Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
काव्यमाला।
तस्मिन्नपि रुधिरदर्शनं कुर्वाणेन भवता दर्शितेयं सुरासुरवीरातिशायिनी हस्तवत्ता ।
रत्नचूड:-अहह, विपक्षगिरामुद्गारेण सर्वग्रन्थिगुरुणा दूरं दीप्यमानस्य
सुविनिहितचन्द्रहासव्रणकिणवलयोपहसितहारेषु ।
रामस्य मार्गणगणाः पतन्ति दशकण्ठकण्ठेषु ॥ ७१ ॥ हेमाङ्गदः-(सचमत्कारम् ।) सखे, पश्य पश्य-अनुरूपवीरसंवादप्रमोदभरद्विगुणितावष्टम्भसंक्षोभितभुवनत्रयस्य निरन्तरप्रहीयमाणबाणञ्जरमध्यवर्तिना रामभद्रेण क्रीडाशकुन्तकौतुकं पूर्यते राक्षसराजस्य । नूनमिदानीम्
उदञ्चन्न्यञ्चद्भूविवृतनिभृतानामनुफणं
मणीनां विद्युद्भिः क्षणमुषितपातालतिमिरः । भुजक्रीडावल्गदशमुखपदन्यासगरिम
प्रगल्भैनिःश्वासैरजनि भुजगानामधिपतिः ॥ ७२ ।। तुषारमयमाभरणं भूषणं बभूव । अतिशायिनी जयनशीला । हस्तवत्ता प्रशस्तहस्तयोगित्वम् । प्रशंसायां मतुप् । 'चक्रं सुदर्शनः' इत्यमरः। विपक्षो रावणः । उद्गारेण भाषणेन । ग्रन्थिम्रन्थना । दूरमत्यर्थम् । सुविनिहितेति । दशकण्ठकण्ठेषु कीदृशेषु । शिवाराधनावसरे शिरश्छेदार्थ सुष्टु यथा स्यादेवं विनिहितो धृतो यश्चन्द्रहासो रावणखगस्तस्य व्रणकिणवलयेन क्षतचिह्नवेष्टनेनोपहसितो निन्दितो हारो यत्र तादृशेषु । चन्द्रहासव्रणप्ररोहणाद्धारकृत्यं चन्द्रहासत्रणरेखयैव कृतमिति भावः। संवादो मिलनम् । सादृश्यमिति यावत् । अवष्टम्भो गर्वः । प्रहीयमाणः प्रक्षिप्यमाणः । वेष्टनाद्वाण एव पञ्जरम् । शकुन्तः पक्षी। अन्योऽपि क्रीडापक्षी पञ्जरमध्ये तिष्ठतीति ध्वनिः । उदश्चदित्यादि । भुजगानामधिपतिः सर्पराजो वासुकिः । अनुफणं फणां फणामनु । वीप्सायामव्ययीभावः । मणीनां विद्युद्भिरिव विद्युद्भिर्दीप्तिभिः क्षणं मुषितं दूरीकृतं पातालतिमिरं येन तादृशोऽजनि जातः । निःश्वासैर्लक्षितः । कीदृशैः । भुजक्रीडया वल्गंश्चलन्यो दशमुखस्तस्य पदन्यासगरिम्णा चरणार्पणगुरुत्वेन पीडनात्प्रगल्भैरुपचितैः । मणीनां कीदृशानाम् । उदञ्चन्त्युनता भवन्ती न्यञ्चन्ती निम्ना भवन्ती या भूस्तया विवृतानां
१. 'वाहिनी'. २. देदीप्यमानस्य'; 'कम्पमानस्य'. ३. 'प्रमोदद्विगुणित-'. ४. 'पजरवर्तिना'. ५. 'आपूर्यते'.
For Private and Personal Use Only

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331