Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 637
________________ ३१० प्रज्ञापनाउपाशसत्रम्-२-- ३६/-/-/६१५ ॥१॥ "विसमंस करेइ समंसमोहओ बंधणेहि ठिइए य। कम्मद्दव्वाइंबंधणाति कालो ठिई तेसिं।" ततश्च तैर्बन्धनैः स्थितिभिश्च विषमं सत् वेदनीयादिकं समुद्घातविधिना सममायुषा सह करोति, स एवं खलु केवली बन्धनैः स्थितिभिश्च विषमस्य सतो वेदनीयादिकस्य कर्मणः 'समीकरणयाए' इति अत्र ताप्रत्ययः स्वार्थिकः, ततोऽयमर्थः-समकरणाय ‘समोहन्नई' इति समवहन्ति-समुद्घातय प्रयतते, एवं खलु समुद्घातं गच्छति, उक्तं च॥१॥ “आयुषि समाप्यमाने शेषाणं कर्मणां च यदि समाप्तिः । नस्यात् स्थितिवैषम्यात् गच्छति स ततः समुद्घातम् ।। ॥२॥ स्थित्या च बन्धनेन च समीक्रियार्थ हि कर्मणां तेषाम्। ___ अन्तर्मुहूर्तशेषे तदायुषि समुजिघांसति सः ।।" । ननुप्रभूतस्थितिकस्य वेदनीयादेरायुषा सह समीकरणा) समुद्घातभारभते इति यदुक्तं तन्नोपपन्नं, कृतनाशादिदोषप्रसङ्गात्, तथाहि-प्रभूतकालोपभोग्यस्य वेदनीयादेरारत एवापगमसम्भवात् कृतनाशः, वेदनीयादिवच्च कृतस्यापि कर्मक्षयस्य पुनर्नाशसम्भवान्मोक्षेऽप्यनाश्चसप्रसङ्गः, तदसत्, कृतनाशादिदोषाप्रसङ्गात्, तथाहि-इहयथाप्रतिदिवसंसेतिकापरिभोगेन वर्षशतोपभोग्यस्य कल्पितस्याहारस्य भस्मकव्याधिना तत्सामर्थ्यात् स्तोकजिवसैनिःशेषतः परिभोगान कृतनाशोपगमः तथाकर्मणोऽपिवेदनीयादेः तथाविधशुभागध्यवसायानुबन्धादुक्रमेण साकल्यतो भोगान्नकृतनाशरूपदोषप्रसङ्गः, द्विविधोहि कर्मणोऽनुभवः-प्रदेशतो विपाकतच, तत्र प्रदेशतः सकलमपि कर्मानुभूयते, न तदस्ति किश्चित् कर्म यप्रदेशतोऽप्यननुभूतं सत् क्षयमुपयाति, ततः कयं कृतनाशदोषापत्तिः?, विपाकतस्तु किश्चिदनुभूयते किञ्चिन्न, अन्यथा मोक्षाभावप्रसङ्गात्, तथाहि-यदि विपाकानुभूतित एव सर्व कर्म क्षपणीयमिति नियमः तसिझ्यातेषु भवेषुतथाविधविचित्राध्यवसायविशेषैर्यन्नरकगत्यादिकं कर्मोपार्जितं तस्य नैरस्मिन् मनुष्यादावेद भवेऽनुभवः, स्वस्वभवनिबन्धनत्वात् तथाविधविपाकानुभवस्य, क्रमेण च स्वस्वभवानुघमनेन वेदने नारकादिभवेषुचारित्राभावनप्रभूततरकर्मसन्तानोपचयात्तस्यापि स्वस्वभवानुगमनेनानुभवोपगमात् कुतो मोक्षः?, तस्मात् सर्वं कर्म विपाकतो भाज्यं प्रदेशतोऽवश्यमनुभवनीयमिति प्रतिपत्तव्यं, एवं च नकश्चिद्दोषः, नन्वेवमपिदीर्घकालभोग्यतया तवेदनीयादिकंकर्मोपचितंअथ चपरिणामविशेषादुपक्रमेणारादेव तदनुभवतिततः कथंनकृतनाशदोषापत्तिः?, तदप्यसम्यक्, बन्धकाले तथाविधाध्यवसायवशादादावुपक्रमयोग्यस्यैव तेन बन्धनात्, अपिच-जिनवचनप्रामाण्यादपि वेदनीयादिकर्मणामुपक्रमो मन्तव्यः, यदाह भाष्यकृत्॥१॥ "उदयक्खयक्खओवसमोवसमा जंच कम्मुणो भणिया। __दव्वाइं पंचगं पइ जुत्तमुवक्कमणमेत्तोवि॥" नचैवं मोक्षोपक्रमहेतुः कश्चिदस्ति येन तत्रानाश्चासप्रसङ्गः, यथा च न मोक्षोपक्रमहेतुः कश्चिदस्तितथाऽन्तिमसूत्रे भावयिष्यते, ततो यदुक्तं वेदनीयादिवच्च कृतस्यापि कर्मक्षयस्ये त्यादि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664