SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ अङ्कः] अनर्घराघवम् । रत्नचूडः - ( सभयमवलोक्य 1) सखे, एवमेतत् । रक्षोविक्षोभवे गोच्छलितजलनिधिव्यक्तमातङ्गचक्र क्रुध्यद्दिङ्गागमुक्तोद्धरणगुरुभरामद्य नागाधिराजः । अङ्गैरङ्गेषु ममैरविरलवलिना वामनेनातिपीन्ना २५१ देहेनापहुवानः फणफलकपरीणाहमुर्वी बिभर्ति ॥ ७३ ॥ (ऊर्ध्वमवलोक्य ।) कथमितस्ततो वैमानिकैरेपक्रम्यते गगनतलात् । हेमाङ्गदः - ( सचमत्कारम् 1) अहो त्रिभुवनभैयंकर मायोधनमुपक्रान्तं महावीराभ्याम् । तथा हि । ध्यायत्ययं गाधिसुतादधीतान्दिव्यास्त्रमन्त्रान्मनुवंशवीरः । ब्रह्मोपदिष्टामिह शैस्त्रविद्यामसौ तदाकाङ्क्षति राक्षसेन्द्रः ॥ ७४ ॥ तदावामप्यपसरावः । (इत्यपसृत्यासाते ।) हेमाङ्गदः -- ( समन्तादवलोक्य) सखे, यँथा भुवनसंक्षोभस्तथा तर्कयामि – तामिस्रं भानवीयेन, भानवीयं राहवीयेण, राहवीयं वैष्णवीयेन, वैष्णवीयं पौष्पकेतवेन, पौष्पकेतवं च पाशुपतेनास्त्रमस्त्रेण प्रतिकुर्वाणयोः पुलस्त्य ककुत्स्थकुलैकवीरयोस्तुमुलमायोधनं वर्तते । विकासितानां निभृतानां संकुचितानाम् । अजनीति कर्तरि चिण् । रक्ष इति । नागाधिराजो वासुकिः । रक्षसां विक्षोभश्चलनं संक्षोभो वा तज्जन्यवेगेनोच्छलितस्तुच्छीभूतो यो जलनिधिस्तेन हेतुना व्यक्तो यो मातङ्गचको जलहस्तिसमूहस्तस्मै विपक्षतया क्रुध्यन्तो ये दिङ्ङागा दिग्गजास्तैर्मुक्तं त्यक्तमुद्धरणमुत्कृष्टधारणं तेन गुरुर्भरो यस्यास्तामुर्वीं पृथिवीं बिभर्ति धारयति । दिङ्कागैः पृथ्वी प्रियत इति पुराणम् । 'मातङ्गनक्र-' इति पाठे मातङ्गो जलहस्ती, नको जलजन्तुः । यद्वा मातङ्गनको जलहस्ती । पृथ्वीधारणभारेणातिपीन्नातिस्थूलेन । अत एवाविरलवलिना निरन्तरमांससंकोचरूपत्रिवलीयुक्तेन वामनेन खर्वेण देहेन फणफलकपरीणाहं फणसमूहविशालतामपहुवानः संकोचयन् । अङ्गेषु मग्नैरङ्गैर्लक्षितश्च । 'पीवा च स्थूलपीवरे' इत्यमरः । वैमानिकैर्विमानचारिभिः । विमान आकाशस्थ: । 'तेन चरति' इति ठक् । 'व्योमयानं विमानोऽस्त्री' इत्यमरः । अपक्रम्यते गम्यते । पलाय्यत इति यावत् । ध्यायति चिन्तयति । गाधिसुतात्कौशिकात् । तामिस्रमित्यादौ 'सास्य देवता' इत्यण् । पौष्पकेतवेनेति कामस्य विष्णुसुतत्वेन स्नेहातिशयाद्वैष्णवीयमस्त्रं पौष्पकेतवेऽविरुद्धमिति पुष्पकेतवीयोपादानमिति For Private and Personal Use Only १. 'गुरुतराम्'. २. 'आक्रम्यते गगनतलम्'; 'अपाक्रम्यते'. ३. 'भङ्गभयंकरमुपकान्तम् ४. ' चास्त्रविद्याम्'. ५. ' तदाभ्यस्यति'. ६. 'तदावामुपसृत्याखहे'. ७. 'यथायम्. ८. 'च' इति पुस्तकान्तरे नास्ति. ९. 'पौलस्त्यकाकुत्स्थकुलजयोः'.
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy