Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 642
________________ पदं-३६, उद्देशकः, द्वारं ३१५ द्रष्टव्यं, षट्सु मासेषु कदाचिदपान्तराले वर्षाकालसम्भवात् तन्निमित्तं पीठफलकादीनामादानमप्युपपद्येत्, न च तत्सूत्रसम्मतमिति तत्परूपणमुत्सूत्रमवसेयं, एतच्चोत्सूत्र आवश्यकेऽपि समुद्घातानन्तरमव्यवधातेन शैलेश्यभिधानात. (यतः) तत्सत्रं॥१॥ "दण्डकवाडे मंथंतरे य साहारणा सरीरत्थे । भासाजोगनिरोहे सेलेसी सिज्झणा चेव ।।" यदि पुनरुत्कर्षतः षण्मासरूपमपान्तरालं भवेत्ततस्तदप्यभिधीयेत, न चोक्तं, तस्मादेव अयुक्तमेतदिति, तथा चाह भाष्यकार:॥१॥ “कम्मलहुयाए समओ भिन्नमुहुत्तावसेसओ कालो। __ अन्ने जहन्नमेयं छम्मासुकोसमिच्छति॥ ॥२॥ तत्तोऽनंतरसेलेसीवयणओ जंच पाडिहारीणं । पच्चप्पणमेव सुए इहरा गहणंपिहोजाहि ।।" अत्र कर्मलघुतानिमित्तंसमुद्घातस्य समयः-अवसरोभिन्नमुहूर्तावशेषकालः,शेषं सुगम, तदेवमन्तर्मुहूर्तकालंयथायोगयोगत्रयव्यापारभाक्केवली भूत्वा तदनन्तरमत्यन्ताप्रकम्पलेश्यातीतं परमनिर्जराकारणंध्यानं प्रतिपित्सुरवश्यंयोगनिरोधायोपक्रमते, योगेसति यथोक्तरूपस्यध्यानस्यासम्भवात्, तथाहि-योगपरिणामोलेश्या, तदन्वयव्यतिरेकानुविधानात्, ततोयावद्योगस्तावदवश्यंभाविनी लेश्येति न लेश्यातीतध्यानसम्भवः, अपिच-यावद्योगस्तावत्कर्मबन्धोऽपि, 'जोगा पयडिपएसंठिइअनुभागं कसायओ कुणई' इति वचनात्, केवलं स कर्मबन्धः केवलयोगनिमित्तत्वात्समयत्रयावस्थायी; तथाहि-प्रथमसमयेकर्मबध्यते, द्वितीयसमये वेद्यते, तृतीयेतु समये तत्कर्माकर्मीभवति, तत्र यद्यपि समयद्वयरूपस्थितिकानि कर्माणि क्रियन्ते, पूर्वाणि २ कर्माणि प्रलयमुपगच्छन्ति, तथापि समये समये सन्तत्या कर्मादाने प्रवर्तमाने सति न मोक्षः स्याद्, अथ चावश्यं मोक्षं गन्तव्यं-तस्मात् कुरुते सयोगनिरोधमिति, उक्तंच॥१॥ “स ततो योगनिरोधं करोति लेश्यानिरोधमभिकाङ्क्षन् । समयस्थितिं च बन्धं योगनिमित्तं स निरुरुत्सुः ।। समये समये कर्मादाने सति सन्ततेनं मोक्षः स्यात् । यद्यपि हि विमुच्यन्ते स्थितिक्षयात् पूर्वकर्माणि ॥ ॥३॥ नाकर्मणो हि वीर्यं योगद्रव्येण भवति जीवस्य । तस्यावस्थानेन तु सिद्धः समयस्थितेर्बन्धः ।।" अत्र बन्धस्य समयमात्रस्थितिकता बन्धसमयतिरिच्य वेदितव्या, भाष्यमप्येनं पूर्वोक्तं सकलमपि प्रमेयं पुष्णाति, तथा च तद्वतो ग्रन्थः॥१॥ “विणिवित्तसमुग्घाओ तिन्निविजोगे जिनो पउंजिज्जा। ___ सच्चमसच्चामोसंच सो मणं तह वईजोगं ।। ॥२॥ ओरालियकाययोगं गमणाई पाडिहारियाणं वा । पच्चप्पणं करेजा जोगनिरोहं तओ कुणइ ।। ॥३॥ किन्न सयोगो सिज्झइ? सबंधहेउत्तिजं सजोगोऽयं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664