Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
पदं-३६, उद्देशक:-, द्वारं
३१९
हिलब्धयः साकारोपयोगोपयुक्तस्यउपजायतेनाकाकारोपयुक्तस्य, सिद्धिरण्येषा सर्वलब्युत्तमा लब्धिरिति साकारोपयोगोपयुक्तस्योपजायते, आह च॥१॥ “सव्वाओ लद्धीओ जं सागारोवओगलाभाओ।
तेणह सिद्धिलद्धी उप्पजइ तदुवउत्तस्स ॥" तदनन्तरं तु क्रमेणोपयोगप्रवृत्तिः । तदेवं यथा केवली सिद्धो भवति तथा प्रतिपादितमिदानी सिद्धा यथास्वरूपास्तत्रावतिष्ठन्ते तथा प्रतिपादयति-'तेणं तत्थ सिद्धा भवंती'त्यादि, ते-अनन्तरोक्तक्रमसम्भूता णमिति वाक्यालङ्कारे तत्र लोकान्ते सिद्धा भवन्ति, अशरीराःऔदारिकादिशरीरविप्रमुक्ताः तेषां सिद्धत्वप्रथमसमये एव सर्वात्मना त्यक्तत्वात, जीवधना-- निचितीभूतजीवप्रदेशरूपाः, सूक्ष्मक्रियाऽप्रतिपातिध्यानप्रतिपत्तिकाले एव तत्सामर्थ्यतो वदनोदरादिविवराणामापूरितत्वात्, दर्शनज्ञानोपयुक्ता जीवस्वाभाव्यात्, निष्ठितार्थाः कृतकृत्यत्वात्, नीरजसोबध्यमानकर्माभावात्, निरेजनाःकम्पक्रियानिमित्तविरहात, वितिमिराः कर्मतिरमिरवासनापगमात्, विशुद्धास्त्रिविधसम्यग्दर्शनादिमार्गप्रतिपत्त्या अत्यन्तशुद्धीभूतत्वात्, ते चेत्यंभूतास्तत्र गतास्तिष्ठन्ति शाश्वतंयथा भवत्येवं 'अनागताद्धं' अनागता-भाविनी अद्धा समस्ता यत्र सोऽनागताद्धः तं कालं यावत्, अत्रैव मन्दमतिविबोधायाक्षेपपरिहारावाह
'सेकेणटेणंभंते!' इत्यादि सुगम, नवरं 'कम्मबीएसुत्ति कर्मरूपाणि बीजानि-जन्मनः कारणानि कर्मबीजानि तेषु दग्धेषु-निर्मूलकाषंकषितेषुपुनरपि-भूयो जन्मन उत्पत्तिर्न भवति, कारणमन्तरेण कार्यासम्भवात्, अथ तान्येव कर्माणि भूयः कस्मान भवन्ति ?, उच्यते, रागादीनामभावात्, रागादयो ह्यायुःप्रभृतीनां कर्मणांकारणं, नचतेतेषांसन्ति, प्रागेवक्षीणमोहावस्थायां क्षीणत्वात्, न च तेऽपि क्षीणाअपि भूयः प्रादुष्यन्ति, सहकारिकारणाभावात्, रागादीनां ह्युत्पत्ती परिणामिकारणमात्मा सहकारिकरणं रागादिवेदनीयं कर्म, न चोभयकारणजन्यं कार्यमेकतरस्याप्यभावे भवति, अन्यथा तस्याकारणत्वप्रसङ्गात्, न च सिद्धानं रागादिवेदनीयं कर्मास्ति, तस्य प्रागेव शुक्लध्यानाग्निनाभस्मीकृतत्वात्, न च वाच्यमत्रापि स एव प्रसङ्गः, यथा तदपि रागादिवेदनीयं कर्म भूयः कस्मान्न भवतीति ?, तत्कारणस्य सङ्कलेशस्याभावात्, रागादिवेदनीयानां हि कर्मणामुत्पत्ती रागादिपरिणतिरूप; सङ्कलेशः,
जंवेयइसे बंधइ' इति, नच रागादिवेदनीयकर्मविनिर्मुक्तस्य तथाभूतं सक्लेशोत्थानमस्ति, ततस्तदभावाद्रागादिवेदनीयकर्माभावः, तदभावाच्च भूयो रागादीनाममावः, तथा च रागादीनामेव पुनरुत्पत्तिचिन्तायां धर्मसङ्ग्रहण्यामुक्तम्॥१॥ 'खीणा य ते न होंती पुनरवि सहकारिकारणाभावा ।
नहि होइ संकिलेसो तेहिं विउत्तस्स जीवस्स ।। ॥२॥ तयभावा न य बंधो तप्पाउग्गस्स होइ कम्मस्स।
तदभावे तदभावो सव्वद्धं चेव विवेओ॥" इति, ततो रागादीनामभावादायुःप्रभृतीनां कर्मणांपुनरुत्पादाभावस्तदभावाच्च न भूयो जन्मोत्पत्तिः, अत एवोक्तमन्यत्रापि--
॥१॥ "दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664