Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 598
________________ २७१ पदं-३६, उद्देशकः-, द्वारहन्ति, एकमनन्तभागं मुञ्चति, अत्रापि प्रशस्तप्रकृत्यनुभागधातोऽप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेनावसेयः, ततः पुनरपितृतीयसमयावशिष्टस्यस्थितेरसङ्खयेयभागस्यानुभागस्य चानन्ततमभागस्य बुध्ध्या यथाक्रममसङ्खयेयाअनन्ताश्च भागाः क्रियन्ते, ततश्चतुर्थसमयेस्थितेरसङ्घयेयान भागान् हन्ति, एकस्तिष्ठति, अनुभागस्याप्यनन्तान् भागान् हन्त्येकोऽवशिष्यते, प्रशस्तप्रकृत्यनुभाग-दातश्च पूर्ववदवसेयः, एवंचस्थितिघातादि कुर्वतश्चतुर्थसमये स्वप्रदेशापूरितसमस्तलोकस्य भगवतः केवलिनो वेदनीयादिकर्मत्रयस्थितिरायुषः सङ्ख्येयगुणाजाता, अनुभागस्त्वद्याप्यनन्तगुणः, चतुर्थसमयावशिष्टस्य च स्थितेरसङ्घयेयभागस्थानुभागस्य चानन्ततमभागस्यभूयोऽपिबुद्धया यथाक्रमंसद्ध्येया अनन्ताश्च भागाः क्रियन्ते, ततोऽवकाशान्तरसंहारसमये स्थितेः सङ्ग्येयभागान्हन्ति, एकं सद्ध्येयभागं शेषीकरोति, अनुभागस्यानन्तान् भागान्हन्ति एकं मुञ्चति, एवमेतेषुपञ्चसुदण्डादिसमयेषु प्रत्येकंसामयिकंकण्डकमुत्कीर्णं, समये २ स्थितिकण्डकानुभागकण्डघातनात्, अतः परंषष्ठसमयादारभ्य स्थितकण्डकमनुभागकण्डकं चान्तर्मुहूर्तेन कालेन विनाशयति, प्रयत्नमन्दीभावात्, षष्ठादिषु च समयेषु कण्डकस्य प्रतिसमयमेकैकं शकलं तावदुत्किरति यावदन्तर्मुहूर्तचरमसमये सकलमपितत्कण्डकमुत्कीरणंभवति,एवमान्तर्गौहूर्तिकानि स्थितिकण्डककान्यनुभागकण्डकानि च धातयन् तावद्वेदितव्यः यावत् सयोग्यवस्थाचरमसमयः, सर्वाण्यपि चामूनि स्थित्यनुभागकण्डकान्यसङ्ख्येयान्यव- गन्तव्यानीति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तत्र संग्रहणिगाथोक्तमर्थं स्पष्टयन प्रथमतः समुद्घात- सङ्घयाविषयं प्रश्नसूत्रमाह मू. (६००) कतिणंभंते ! समुग्घाया पं०?, गो० ! सत्त समुग्घाया पं०, तं०-वेदनासमुग्धाते १ कसायसमुग्घाते २ मारणंतियसमु०३ वेउब्वियस०४ तेयास०५ आहारस०६ केवलिसमुग्धाते ७। वेदनासमुग्घाएणंभंते! कतिसमइएपं०?, गो०! असंखेजसमइए अंतोमुहुत्तिते पं०, एवंजाव आहारसमुग्धाते, केवलिसमुग्घाएणं भंते ! कतिसमइए पं०?, गो०! अट्ठसमए पं० नेरइयाणं भंते! कति समुग्घाया पं०?, गो०! वत्तारि समुग्घायापं०, तं०-वेदनासमुग्धाए कसायस० मारणंतियस० वेउब्वियस०, असुरकुमाराणं भंते ! कति समुग्धाया पं०?, गो० ! पंच समुग्घाया पं०, तं०-वेदणास कसायस० मारणंतियस० वेउब्बियस० तेयासमुग्याए, एवं जाव थणियकुमाराणं, पुढविकाइयाणं भंते! कति समुग्धायापं०?, गो०! तिन्निसमुग्घायापं०, तं०-वेदनास० कसायस० मारणंतियस०, एवं जाव चउरिदियाणं, नबरं वाउकाइयाणं चत्तारि समुग्घाया पं०, तं०-वेदनास० कसायस० मारणंतियस० वेउव्वियस०, पंचिंदियतिरिकखजोणियाणं जाव वेमाणियाणं भंते! कति समुग्घाया पं०?, गो०! पंच समुग्घायापं०, तं०-वेयणास० कसायस० मारणंतियस० वेउब्वियस० तेयास०, नवरंमणूसाणं सत्तविहे समुग्धाए पं०, तं०-वेदनास० कसायस० मारणंतियस० वेउ० तेया० आहार० केवलिसमुग्धाते वृ. 'कइ ण मित्यादि, कति-किंतरिमाणा णमिति वाक्यालङ्कारे 'भदन्ते'ति भगवतो वर्द्धमानस्वामिन आमन्त्रणं, भदन्तत्वं च भगवतः परमकल्याणयोगित्वात्, यदिवा भवान्तेति द्रष्टव्यं, सकलसंसारपर्यन्तवर्तित्वात्, अथवा भयान्त ! इहपरलोकादिभेदभिन्नसप्तप्रकार Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664