Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 632
________________ पद-३६, उद्देशक:-, द्वार ३०५ तेणं भंते ! पोग्गला केवतिकालस्स निच्छुमति ?, गो०! जह० अंतो० उक्को० अंतोमुहत्तस्स, ते णं भंते ! पोग्गला निच्छूढा समाणा जाति तत्थ पाणाति भूयाति जीवातिं सत्तातिं अभिहणंति जाव उद्दति, तेणंभंते! जीवे कतिकिरिए?, गो०! सिय तिकि० सिय चउ० सिय पंचकिरिए, तेणं भंते ! जीवाओ कतिकिरिया?, गो०! एवं चेव, से णं भंते ! ते य जीवा अन्नेसिं जीवाणं परंपराघातेणंकतिकिरिया?, गो०! तिकिरियावि चउकिरियावि पंचकि०, एवं मणूसेवि वृ. 'जीवेणंभंते! वेउब्बिए' इत्यादिप्राग्वत्, नवरमायामतउत्कर्षतः सङ्घयेयानियोजनानि, एतच्च वायुकायिकवर्जनैरयिकाद्यपेक्षया द्रष्टव्यं, ते हि वैक्रियसमुद्घातमारभमाणास्तथाविधप्रयत्नविशेषभावतः सङ्ख्येयान्येव योजनान्युत्कर्षतोऽप्यात्मप्रदेशानां दण्डमारचयन्ति, नासङ्घयेयानियोजनानि, वायुकायिकास्तुजघन्यतोवाउत्कर्षतोवाअङ्गुलासङ्खयेयभागं, तावप्रमाणं चोत्कर्षतो दण्डमारचयन्तस्तावति प्रदेशे तैजसादिशरीरपुद्गलान् आत्मप्रदेशेभ्यो विक्षिपन्ति, ततस्तैः पुद्गलैर्भूतं क्षेत्रमायामत उत्कर्षतोऽपि सङ्घयेयान्येव योजनान्यवाप्यन्ते, एतच्चैवं क्षेत्रप्रमाणं केवलं वैक्रियसमुद्घातसमुद्भवं प्रयत्नमधिकृत्योक्तं, यदातु कोऽपिवैक्रियसमुद्घातमधिलढो मरणमुपश्लिष्टः कथमप्युत्कृष्टदेशेन त्रिसामायिकेन विग्रहेणोत्पत्तिदेशमभिगच्छति तदा साल्यातीतान्यपि योजनानियावदायामक्षेत्रमवसेयं, तावत्प्रमाणं क्षेत्रापूरणंमरणसमुद्घातप्रयत्नसमुद्भवमिति सदपि न विवक्षितं, 'एकदिसिंविदिसिंवा' इति, तत्जधन्यत उत्कर्षतोवायथोक्तप्रमाणमायामक्षेत्रमेकस्यां दिशि विदिशि वा द्रष्टव्यं, तत्र नैरयिकाणांपञ्चेन्द्रियतिरश्चां वायुकायिकानांच नियमादेकदिशि, नैरयिका हिपरवशाअल्पर्द्धयश्चतिर्यक्पञ्चेन्द्रियाश्चाल्पर्द्धय एव वायुकायिका विशिष्टचेतनाविकलास्ततस्तेषां वैक्रियसमुद्घातमारभमाणानां यदि परं तथास्वाभाव्यादेवात्मप्रदेशदण्डवनिनमस्तेभ्यश्चात्मप्रदेशेभ्यो विश्लिष्य पुद्गलानां च स्वभावतोऽनुश्रेणिगमनं न तु विश्रेणितः ततो दिश्येव नैरयिकतिर्यक्पञ्चेन्द्रियवायुकायिकानामायामतः क्षेत्रं द्रष्टव्यं, नतु विदिशि, ये तु भुवनपतिव्यन्तरज्योतिष्कवैमानिका मनुष्याश्चते स्वेच्छाचारिणो विशिष्टलब्धिसम्पन्नाश्च भवन्ति ततस्ते कदाचिश्यलविशेषतो विदिश्यप्यात्मप्रदेशानां दण्डं विक्षिपन्तस्तत्र तेभ्य आत्मप्रदेशेभ्यः पुद्गलान् विक्षिपन्तीति तेषामेकस्यां दिशि विदिशि वा प्रत्येतव्यं । वैक्रियसमुद्घातगतश्च कोऽपि कालमपि करोति विग्रहेण चोत्पत्तिदेशप्रभिसर्पति ततो विग्रहगतिमधिकृत्य कालनिरूपणार्थमाह-से णं भंते !' इत्यादि, तत् भदन्त ! क्षेत्रं विग्रहतिमधिकृत्योत्पत्तिदेशयावत् केवइकालस्सत्तितृतीयार्थे षष्ठी कियता कालेनापूर्ण कियताकालेन स्पृष्टं ?, भगवानाह-गौतम ! एकसामयिकेन वा द्विसामयिकेन वा त्रिसामयिकेन वा विग्रहेण आपूर्ण स्पृष्टमिति गम्यते, किमुक्तं भवति?-विग्रहगतिमधिकृत्य मरणदशादारभ्य उत्पत्तिदेश यावत् क्षेत्रस्यापूरणमुत्कर्षतः त्रिभिः समयैरवाप्यते न चतुर्थेनापि समयेन, वैक्रियसमुद्घातगतो हिवायुकायिकोऽपिप्रायस्त्रसनाड्यामेवोत्पद्यते, सनाड्यांचविग्रह उत्कर्षतोऽपि त्रिसामयिक इति, उपसंहारमाह[11/201 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664