Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 627
________________ प्रज्ञापनाउपाङ्गसूत्रम्-२- ३६/-/ /६१२ असुरकुमारस्स जहा जीवपदे, नवरं विग्गहो तिसमइओ जहा नेरइयस्स, सेसं तं चेव जहा असुरकुमारे, एवं जाव वेमाणिते, नवरं एगिंदिये जहा जीवे निरवसेसं । वृ. 'जीवे णं भंते!' इत्यादि, जीवो णमिति वाक्यालङ्कारे-वेदनासमुद्घाते वर्त्तमानः तस्मिन् सभवहतो भवति समवहत्य च यान् पुद्गलान् वेदनायोग्यान् स्वशरीरान्तर्गतान् 'निच्छुभइ' इति विक्षिपति आत्मविश्लिष्टान् करोतीत्यर्थः, 'तेहि ण' मिति तैः पुद्गलैः कियत् क्षेत्रमापूर्ण, आपूर्णत्वमान्तराले कियदाकाशप्रदेशासंस्पर्शनेऽपि व्यवहारत उच्यते तत आह-कियत् क्षेत्रं स्पृष्टं - प्रतिप्रदेशापूरणेन व्याप्तं, एवं गौतमेन प्रश्ने कृते सति भगवानाह - 'सरीरे' त्यादि नियमात् - नियमेन 'छद्दिसिं' ति षड् दिशो यत्रापूरणे स्पर्शने वा षड्दिक् तद्यथा भवति एवं विष्कम्भतो - विस्तरेण बाहल्यतः - पिण्डतः शरीरप्रमाणमात्रं, यावत्प्रमाणः स्वशरीरस्य विष्कम्भो यावत्प्रमाणं च बाहल्यं एतावन्मात्रमापूर्णं स्पृष्टं चेति वाक्यशेषः, तदेव निगमनद्वारेणाह 'एवइए खेत्ते अफुण्णे एवइए खेत्ते फुडे' इति, इह वेदनासमुद्घातो वेदनातिशयात्, वेदनातिशयश्च लोकनिष्कुटेषु जीवानां न भवति, निरुपद्रवस्थानवर्त्तित्वात् तेषां, किन्तु त्रसनाड्या अन्तः, तत्र परोदीरणसम्भवात्, तत्र च षदिक्सम्भव इति नियमाच्छद्दिशिमित्युक्तं, अन्यथा 'सिय तिदिसिं सिय चउदिसिं सिय पंचदिसि 'मित्याद्युच्येत, अथ स्वशरीरप्रमाणविष्कम्भबाहल्यमेव क्षेत्रमापूर्ण स्पृष्टं च विग्रहगतौ जीवस्य गतिमधिकृत्य कियद्दूरं यावद्भवति कियन्तं च कालमित्येतन्निरूपणार्थमाह ३०० 'से णं भंते!' इत्यादि, नपुंसकत्वे पुंस्त्वं प्राकृतत्वात्, तत् - अनन्तरोक्तप्रमाणं णमिति प्राग्वत् भदन्त ! क्षेत्रं कालरस इति - प्राकृतत्वात् तृतीयार्थे षष्ठी कियता कालेन पूर्णं कियता कालेन स्पृष्टं, किमुक्तं भवति ? - कियन्तं कालं यावत् स्वशरीरप्रमाणविष्कम्भाबाहल्यं क्षेत्रं निरन्तरं विग्रहगतौ जीवस्य गतिमधिकृत्यापूर्णं स्पृष्टं च लभ्यते इति ?, भगवानाह - गौतम ! एकसमयेन वा द्विसमयेन वा त्रिसमयेन वा विग्रहेण, किमुक्तं भवति ? – एकसमयेन वा द्विसमयेन वा त्रिसमयेन वा विग्रहेण यावन्मात्रं क्षेत्रं व्याप्यते इयद्दूरं यावत् स्वशरीरप्रमाणविष्कम्भबाहल्यं क्षेत्रं वेदनाजननयोग्यैः पुद्गलैरापूर्ण- भृतं जीवस्य गतिमधिकृत्यावाप्यते, तत एतद्गतमुत्कर्षतस्त्रिसामयिकेन विग्रहेण यावन्मात्रं क्षेत्रमभिव्याप्यते एतावदात्मविश्लिष्टैर्वेदनाजननयोग्यैः पुद्गलैरापूर्ण लभ्यते, इह चतुःसामयिकः पञ्चसामयिकश्च विग्रहो यद्यपि सम्भवति तथापि वेदनासमुद्घातः प्रायः परोदीरितवेदनावशत उपजायते, परोदीरिता च वेदना त्रसनाड्यां व्यवस्थितस्य न बहिः, नसाडीव्यवस्थितस्य च विग्रह उत्कर्षतोऽपि त्रिसामयिक इति उत्कर्षतोऽपि त्रिसामयिकेन विग्रहेणेत्युक्तं, न चतुःसामयिकेन पञ्चसामयिकेन चेति, उपसंहारवाक्यमाह'एवइयकालस्स अफुण्णे एवइयकालस्स फुडे' एतावता उत्कर्षतोऽपि त्रिसमयप्रमाणेनेत्यर्थः कालेनापूर्णमेतावता कालेन स्पृष्टं, किमुक्तं भवति ? - विग्रहगतावुत्कर्षतः त्रीन् समयान् यावत् त्रिभिश्च समयैर्यावन्मात्रं व्याप्यते इयन्तीं सीमाभिव्याप्य स्वशरीरप्रमाणविष्कम्भहबाहल्यं क्षेत्रं वेदनाजननयोग्यैः पुद्गलैरापूर्ण भृतं च जीवस्य गतिमधिकृत्य व्याप्यते, अथवा 'केवइय कालरस 'त्ति षष्ठयेव व्याख्येया, ततः स्वशरीरप्रमाणविष्कम्भबाहल्यं क्षेत्रं वेदनाजननयोग्यैः पुद्गलैरापूर्णं भृतं च जीवस्य विग्रहगतिमधिकृत्य कियतः कालस्य सम्बन्धि, कियन्तं कालं यावदवाप्यते इत्यर्थः, भगवानाह एकसमयेन द्विसमयेन त्रिसमयेन वा विग्रहेणापूर्ण स्पृष्टं च लभ्यते For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664