________________
प्रज्ञापनाउपाङ्गसूत्रम्-२- ३६/-/ /६१२
असुरकुमारस्स जहा जीवपदे, नवरं विग्गहो तिसमइओ जहा नेरइयस्स, सेसं तं चेव जहा असुरकुमारे, एवं जाव वेमाणिते, नवरं एगिंदिये जहा जीवे निरवसेसं ।
वृ. 'जीवे णं भंते!' इत्यादि, जीवो णमिति वाक्यालङ्कारे-वेदनासमुद्घाते वर्त्तमानः तस्मिन् सभवहतो भवति समवहत्य च यान् पुद्गलान् वेदनायोग्यान् स्वशरीरान्तर्गतान् 'निच्छुभइ' इति विक्षिपति आत्मविश्लिष्टान् करोतीत्यर्थः, 'तेहि ण' मिति तैः पुद्गलैः कियत् क्षेत्रमापूर्ण, आपूर्णत्वमान्तराले कियदाकाशप्रदेशासंस्पर्शनेऽपि व्यवहारत उच्यते तत आह-कियत् क्षेत्रं स्पृष्टं - प्रतिप्रदेशापूरणेन व्याप्तं, एवं गौतमेन प्रश्ने कृते सति भगवानाह - 'सरीरे' त्यादि नियमात् - नियमेन 'छद्दिसिं' ति षड् दिशो यत्रापूरणे स्पर्शने वा षड्दिक् तद्यथा भवति एवं विष्कम्भतो - विस्तरेण बाहल्यतः - पिण्डतः शरीरप्रमाणमात्रं, यावत्प्रमाणः स्वशरीरस्य विष्कम्भो यावत्प्रमाणं च बाहल्यं एतावन्मात्रमापूर्णं स्पृष्टं चेति वाक्यशेषः, तदेव निगमनद्वारेणाह
'एवइए खेत्ते अफुण्णे एवइए खेत्ते फुडे' इति, इह वेदनासमुद्घातो वेदनातिशयात्, वेदनातिशयश्च लोकनिष्कुटेषु जीवानां न भवति, निरुपद्रवस्थानवर्त्तित्वात् तेषां, किन्तु त्रसनाड्या अन्तः, तत्र परोदीरणसम्भवात्, तत्र च षदिक्सम्भव इति नियमाच्छद्दिशिमित्युक्तं, अन्यथा 'सिय तिदिसिं सिय चउदिसिं सिय पंचदिसि 'मित्याद्युच्येत, अथ स्वशरीरप्रमाणविष्कम्भबाहल्यमेव क्षेत्रमापूर्ण स्पृष्टं च विग्रहगतौ जीवस्य गतिमधिकृत्य कियद्दूरं यावद्भवति कियन्तं च कालमित्येतन्निरूपणार्थमाह
३००
'से णं भंते!' इत्यादि, नपुंसकत्वे पुंस्त्वं प्राकृतत्वात्, तत् - अनन्तरोक्तप्रमाणं णमिति प्राग्वत् भदन्त ! क्षेत्रं कालरस इति - प्राकृतत्वात् तृतीयार्थे षष्ठी कियता कालेन पूर्णं कियता कालेन स्पृष्टं, किमुक्तं भवति ? - कियन्तं कालं यावत् स्वशरीरप्रमाणविष्कम्भाबाहल्यं क्षेत्रं निरन्तरं विग्रहगतौ जीवस्य गतिमधिकृत्यापूर्णं स्पृष्टं च लभ्यते इति ?, भगवानाह - गौतम ! एकसमयेन वा द्विसमयेन वा त्रिसमयेन वा विग्रहेण, किमुक्तं भवति ? – एकसमयेन वा द्विसमयेन वा त्रिसमयेन वा विग्रहेण यावन्मात्रं क्षेत्रं व्याप्यते इयद्दूरं यावत् स्वशरीरप्रमाणविष्कम्भबाहल्यं क्षेत्रं वेदनाजननयोग्यैः पुद्गलैरापूर्ण- भृतं जीवस्य गतिमधिकृत्यावाप्यते, तत एतद्गतमुत्कर्षतस्त्रिसामयिकेन विग्रहेण यावन्मात्रं क्षेत्रमभिव्याप्यते एतावदात्मविश्लिष्टैर्वेदनाजननयोग्यैः पुद्गलैरापूर्ण लभ्यते, इह चतुःसामयिकः पञ्चसामयिकश्च विग्रहो यद्यपि सम्भवति तथापि वेदनासमुद्घातः प्रायः परोदीरितवेदनावशत उपजायते, परोदीरिता च वेदना त्रसनाड्यां व्यवस्थितस्य न बहिः, नसाडीव्यवस्थितस्य च विग्रह उत्कर्षतोऽपि त्रिसामयिक इति उत्कर्षतोऽपि त्रिसामयिकेन विग्रहेणेत्युक्तं, न चतुःसामयिकेन पञ्चसामयिकेन चेति, उपसंहारवाक्यमाह'एवइयकालस्स अफुण्णे एवइयकालस्स फुडे' एतावता उत्कर्षतोऽपि त्रिसमयप्रमाणेनेत्यर्थः कालेनापूर्णमेतावता कालेन स्पृष्टं, किमुक्तं भवति ? - विग्रहगतावुत्कर्षतः त्रीन् समयान् यावत् त्रिभिश्च समयैर्यावन्मात्रं व्याप्यते इयन्तीं सीमाभिव्याप्य स्वशरीरप्रमाणविष्कम्भहबाहल्यं क्षेत्रं वेदनाजननयोग्यैः पुद्गलैरापूर्ण भृतं च जीवस्य गतिमधिकृत्य व्याप्यते, अथवा 'केवइय कालरस 'त्ति षष्ठयेव व्याख्येया, ततः स्वशरीरप्रमाणविष्कम्भबाहल्यं क्षेत्रं वेदनाजननयोग्यैः पुद्गलैरापूर्णं भृतं च जीवस्य विग्रहगतिमधिकृत्य कियतः कालस्य सम्बन्धि, कियन्तं कालं यावदवाप्यते इत्यर्थः, भगवानाह एकसमयेन द्विसमयेन त्रिसमयेन वा विग्रहेणापूर्ण स्पृष्टं च लभ्यते
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International