Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
पदं- ३६, उद्देशक:-, द्वारं -
३११
न तत्सम्यगुपपन्नमित स्थितं, अपर आह- ननु यदा वेदनीयादिकमतिप्रभूतं सर्वस्तोकं चायुस्तदा समधिकवेदनीयादिसमुद्घातार्थ समुद्घातमारभतां, वेदनीयादेः सोपक्रमत्वात्, यदा त्वधिकमायुः सर्वस्तोकं च वेदनीयादिकं तदा का वार्ताता ?, न खल्वायुषः समधिकस्य समुद्घाताय समुद्घातः कल्प्यते, चरमशरीरिणामायुषो निरुपक्रमत्वात् 'चरमसरीराय निरुवकमा' इति वचनात्, तदयुक्तं, एवंविधभावस्य कदाचनाप्यभावात्, तथाहि
सर्वदैव वेदनीयाद्येवायुषः सकाशादधिकस्थितिकं भवति, न तु कदाचिदपि वेदनीयादेरायुः, अथैवंविधो नियमः कुतो लभ्यते ?, उच्यते, परिणामस्वभाव्यात्, तथाहि -इत्थंभूत एवात्मनः परिणामो येनास्यायुर्वेदनीयादेः समं भवति न्यूनं वा न तु कदाचनाप्यधिकं यथैतस्यैवायुषः खल्वध्रुवबन्धः, तथाहि - ज्ञानावरणादीनि कर्माणि आयुर्वर्जानि सप्तापि सदैव बध्यन्ते, आयुस्तु प्रतिनियत एव काले स्वभवत्रिभागादिशेषरूपे, तत्र चैवंविधवैचित्र्यनियमे न स्वभावादतेऽपरः कश्चिदस्ति हेतुरेवमिहापि स्वभावविशेष एव नियामको द्रष्टव्य, आह च भाष्यकृत् - "असमठिईणं नियमो को थेवं आउयं न सेसंति । परिणामसहावाओ अद्धवबंधोवि तस्सेव ॥”
|| 9 ||
अथ विशेषपरिज्ञानाय गौतमो भगवन्तं पृच्छति - 'सव्वेवि ण' मित्यादि, णमिति निश्चये सर्वेऽपि खलु केवलिनः समवध्नन्ति - समुद्घाताय प्रयतन्ते, प्रयत्नानन्तरं च सर्वेऽपि खलु केवलिनः समुद्घातं गच्छन्त ? इति गौतमेन प्रश्ने कृते सति भगवान्निर्वचनमाह - 'गोयमे' त्यादि, गौतम ! नायमर्थः समर्थः- नायमर्थः उपपन्नः, किमुक्तं भवति ? - सर्वेऽपि केवलिनः समुद्घाताय न प्रयतन्ते नापि समुद्घातं गच्छन्ति, किन्तु येषामायुषः समधिकं वेदनीयादिकं, यस्य पुनः स्वभावत एवायुषा सह समस्थितिकानि वेदनीयादीनि कर्माणि सोऽकृतसमुद्घात एव तानि क्षपयित्वा सिध्यति, तथा चाहपू. (६१६)
"जस्साउएण तुल्लाति, बंधणेहिं ठितीहि य । भवोवग्गहकम्माई, समुघातं से णं गच्छति ॥
वृ. 'जस्से' त्यादि, यस्य केवलिन आयुषा सह भवे - मनुष्यभवे उप-समीपेन गृह्यते अवष्टभ्यते यैस्तानि भवोपग्रहाणि तानि च तानि कर्माणि च भवोपग्राहकर्माणि वेदनीयनामगोत्राणि. बन्धनैः–प्रदेशैः स्थितिभिश्च तुल्यानि - समानि भवन्ति स समुद्घातं न गच्छति, अकृतसमुद्घात एव तानि क्षपयित्वा स सिद्धिसौधमध्यास्ते इति भावः, उक्तं च
119 11
“जस्स उ तुलं भवइ य कम्मचउकं सभावतो जो य । सो अकयसमुग्धाओ सिज्झइ जुगवं खेवऊणं ॥” अथायं कदाचित्को भाव उत बाहुल्यभावः ?, तत आहपू. (६१७) अगंतूणं समुग्धातं, अनंता केवली जिना । जरामरणविप्पमुक्का, सिद्धिं वरगतिं गता ।।
वृ. 'अगंतूण समुग्धाय' मित्यादि, अगत्वा समुद्घातं - केवलिसमुद्घातं 'सिद्धिं' चरमगतिं गता इति सम्बन्धः कियत्सङ्ख्याका इत्याह- अनन्ताः - अनन्तसङ्ख्याकाः 'केवलिनः ' केवलज्ञानदर्शनोपेताः, अनेन ये नवानामात्मगुणानामत्यन्तोच्छेदो मोक्ष इति प्रतिपन्नास्तेऽपास्ता द्रष्टव्याः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664