Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
७ अङ्कः ]
अनर्धराघवम् ।
अन्येष्वप्यशनेषु सत्सु जगतः प्राणाः खदन्तेतरां
मातः कद्रु यदि प्रसौति भवती भूयः सुतानीदृशान् ॥ ८ ॥
( सर्वे हसन्ति । )
सीता - (सस्नेहस्मितं लक्ष्मणमवलोक्य रामं प्रति । ) अज्जउत्त, सोमित्तिकित्तिकन्दलीए उपपत्तिखेत्तं कदरो उण संणिवेसो ।
सुवेलपादः । सीता - जहिं एव्व
www.kobatirth.org
रामः — (सहर्षरोमाञ्चम् 1 ) देवि मैथिलि, अयमितो हस्तदक्षिणेन दशरथदशकंधरस्कन्धवारैकप्रवीरयोर्लक्ष्मणमेघनादयोर्द्वन्द्वयुद्ध व्यतिकरसाक्षी
Acharya Shri Kailassagarsuri Gyanmandir
अणुराअरोमकण्ट असे अजलेहिं णिसाअरी कावि । उद्दीविणिव्वाविअदइदचिदाणलमनु मरेदि ॥ ९ ॥
१. 'व्यतिकरैक.
अन० २३
प्रसौति । तदा परं नान्या कापीत्यर्थः । तावदिति वाक्यालंकारे । रसान्रसयितुमास्वादयितुं द्वे करणे द्वे इन्द्रिये जिह्वारूपे । अन्येषां प्राणिनामेकैव रसना, सर्पाणां तु द्वे इति वैषम्यम् | शब्दांश्च रूपाणि श्रोतुं द्रष्टुम् । यथाक्रममन्वयः । एकमिन्द्रियं चक्षुः । तदेव श्रोत्रं च । चक्षुःश्रवस्त्वात् । अन्येषां द्वे इन्द्रिये श्रोत्रं चक्षुः । उरसा वक्षसा गलै गमनाय निगूढमव्यक्तं पदं चरणम् । अन्ये पुनः प्रसिद्धचरणैः संचरन्ति । अन्येषु कटिनकोमलादिष्वशनेषु भक्ष्येषु सत्स्वपि जगतो विश्वस्य प्राणा वायवः, अथ चासवः स्वदन्ते रोचन्ते । तथा च न युक्ता ईदृशाः सुता उत्पादयितुमिति भाव: । 'जगत्प्राणसमीरणाः' इत्यर्थः । ननु संवुद्धौ गुणे कृते 'कद्रो' इति स्यात् तत्कथं न तथेति चेत्, न । ‘कद्रुकमण्डल्वोः संज्ञायाम्' इत्यूङि कृते हखत्वविधानात् । अज्जउत्तेति । 'आर्यपुत्र, सौमित्रिकीर्तिकन्दल्या उत्पत्तिक्षेत्रं कतरः पुनः संनिवेश:' [ इति च्छाया ।] इह 'कन्दली स्याद्गुल्मभेदे नवाङ्कुरे' इति विश्वः । कतरः कः । खार्थे तरप् । संनिवेशः स्थानम् । इतोऽस्मिन्प्रदेशे । आद्यादित्वात्तसिः । हस्तदक्षिणेन 'प्रकृत्यादिभ्य उपसंख्यानम्' इति तृतीया । स्कन्धावारः कटकम् । द्वन्द्वमन्योन्यम् । यद्वा द्वन्द्वं युद्धभेदः । व्यतिकरः संगमः प्राचुर्ये वा । पादाः प्रत्यन्तपर्वताः । जहिं इत्यादि । ‘यत्रैव, अनुरागरोमकण्टकस्वेदजलैर्निशाचरी कापि । उद्दीपितनिर्वापितदयितचितानलमनु म्रियते ॥ [ इति च्छाया ।] इह रोमकण्टकेन रोमाश्चेनोद्दीपितं स्वेदजलेन निर्वापितं चितानलमनु लक्ष्यीकृत्य निशाचरी राक्षसी म्रियते प्राणांस्त्यजति । 'अनुसरेदि' इति पाठे अनुसरति । चितानलं यथा स्यादेवमिति क्रियाविशे
२६१
For Private and Personal Use Only

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331