Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 559
________________ २३२ प्रज्ञापनाउपाङ्गसूत्रम्-२- २८/२/८/५६६ केवलज्ञानचिन्तायामि त्रीणि पदानि, तद्यथा-सामान्यतो जीवपदं मनुष्यपदं सिद्धपदं च, तत्र सामान्यतो जीवपदे मनुष्यपदे चैकवचने स्यादाहारकः स्यादनाहारक इति वक्तव्यं, सिद्धपदे त्वनाहारक इति, बहुवचने सामान्यतो जीवपदे आहारका अपि अनाहारका अपि, मनुष्यपदे मङ्गत्रिकं, तच्च प्रागेवोपदर्शितं, सिद्धपदे त्वनाहारका अपि। अज्ञानिसूत्रंमत्यज्ञानिसूत्रं श्रुताज्ञानिसूत्रएकवचने प्रागिव, बहुवचनतचिन्तायांजीवपदे एकेन्द्रियेषु च पृथिव्यादिषु प्रत्येकमाहारका अनाहारका अपि इति वक्तव्यं, शेषषुतु भङ्गत्रिकं, विमङ्गज्ञानिसूत्रमप्येकवचने तथैव, बहुवचनचिन्तायां पञ्चेन्द्रियतिर्यग्योनिका मनुष्याचाहारका एक वक्तव्याः, न त्वनाहारकाः, विभङ्गज्ञानसहितस्य विग्रहगत्या तिर्यक्पञ्चेन्द्रियेषु मनुष्येषु चोत्पत्त्यसम्भवात्, अवशेषेषु स्थानेषु एकेन्द्रियविकलेन्द्रियवर्जेषु प्रत्येकं भङ्गत्रिकं । -पदं-२८, उद्देशकः-२-दारं ९ “योगः" :मू. (५६७) सजोगीसुजीवेगिंदियवज्जोतियभंगो, मणजोगी वइजोगी जहा सम्मामिच्छट्टिी, नवरं वइजोगोविगलिंदियाणवि, कायजोगीसुजीवेगिंदियवज्जोतियभंगो, अजोगीजीवमनूससिद्धा अनाहारगा। इ. गतंज्ञानद्वारं, सम्प्रति योगद्वारं-तत्र सामान्यतः सयोगिसूत्रमेकवचने तथैव, बहुवचने जीवएकेन्द्रियपदानि वर्जयित्वाशेषेषु स्थानेषुभङ्गत्रिकं, जीवपदे पृथिव्यादिपदेषु चपुनः प्रत्येकमाहारका अपि अनाहारका अपीति भङ्गः, उभयेषामपि सदैव तेषुस्थानेषु बहुत्वेन लभ्यमानत्वात् 'मणजोगी वइजोगी जहा सम्मामिच्छद्दिट्टी यत्ति मनोयोगिनो वाग्योगिनश्च यथा प्राक् सम्यग्मिथ्याष्टिय उक्तास्तथा वक्तव्याः, एकवचनेबहुवचनेचाहारकाएववक्तव्यान त्वनाहारका इति भावः, नवरं वइजोगो विगलिंदियाणवित्तिनवरमिति-सम्यग्मिथ्याष्टिसूत्रादत्रायविशेषः, सम्याग्मथ्याष्टित्वं विकलेन्द्रियाणां नास्तीति तत्सूत्रं तत्र नोक्तं, वाग्योगः पुनर्विकलेन्द्रियाणामप्यस्तीति तत्सूत्रमपि वाग्योगे वक्तव्यं, तच्चैवम् 'मणजोगी णं भंते! जीवे किं आहारए अनाहारए?, गो० ! आहारए नो अनाहारएस, एवं एगिदियविगलिंदियवज्जं जाव वेमाणिए, एवं पुहुत्तेणवि,, वइजोगी णं भंते ! किं आहा० अना०?, गो०! आहारएनो अनाहारए, एवं एगिंदियवजं जाव वेमाणिए, एवंपुहुत्तेणवित्ति, काययोगिसूत्रमप्येकवचने बहुवचने च सामान्यतः सयोगिसूत्रमिव, अयोगिनो मनुष्यः सिद्धाश्च, तेनात्र त्रीणि पदानि, तद्यथा-जीवपदं मनुष्यपदं सिद्ध:पदं च, त्रिष्वपिस्थानेष्वेकवचने बहुवचने चानाहारकत्वमेव । -पदं-२८, उद्देशकः-२-वार-१० "उपयोगः" :मू. (५६८) सागारानागारोवउत्तेसु जीवेगिंदियवजो तियभंगो, सिद्धा अनाहारगा। वृ. गतं योगद्वार, अधुनोपयोगद्वारमाह-तत्र साकारोपयोगसूत्रे अनाकारोपयोगसूत्रेच प्रत्येकमेकवचने सर्वत्र स्यादाहारकः स्यादनाहारक इति वक्तव्यं, सिद्धपदे त्वनाहारक इति, बहुवचने जीवपदे पृथिव्यादिपदेषु चाहारका अपिअनाहारका अपिइति भङ्गः, शेषेषु भङ्गत्रिकं, सिद्धास्त्वनाहारका इति, सूत्रोलेस्तस्त्वयम्-सागारोवउत्तेणंभंते! जीवे किंआहारएअनाहारए गो० ! सिय आहारए सियअनाहारए' इत्यादि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664