Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१७६
प्रज्ञापनाउपासूत्रम्-२-२३/9/-/५४०
'सुमनामकम्मस्स णं भंते !' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनं चतुर्दशविधोऽनुभावः प्रज्ञप्तः, तदेवचचतुर्दशविधत्वंदर्शयति-'इट्ठा सद्दा' इत्यादि,एतेशब्दादयआत्मीयाएवपरिगृह्यन्ते, नामकर्मविपाकस्यचिन्त्यमानत्वात्, तत्र वादित्राधुत्पादिताइत्येके, तयुक्तं, तेषामन्यकर्मोदयनिष्पाद्यत्वात्, इष्टा गतिमत्तावारणाद्यनुकारिणी शिबिकाद्यारोहणतश्चेत्येके, इष्टास्थितिःसहजा सिंहासनादौ चान्ये, इष्टं लावण्यं-छायाविशेषलक्षणं कुमाधनुलेपनजमित्यपरे इष्टा यशःकीर्तिः यशसा युक्ता कीर्तिः २, यशःकीत्योश्चायं विशेष:-'दानपुण्यरकृता कीर्तिः, पराक्रमकृतं यशः' 'इटे उठाणकम्मबलवीरियपुरिसक्करपरक्कमे' इति उत्थानं-देहचेष्टाविशेषः कर्म-आरेचनभ्रमणादिबलं-शारीरसामर्थ्यविशेषः वीर्य-जीवप्रभवःस एव पुरुषकारः-अभिमानविशेषः स एव निष्पादितस्वविषयः पराक्रमः इष्टस्वरता-वल्लभस्वरता, तत्र इष्टाःशब्दा इति सामान्योक्तावियं विशेषोक्तिस्तदन्यबहुतमत्वापेक्षाऽवगन्तव्या, 'कांतस्वरते'ति कान्तः-कमनीयःसामान्यतोऽभिलषणीय इत्यर्थः, कान्तः स्वरोयस्यसतथा तद्भावःकान्तस्वरता, 'प्रियस्वरते'तिप्रियो-भूयोऽभिलषणीयःप्रियः स्वरोयस्य सतथा तद्भावः प्रियस्वरता, 'मणुण्णस्सरता इति उपरतभावोऽपि स्वालम्बन्प्रीतिजनको मनोज्ञःस स्वरो यस्य स मनोज्ञस्वरस्तद्भावो मनोज्ञस्वरता, ____ 'जं वेएइ' इत्यादि, यं वेदयते पुद्गलं वीणावर्णकगन्धताम्बूलपट्टशिबिकासिंहासनकुङ्कुमदानराजयोगगुलिकादिलक्षणं, तथा च वीणादिसंम्बन्धाद् भवन्तीष्टाः शब्दादय इति परिभावनीयमेतत्सूक्ष्मधिया मार्गप्रहर्षमनसोऽनुसारिण्या, 'पुग्गले वा' इति यतो बहून्पुद्गलान् वेणुवीणादिकान् वेदयते यंपुद्गलपरिणामं ब्राह्यौषध्याहारपरिणामं विनसया वायं पुद्गलानां परिणाम-शुभजलदादिकं तथा चोन्नतान् कन्जलसमप्रभान् मेघानवलोक्य गायन्ति मत्तयुक्तयो रेल्लुकानिष्टस्वरानित्यादि, तत्प्रभावात्, शुभनामकर्म वेदयते, शुभनामकर्मफलमिष्टस्वरतादिकमनुभवतीति भावः, एतावता परत उक्तः,इदानीं स्वतस्तमाह-'तेसिवाउदएणं'तितेषां वा शुभानां कर्मपुद्गलानामुदयेन इष्टशब्दादिकं वेदयते, 'एस णं गो०!' इत्याधुपसंहारवाक्यं,
'दुहनामस्सगंभंते!' इत्यादि प्रश्नसूत्रप्राग्वत्, निर्वचनसूत्रप्रागुक्तार्थवैपरीत्येन भावनीयं,
गोत्रं द्विधा उच्चैर्गोत्रं नीचैर्गोत्रंच, तत्रौच्चैर्गोत्रविषयं सूत्रमाह-'उच्चागोयस्स णं भंते !' इत्यादित प्रश्नसूत्रं प्राग्वत्, निर्वचनमष्टविधोऽनुभावः प्रज्ञप्तः, तदेवाष्टविधत्वं दर्शयति'जाइविसिट्ठया' इत्यादि, जात्यादयः सुप्रतीताः, शब्दार्थस्त्वेवम्-जात्या विशिष्टो जातिविशिष्टस्तद्भावोजातिविशिष्टता इत्यादि जंवेएइ पुग्गलंवा इत्यादियंवेदयतेपुद्गलंबाह्यद्रव्यादिलक्षणं, तथाहि-द्रव्यसम्बन्धाद्राजादिविशिष्टपुरुशम्परिग्रहाद्वानीचजातिकुलोत्पन्नोऽपिजात्यादिसम्पन्न इव जनस्य मान्य उपजायते, बलविशिष्टताऽपि मल्लानामिव लकुटिभ्रमणवशात् रूपविशिष्टता प्रतिविशिष्टताहग्वस्त्रालङ्गारसम्बन्धात् तपोविशिष्टता गिरिकूट्याचारोहणेनातापनां कुर्वतः श्रुतविशिष्टता मनोत्रभूदेसम्बन्धात् स्वाध्यायं कुर्वतः लाभविशिष्टता प्रतिविशिष्टरलादियोगात् ऐश्वर्यविशिष्टता धनकनकादिसम्बन्धादिति, 'पुग्गले वा' इति यान् बहून् पुद्गलान् वेदयते पुद्गलपरिणाम-दिव्यफलाद्याहारपरिणामरूपंविनसयावा यंपुद्गलानांपरिणामंअकस्मादभिहितजलदागमलसंवादादिलक्षणंतप्रभावादुच्चैर्गोत्रं वेदयते-उच्चैर्गोत्रकर्मफलं जातिविशिष्टत्वादिकं वेदयते, एतेन परतउदय उक्तः,सम्प्रति स्वतस्तमाह-'तेसिंवाउदएणं'तेषांवाउच्चैर्गोत्रकर्मपुद्गलानां उदयेन जातिविशिष्टत्वादिकं, भवति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664