________________
पद-३६, उद्देशक:-, द्वार
३०५
तेणं भंते ! पोग्गला केवतिकालस्स निच्छुमति ?, गो०! जह० अंतो० उक्को० अंतोमुहत्तस्स, ते णं भंते ! पोग्गला निच्छूढा समाणा जाति तत्थ पाणाति भूयाति जीवातिं सत्तातिं
अभिहणंति जाव उद्दति, तेणंभंते! जीवे कतिकिरिए?, गो०! सिय तिकि० सिय चउ० सिय पंचकिरिए,
तेणं भंते ! जीवाओ कतिकिरिया?, गो०! एवं चेव, से णं भंते ! ते य जीवा अन्नेसिं जीवाणं परंपराघातेणंकतिकिरिया?, गो०! तिकिरियावि चउकिरियावि पंचकि०, एवं मणूसेवि
वृ. 'जीवेणंभंते! वेउब्बिए' इत्यादिप्राग्वत्, नवरमायामतउत्कर्षतः सङ्घयेयानियोजनानि, एतच्च वायुकायिकवर्जनैरयिकाद्यपेक्षया द्रष्टव्यं, ते हि वैक्रियसमुद्घातमारभमाणास्तथाविधप्रयत्नविशेषभावतः सङ्ख्येयान्येव योजनान्युत्कर्षतोऽप्यात्मप्रदेशानां दण्डमारचयन्ति, नासङ्घयेयानियोजनानि, वायुकायिकास्तुजघन्यतोवाउत्कर्षतोवाअङ्गुलासङ्खयेयभागं, तावप्रमाणं चोत्कर्षतो दण्डमारचयन्तस्तावति प्रदेशे तैजसादिशरीरपुद्गलान् आत्मप्रदेशेभ्यो विक्षिपन्ति, ततस्तैः पुद्गलैर्भूतं क्षेत्रमायामत उत्कर्षतोऽपि सङ्घयेयान्येव योजनान्यवाप्यन्ते, एतच्चैवं क्षेत्रप्रमाणं केवलं वैक्रियसमुद्घातसमुद्भवं प्रयत्नमधिकृत्योक्तं, यदातु कोऽपिवैक्रियसमुद्घातमधिलढो मरणमुपश्लिष्टः कथमप्युत्कृष्टदेशेन त्रिसामायिकेन विग्रहेणोत्पत्तिदेशमभिगच्छति तदा साल्यातीतान्यपि योजनानियावदायामक्षेत्रमवसेयं, तावत्प्रमाणं क्षेत्रापूरणंमरणसमुद्घातप्रयत्नसमुद्भवमिति सदपि न विवक्षितं,
'एकदिसिंविदिसिंवा' इति, तत्जधन्यत उत्कर्षतोवायथोक्तप्रमाणमायामक्षेत्रमेकस्यां दिशि विदिशि वा द्रष्टव्यं, तत्र नैरयिकाणांपञ्चेन्द्रियतिरश्चां वायुकायिकानांच नियमादेकदिशि, नैरयिका हिपरवशाअल्पर्द्धयश्चतिर्यक्पञ्चेन्द्रियाश्चाल्पर्द्धय एव वायुकायिका विशिष्टचेतनाविकलास्ततस्तेषां वैक्रियसमुद्घातमारभमाणानां यदि परं तथास्वाभाव्यादेवात्मप्रदेशदण्डवनिनमस्तेभ्यश्चात्मप्रदेशेभ्यो विश्लिष्य पुद्गलानां च स्वभावतोऽनुश्रेणिगमनं न तु विश्रेणितः ततो दिश्येव नैरयिकतिर्यक्पञ्चेन्द्रियवायुकायिकानामायामतः क्षेत्रं द्रष्टव्यं, नतु विदिशि, ये तु भुवनपतिव्यन्तरज्योतिष्कवैमानिका मनुष्याश्चते स्वेच्छाचारिणो विशिष्टलब्धिसम्पन्नाश्च भवन्ति ततस्ते कदाचिश्यलविशेषतो विदिश्यप्यात्मप्रदेशानां दण्डं विक्षिपन्तस्तत्र तेभ्य आत्मप्रदेशेभ्यः पुद्गलान् विक्षिपन्तीति तेषामेकस्यां दिशि विदिशि वा प्रत्येतव्यं ।
वैक्रियसमुद्घातगतश्च कोऽपि कालमपि करोति विग्रहेण चोत्पत्तिदेशप्रभिसर्पति ततो विग्रहगतिमधिकृत्य कालनिरूपणार्थमाह-से णं भंते !' इत्यादि, तत् भदन्त ! क्षेत्रं विग्रहतिमधिकृत्योत्पत्तिदेशयावत् केवइकालस्सत्तितृतीयार्थे षष्ठी कियता कालेनापूर्ण कियताकालेन स्पृष्टं ?, भगवानाह-गौतम ! एकसामयिकेन वा द्विसामयिकेन वा त्रिसामयिकेन वा विग्रहेण आपूर्ण स्पृष्टमिति गम्यते, किमुक्तं भवति?-विग्रहगतिमधिकृत्य मरणदशादारभ्य उत्पत्तिदेश यावत् क्षेत्रस्यापूरणमुत्कर्षतः त्रिभिः समयैरवाप्यते न चतुर्थेनापि समयेन, वैक्रियसमुद्घातगतो हिवायुकायिकोऽपिप्रायस्त्रसनाड्यामेवोत्पद्यते, सनाड्यांचविग्रह उत्कर्षतोऽपि त्रिसामयिक इति, उपसंहारमाह[11/201
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org