Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
पदं-३६, उद्देशकः-, द्वार
३१७ च णमित्यादि, तस्मात् मनोयोगनिरोधादनन्तरं चशब्दो वाक्यसमुच्चये णमिति वाक्यालङ्कारे द्वीन्द्रियस्य पर्याप्तस्य जघन्ययोगिनः सत्कस्य वाग्योगस्येति गम्यतेऽधस्तात् वाग्योगं असङ्खयेयगुणपरिहीनं समये समये निरुन्धानोऽसद्धयेयैः समयैः साकल्येनेति गम्यते द्वितीयं वाग्योगं निरुणद्धि, आह च भाष्यकृत॥१॥ “पज्जत्तमित्तबिंदिय जहन्नवइजोगपजवाजे उ ।
तदसंखगुणविहीणं समये समये निरंभंतो॥ सब्बवइजोगरोहं संखाईएहिं कुणइ समरहिं" 'ततोऽनंतरचण'मित्यादि, ततो वाग्योगादनन्तरं च णं प्राग्वत् सूक्ष्मस्य पनकजीवस्य अपर्याप्तकस्य प्रथमसमयोत्पन्नस्येति भावार्थः जघन्ययोगिनः सर्वाल्पवीर्यस्यपनकजीवस्ययःकाययोगस्तस्याधस्तादसङ्ख्येयगुणहीनं काययोगं समये समये निरुन्धन् असङ्ख्येयैः समयैः समस्तमपीति गम्यते तृतीयं काययोगं निरुणद्धि, तंच काययोगनिरुन्धानः सूक्ष्मक्रियमप्रतिपातिध्यानमधिरोहति, तत्सामथ्याच वदनोदरादिविवरपूरणेन संकुचितदेहत्रिभागवर्तिप्रदेशो भवति, तथा चाह भाष्यकृत
"तत्तोय सुहुमपनगस्स पढमसमयोववण्णस्स॥ जो किरजहन्नजोगी तदसंखेज्जगुणहीणमेोके ।
___समएहिं रुंभमाणो देहतिभागं च मुंचंतो॥ रुंभइसकायजोगसंखाईएहिं चेव समएहिं' काययोगनिरोधकालान्तरेचरमे अन्तर्मुहूर्ते वेदनीयादित्रयस्य प्रत्यकंस्थितिः सर्वापवर्तनया अपवत्यायोग्यवस्थासमाना क्रियतेगुणश्रेणिक्रमविरचितप्रदेशा, तद्यथा-प्रथमस्थितौ स्तोकाः प्रदेशाः, द्वितीयस्यां स्थिती ततोऽसङ्ख्येयगुणाः, तृतीयस्यां ततोऽप्यसङ्ख्येयगुणाः, एवंतावद्वाच्ययावच्चरमा स्थितिः, स्थापना, एताः प्रथम समयगृहीतदलिकनिर्वतिता गुणश्रेणयः, एवं प्रतिसमयगृहीतदलिकनिर्विर्तिताः कमंत्र्यस्य प्रत्येकसमङ्खयेया द्रष्टव्याः अन्तर्मुहूर्तसमयानामसङ्घयायत्वात्, आयुषस्तु स्थितियथाबद्धैवावतिष्ठते, सा च गुणश्रेणिक्रमविपरीतक्रमदलिकरचना,
अयं च सर्वोऽपि मनोयोगादिनिरोधो मन्दमतिसुखावबोधार्थमाचार्येण स्थूरदृष्टया प्रतिपादितः, यदि पुनः सूक्ष्मदृष्ट्या तत्स्वरूप जिज्ञासा भवति तदा पञ्चसङ्ग्रहटीका निभालनीया, तस्यामिति निपुणंप्रपञ्चेन तस्याभिधानाद, इहचग्रन्थगौरवभयानास्माभिरभिहितः, सेण'मित्यादि, सोऽधिकृतः केवली णमिति पूर्ववत् एतेनानन्तरोदितेनोपायेन-उपायप्रकारेण, शेषं सुगम, यावदयोगतां पाउणइत्ति प्राप्नोति, अयोगताप्राप्तयभिमुखो भवति इति भावार्थः, अयोगतांच प्राप्य-अयोगताप्राप्तयभिमुखो भूत्वा
'ईसिंति स्तोकं कालं शैलेशी प्रतिपद्यते इति सम्बन्धः, कियता कालेन विशिष्ट इत्यत आह-इस्वपञ्चारोच्चराणाद्धया, किमुक्तंभवति?-नातिद्रुतं नातिविलम्बितंकिन्तुमध्यमेनप्रकारेण यावता कालेन झणनम इत्येवंरूपाणि पञ्चाक्षराणि उच्चार्य्यन्ते तावता कालेन विशिष्टामिति, एतावान् कालः किंसमयप्रमाण इति निरूपणार्थमाह-असङ्घयेयसामयिकां-असङ्घयेयसमयप्रमाणां, यच्चासङ्घयेयसमयप्रमाणंतच्च जघन्यतोऽप्यन्तर्मुहूर्तप्रमाणंततएषाऽप्यन्तर्मुहूर्त्तप्रमाणेति ख्यापनायाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664