________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
काव्यमाला।
रत्नचूड:-संखे, कृतिप्रतिकृतीनामविशेषेऽपि जेतव्यमिति रामस्य मर्तव्यमिति रावणस्य निर्णयनिर्भरोऽयं सर्वास्त्रमोक्षः । विशिखमुखोपस्थायिनीनां च पुनर्देवतानामबलीयानाटोपः कैल्प्यते । तथा हि ।
यदैवतं क्षिपति पत्रिषु राक्षसेन्द्रः
स्नेहेन तद्रधुपतेर्मुदु संनिधत्ते । यां देवतामुपदधाति च रामभद्रस्त्रासादसौ दशमुखस्य शनैरुपैति ।। ७५ ॥
(नेपथ्ये।) यद्यत्कृत्तं दशमुखशिरस्तस्य तस्यैव कान्तौ
संक्रामन्त्यामतिशयवती शेषवक्त्रेषु लक्ष्मीः । यो यः कृत्तो दशमुखभुजस्तस्य तस्यैव वीर्य लब्ध्वा दृप्यन्त्यधिकमधिकं बाहवः शिष्यमाणाः ॥ ७६ ।।
(नेपथ्ये कलकलः ।) उभौ-(सहर्षरोमाश्चमाकर्ण्य ।) अये, शब्दोपलभसंवर्तकेन कर्मणा निमितानि त्रिभुवनकोषस्य कोऽयमिन्द्रियाणि प्रीणयति ।
(पुनर्नेपथ्ये कलकल:।) उभौ-(सभयाद्भुतम् ।) अये, कथमयं कपटकण्ठीरववैकुण्ठकण्ठकठोरकोलाहलकाहलो महानिर्घोषः प्रजाकोषभङ्गमपर्वणि ग्रंक्रमते । नूनं
भावः । तुमुलं महत्, अतिसंकुलं वा । आयोधनं सङ्ग्रामः । प्रतिकृतिः प्रतीकारः। मोक्षस्त्यागः । विशिखो बाणः । आटोपो गर्वो रोषो वा । यदैवतमिति । यां देवतां पत्रिषु बाणेषु क्षिपति तद्रघुपतेः स्नेहेन मृदु यथा स्यादेवं संनिधत्ते संनिहिता भवति । देवांशलाद्रामस्य । 'वृन्दारका दैवतानि' इत्यमरः । असौ देवता दशमुखस्य त्रासाच्छनैर्मन्दमुपैति दशमुखसंनिधिं गच्छति । यदित्यादि । कृत्तं छिन्नम् । यानि शिरांसि च्छिन्नानि तेषां कान्तिरवस्थितेषु मुखेषु संक्रामतीति भावः । लक्ष्मीः शोभा । छिनानां बाहूनां बलमच्छिन्नेषु बाहुषु संक्रामति । शिष्यमाणा अवशिष्टाः । शब्दोपलम्भसंवर्तकेन शब्दज्ञानजनकेन कर्मणा अदृष्टेन । इन्द्रियाणि श्रोत्रेन्द्रियाणि । तथा चातिको
१. 'सखे' इति पुस्तकान्तरे नास्ति. २. 'देवतानां पुनः'. ३. 'कथयति'. ४. 'तस्येव'. ५. 'नेपथ्ये कलकलः' इति पुस्तकान्तरे नास्ति. ६. 'संवर्तकैककर्मणा'. ७. 'कोऽयमिन्द्रियाणि प्रीणयति त्रिभुवनस्य'. ८. 'ब्रह्माण्डकोश-'. ९. 'क्रमते'; 'अद्यापि'.
For Private and Personal Use Only