड्डामरैर्योधयित्वा
लूनोत्क्षिप्तैः शिरोभिर्दशभिरभिनभो दर्शितैकादशार्कः । काकुत्स्थेनावकीर्णो निजविशिखशिखायोगपीठोपहूत
ब्रह्मास्त्रेणाधिशेते रजनिचरपतेवरिशय्यां कबन्धः ।। ७७ ।। उभौ-(श्रुला सहर्षसंभ्रममूर्ध्वमवलोक्य सविस्मयमन्योन्यम् ।) पश्य पश्य प्रलयकालकरालकालानलज्वालापुञ्जपिञ्जराणि रावणशिरांसि । (सत्वरमुपमृत्य चाधस्तात्पश्यतः।)
हेमाङ्गदः-(सकरुणम् ।) हा महावीरप्रकाण्ड लङ्केश्वर, पैर्यवसितोऽसि ।
लाहलः श्रूयत इति भावः । कपटेन भूतो यः कण्ठीरवः सिंह एतादृशो वैकुण्ठो नारायणो नरसिंहरूपी तस्य कण्ठानिर्गतो यः कठोरो महान्कोलाहलस्तद्वत्काहलः कटुध्वनिः । देशी शब्दः । भयानको वा । प्रजाकोषो ब्रह्माण्डं तस्य भङ्गो नाशः। अपर्वण्यकाले । प्रलयं विनापीत्यर्थः । प्रक्रमत आरभते । नूनं चेति । नूनं निश्चितमद्य परमेष्टी ब्रह्मा सभयं यथा स्यादेवं भैरवस्य स्मरति । कालभैरवं महेशं स्मरतीत्यर्थः । 'अधीगर्थदयेशां कर्मणि' इति षष्टी । कालकूटेन विषेणोपदिग्धैर्लिप्तैरिव कण्ठध्वनिभिर्भुवनानि मूर्छयतो मूछौँ नयतः । दिव्यास्त्रैरिति । रजनिचरपते रावणस्य कबन्धः शिरःशून्यशरीरं वीरशय्यां समराङ्गणमधिशेते । तत्र स्वपितीत्यर्थः। काकुत्स्थेन रामेणावकीर्णः क्षिप्तः । कीदृशेन । निजविशिखशिखा एव खबाणाग्रभाग एव योगपीठो देवपूजासनं तस्मिन्नुपहूतमाहृतं ब्रह्मास्त्रं येन तेन । यद्वा ब्रह्मास्त्रेणेति करणे तृतीया । दिव्यास्त्रैर्योधयित्वा लूनैश्छिन्नैः । अर्थाद्दिव्यास्त्रैरेव । अनन्तरमुत्क्षिप्तैरूवं नीतैर्दशभिः शिरोभिरभिनभो नभसि दर्शिता एकादशार्काः सूर्या येन सः। दश रावणशिरांसि, एकः प्रकृतः सूर्यः, एभिरेकादशाको उदिता इति भावः । भूः पृथिवी, भुवोऽन्तरिक्षम्, खः खर्गः, एतत्रितयस्य त्रिभुवनस्य डमरणं चमत्कारस्तदर्थमुड्डामरैरुत्क्षिप्तरूवं नीतैः । केचित्त डमरेण विनाशेनोड्डामरैर्भयानकैरित्यर्थः । 'कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकले. वरे' इत्यमरः । 'करालो भीषणेऽन्यवत्' इत्यमरः । कालानलो रौद्राग्निस्तज्ज्वालापुञ्जव. त्पिञ्जराणि पिङ्गलानि । हे महावीरप्रकाण्ड प्रशस्तमहावीर । 'प्रकाण्डमुद्धतल्लजौ । प्रशस्त
१. 'सविमर्षम्'. २. 'च' इति पुस्तकान्तरे नास्ति. ३. 'प्रवसितोऽसि'.
For Private and Personal Use Only