________________
३०२
तेषां च समुद्घातगतजीवसम्बन्धिपुद्गलस्पृधनां जीवानां क्रियानिरूपणार्थमाह
'से णं भंते! जीवे ते य जीवा' इत्यादि, सः - अधिकृतो वेदनासमुद्घातगतो जीवः ते च वेदनासमुद्घातपरिगतजीवसम्बन्धिपुद्गलस्पृष्टाः अन्येषां जीवानामुपदर्शितेन प्रकारेण यः परम्पराधातस्तेन परम्पराघातेन कतिक्रियाः प्रज्ञप्ताः ?, भगवानाह - गौतम ! स्यात् त्रिक्रिया इत्यादि पूर्ववत् भावयितव्यः, एनमेव वेदनासमुद्घातमुक्तेन प्रकारेण नैरयिकादिषु चतुर्विंशतिस्थानेषु चिन्तयन्नाह -
प्रज्ञापनाउपाङ्गसूत्रम् - २ - ३६ / / / ६१२
'नेरइए णं भंते !' इत्यादि, एवं उक्तेन प्रकारेण यथैव प्राक् सामान्यतो जीवो वेदनासमुद्घातमधिकृत्य चिन्तितः तथा नैरयिकोऽपि चिन्तयितव्यः, नवरं जीवाभिलापस्थाने नैरयिकाभिलापः कर्त्तव्यो यथा 'नेरइए णं भंते! वेदनासमुग्धाएणं समोहए समोहणित्ता जे पोग्गले निच्छुभइ' इत्या, 'एवं निरवसेसं जाव वेमाणिए' इति एवं नैरयिकोक्तेन प्रकारेण शेषेष्वपि स्थानेषु स्वस्वाभिलापपूर्वकं निरवशेषं तावद्वक्तव्यं यावद्वैमानिकाः - वैमानिकाभिलापः ।
7
तदेवमुक्तो वेदनासमुद्घातः, सम्प्रति कषायसमुद्घातं समानवक्तव्यत्वादतिदेशतोऽभिधित्सुराह--' एवं कसायसमुग्धाओऽवि भाणियच्चो' इति, एवं वेदनासमुद्घातगतेन प्रकारेण सामान्यतो जीवपदे चतुर्विंशतिदण्डकक्रमेण च कषायसमुद्घातोऽपि वक्तव्यः स चैवम्- 'जीवे णं भंते! कसायसमुग्गााएणं समोहए समोहणित्ता जे पोग्गले निच्छुभइ' यान् पुद्गलान् शरीरान्तर्गतान् कषायसमुद्घातवशसमुत्थप्रयत्नविशेषतः स्वशरीराद्बहिरात्मप्रदेशेभ्योऽपि विश्लिष्टान् करोति,
'तेहिणं भंते! पोग्गलेहिं केवइए खेत्ते अष्फुण्णे केवइए खित्ते फुडे ?, गो० ! सरीरप्पमाणमेते विक्खंभहाहल्लेणं नियमा छद्दिसिं एवइए खेत्ते अफुण्णे एवइए खेते फुडे' कषायसमुद्घातो हि प्रथमं उद्भवति त्रसजीवानां तेषामेव तीव्रतराध्यवसायसम्भवाद्, एकेन्द्रियाणां तु पूर्वभवानुवृत्तितः, त्रसजीवाश्च त्रसनाड्यां न ततो बहिः, त्रसनाड्यांच व्यवस्थितः स्वशरीरप्रमाणं विष्कम्भबाहल्यं क्षेत्रमात्मविश्लेष्टैः पुद्ग्लैः भृतं षड्विकत्वमवश्यमुपपद्यते इति 'नियमा छद्दिसि' मित्युक्तम्, 'एवइए खेत्ते अफुण्णे एवइए खेत्ते फुडे' इत्यादि सर्वं समानं । सम्प्रति मरणसमुद्घातमभिधित्सुराह
'जीवे णं भंते! मारणंतियसमुग्धाएण मित्यादि, इति पूर्ववत् भदन्त ! कश्चिन्मारणान्तिकसमुद्घातेन समवहतः समवहत्य च यान् पुद्गलान् तैजसादिशरीरान्तर्गतान् 'निच्छुभइ' इति विक्षिपति, आत्मप्रदेशेभ्यो विश्लिष्टान् करोति तैर्भदन्त ! पुद्गलैः कियत् क्षेत्रमापूर्ण कियत् क्षेत्रं भृतम् ?, भगवानाह - गौतम ! विष्कम्भबाहल्यतः शरीरप्रमाणमायामतो जघन्यतः स्वशरीरातिरेकाङ्गुलासङ्घयेयभाग मात्रं यदा तावन्मात्रे क्षेत्रे उत्पद्यते उत्कर्षतोऽसङ्घयेयानि योजनानि एतच्च यदा तावति क्षेत्रे अन्यथा वा द्रष्टव्यम्, एकदिशि- एकस्यां दिशि न तु विदिशि स्वभावतो जीवप्रदेशानां दिशि गमनसम्भवात्, एतावत् क्षेत्रमापूर्णमेतावत् क्षेत्रं स्पृष्टं, जघन्यतः उत्कर्षतो वा आत्मप्रदेशैरपि एतावत् क्षेत्रस्य पूरणसम्भवात् सम्प्रति विग्रहगतिमधिकृत्यापूरणविषयं स्पर्शनविषयं च कालप्रमाणमाह
'से णं भंते!' इत्यादि, तत् उत्कर्षेणायामतोऽनन्तरोक्तप्रमाणं भद्न्त ! क्षेत्रं विग्रहगतिमधिकृत्य 'केवइयकालस्स' त्ति तृतीयार्थे षष्ठया भावात् कियता कालेनापूर्णा कियता कालेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org