SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ पदं-३६, उद्देशकः-, द्वारं ३०१ इति वाक्यशेषः, तत एतावता उत्कर्षतः त्रिसमयप्रमाणस्य कालस्य सम्बन्धि यशोक्तप्रमाणं क्षेत्र वेदनाजननयोग्यैः पुद्गलैरापूर्णतावता कालस्य सम्बन्धि स्पृष्टमिति । सम्प्रति यावन्तं कालं वेदनाजननयोग्यान पुद्गलान् विक्षिपति तावत्कालप्रमामं प्रतिपादनार्थमाह–'ते णं भंते !' इत्यादि, तान् वेदनाजननयोग्यान् पुद्गलान् णमिति वाक्यालङ्कारे भदन्त! परमकल्याणयोगिन्पररमसुखयोगिन् वा पुद्गलान कियतः कालस्य सम्बन्धिनोविक्षिपति कियत्कालं वेदनाजननयोग्या विक्षिपतीति भावः, भगवानाह-जघन्येनाप्यन्तर्मुहूर्तस्य सम्बन्धिन उत्कर्षतोऽप्यन्तपर्मुहूर्तस्य, केवलं मनाक्बृहत्तरस्य सम्बन्धिनः विक्षिपति, किमुक्तं भवति?-ये पुद्गला जघन्यत उत्कर्षतश्चान्तर्मुहूर्त यावत् वेदनाजननसमर्थाः तान् तथा २ वेदनातः सन् स्वशरीरगतान् स्वशरीराद्धहिरात्मप्रदेशेभ्योऽपिविष्लिष्टान् विक्षिपति, यथाऽत्यन्तदाहज्वरपीडितः सन् सूक्ष्मपुद्गलान्, प्रत्यक्षसिद्धं चैतदिति, 'तेणंभंते!' इत्यादि, ते णमिति पूर्ववत् भदन्त ! पुद्गला विक्षिप्ताःसन्तः शरीरसम्बद्धा असम्बद्धा वा 'जाई तत्थे' त्यादि प्राकृतत्वात् पुंस्त्वेऽपि नपुंसकता यान् तत्र वेदनासमुद्घातगतपुरुषसंस्पृष्टे क्षेत्रे प्राणान्-द्वित्रिचतुरिन्द्रियान् शङ्खकीटिकामक्षिकादीन् भूतान्-वनस्पतीन् जीवान्–पञ्चेन्द्रियान् गृहगोधिकासादीन् सत्त्वान्-शेषपृथिवीकायिकादीन् अभिनन्तिअभिमुखमागच्छन्तो घ्नन्ति वर्तयन्ति-आवर्त्तपतितान् कुर्वन्ति लेशयन्ति-मनाक् स्पृशन्ति सङ्घातयन्ति-परस्परं तान् सङ्घातमापन्नान् कुर्वन्ति-अतीव सातविशेषमाषादितान् कुर्वन्ति परितापयन्ति पीडयन्ति क्लमयन्ति-मूपिन्नान् कुर्वन्ति अपद्रावयन्ति-जीवितात्व्यपोरपयन्ति, तेभ्यः पुद्गलेभ्यः तेषां प्राणादीनां विषये भदन्त ! सः-अधिकृतो वेदनासमुद्घातगतो जीवः कतिक्रियः प्रज्ञप्तः?, भगवानाह गौतम ! 'सिय तिकिरिए' इति, स्याशब्दः कथञ्चित्पर्यायः, कथञ्चित् कदाचित् कांश्चिञ्च जीवानधिकृत्येत्यर्थः त्रिक्रियः, किमुक्तं भवति? यदान केषाञ्चित् सर्वथा परितापनंजीविताद् व्यपरोपणं वा करोति तदा सर्वथा त्रिक्रिया एव, यदाषि केषाञ्चित्वरितापं मरणं वाऽऽपादयति तदापि येषांनावाधामुत्पादयतितदपेक्षयात्रिक्रियाः, 'सियचउकिरिए इति केषाञ्चित्परितापकरणे तदपेक्षया चतुष्क्रिय इति, केषाश्चिदपद्रावणे तदपेक्षया पञ्चक्रिया इति, सम्प्रति तमेवाधिकृतं वेदनासमुद्धातगतंजीवमधिकृत्य तेषां वेदनासमुद्घातगतपुरुषपुद्गलस्पृष्टानांजीवानां क्रिया निरूपयति "तेणंभंते! इत्यादि, ते-वेदनासमुद्घातगतपुद्गलस्पृष्टाणमिति पूर्ववत् भदन्त ! जीवास्ततो-वेदनासमुद्घातपरिगतान्जीवान् अत्र स्थानियपः कर्माधारयोः' इतिस्थानियवमधिकृत्य पञ्चमीयं, अयमर्थः-तंवेदनासमुद्घातपरिगतंजीवमधिकृत्य कतिक्रियाः प्रज्ञप्ताः?, भगवानाह -गौतम ! स्यात्त्रिक्रियाः यदान काञ्चित्तस्याबाधामाषादयितुं प्रभविष्णवः स्याच्चतुष्क्रिया यदा तंपरितापयन्ति, श्यन्तेशरीरेण स्पृश्यमानाः परितापयन्तो वृश्चिकादयः, स्यात् पञ्चक्रिया येतं जीवितादपि व्यपरोपयन्ति, सिद्धाश्च प्रत्यक्षतः शरीरेण स्पृश्यमाना जीविताव्यावयन्तः सदिय इति, सम्प्रति तेन वेदनासमुद्घातगतेनजीवेन व्यापाद्यमानैर्जीवर्येऽन्येजीवाव्यापाद्यन्तेये चान्यैर्जी वैव्यापाद्यमान्वेदनासमुद्घातगतेनजीवेनव्यापाद्यन्ते तानधिकृत्य तस्य वेदनासमुद्घातपरिगतस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy