Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२६८
प्रज्ञापनाउपाङ्गसूत्रम्-२- ३५/-/-/५९८ चतुर्विंशतिदण्डकक्रमेण प्रतिपादयति
'नेरइयाण मित्यादि, द्विविधा हि नैरयिकाः--संज्ञिभूता असंज्ञिभूताश्च, तत्र येते संज्ञिभ्य उत्पन्नास्ते संज्ञिभूताः, येत्वसंज्ञिभ्यस्तेऽसंज्ञिभूताः असंज्ञिनश्च पाश्चात्यं न किमपिजन्मान्तरकृतं शुभमशुभं वैरादिकं वा स्मरन्ति, स्मरणं हि तत्र प्रवर्तते यत्तीद्रेणाभिसन्धिना कृतं भवति, न चासंज्ञिभवेपाश्चात्येतेषां तीव्राभिसन्धिरासीत्, मनोविकलत्वात्, ततो यामपि काञ्चिद्वेदनांनैरयिका वेदयन्ते तामनिदां, पाश्चात्यभवानुभूतिविषयस्मरणपटुचित्तासम्भवात्, संज्ञिभूतास्तु सर्व पाश्चात्यमनुस्मरन्तीति ते निदां वेदनां वेदयन्ते इति, ।
एवमसुरकुमारादयः स्तनितकुमारपर्यवसाना भवनपतयो वक्तव्याः, तेषामपि संज्ञिभ्योऽसंज्ञिभ्यश्चोत्पादसम्भवात्, पृथिव्यानेजोवायुवनस्पतिद्वितिर्चतुरिन्द्रियाः सम्मूर्छिमा इतिमनोविकलत्वात् अनिदामेव वेदनां वेदयन्ते, पंचिंदियतिरिक्खजोणिया मणूसा वाणमंतरा जहा नेरइया' इति, पञ्चेन्द्रियतिर्यग्योनिका मनुष्या व्यनतराश्चयथा नैरयिकास्तथा वक्तव्या इति शेषः, निदामपि वेदनां वेदयन्ति अनिदामपि वेदनां वेदयन्ते इति वक्तव्या इत्यर्थः कस्मादिति चेत्, उच्यते,
__ इह पञ्चेन्द्रियतिर्यग्योनिका मनुष्याश्च द्विधाभवन्ति, तद्यथा-सम्मूर्छिमा गर्भव्युत्क्रान्तिकाश्च, तत्र ये ते सम्मूर्छिमास्ते मनोविकलत्वादनिदां वेदनां वेदयन्ते, ये तु गमव्युत्क्रान्तास्ते समनस्काइति निदांवेदनामनुभवन्ति, व्यन्तरास्तुसंज्ञिभ्योऽपिउत्पद्यन्तेअसंज्ञिभ्योऽपिततस्तेऽपि नैरयिकवत् निदां चानिदां च वेदनां वेदयमाना मावनीयाः,
___'जोइसिया णमित्यादि, ज्योतिष्कास्तु संज्ञिभ्य एवोत्पद्यन्ते, ततस्तेषु न नैरयिकोक्तेन प्रकारेण निदानिदेवेदने सम्भावनीये, किन्तुप्रकारान्तरेण, ततस्तमेवप्रकारंबुभुत्सुः प्रश्नसूत्रमाह'से केणटेणं भंते !' इत्यादि सुगमं, भगवानाह-'गोयमे त्यादि, ज्योतिष्का हि द्विविधाःमायिमिथ्याध्ष्टयुपपत्रकाः अमायिसम्यग्दृष्टयुपपन्नकाश्च,
तत्र मायानिवर्तितं यत्कर्म मिथ्यात्वादिकं तदपि माया, कार्ये कारणोपचारात्, माया विद्यते येषां ते मायिनः,अत एव मिथ्यात्वोदयात् मिथ्या-विपर्यस्ता दृष्टिः-वस्तुतत्त्वप्रतिपत्तिर्येषां ते मिथ्यादृष्टयो मायिनश्च ते मिथ्याष्टयश्चमायिमिथ्याष्टयस्ते च ते उपपन्नकाश्च मायमिमिथ्यादृष्टयुपपन्नकाः तद्विपरीताअमायिसम्यग्दृष्टयुपपन्नकाः,
तत्र ये ते मायिमिथ्यादृष्टयुपपन्नकास्तेऽपि मिथ्याष्टित्वादेव व्रतविराधनातोऽज्ञानतपोवशाद्वा वयमेवंविधा उत्पना इति न जानते, ततः सम्यग्यथावस्थितपरिज्ञानाभावादनिदां वेदनां वेदयमानास्तेवेदितव्याः, येत्वमायिसम्यग्दृष्टयुपपन्नास्त सम्यग्धष्टित्वात्यथावस्थितंस्वरूपं जानन्ति, ततो यां काञ्चन वेदनां वेदयन्ते तां सर्वामपि निदामिति,
___ “एवंचेववेमाणियावि' इति एवं-ज्योतिष्कोक्तेन प्रकारेण वैमानिकाअपि निदामनिदां च वेदनां वेदयमाना वेदितव्याः, तेषामपि मिथ्याष्टिसमष्टिभेदतो द्विविधत्वात् ॥
पदं - ३५ - समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रे पश्चत्रिशत्तमपदस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6fdc3aa0d387d71b269d4695ad1a301657cd97065b5e5ac54541ec0d68f916a3.jpg)
Page Navigation
1 ... 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664