SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ पदं-३६, उद्देशकः, द्वारं - ३०३ स्पृष्टं किमुक्तंभवति?--विग्रहगतिमधिकृत्य कियता कालेनोत्कर्षतोऽसङ्ख्येययोजनप्रमाणं क्षेत्रमायामतः पुद्गलैरापूर्ण स्पृष्टं भवतीति, भगवानाह-गौतम! एकसमयेन वा द्विसमयेन वा त्रिसमयेन वाचतुःसमयेन वाविग्रहेणापूर्ण स्पृष्टं, इह पञ्चसामयिकोऽपि विग्रहः सम्भवति परंसकादाचित्क एव इति न विवक्षितः, इयमत्र भावना-उत्कृष्टपदे आयामपतोऽसङ्ख्येयोजनप्रमाणं क्षेत्रं विग्रहगतिमधिकृत्योत्कर्षतःचतुर्भिः समयैरापूर्ण स्पृष्टं वा भवतीति, अथ कथंचतुःसामयिकः पञ्चसामयिको वा विग्रहः सम्भवति?, उच्यते, त्रसनाड्या बहिरधस्तनभागादुपरितने भागे यद्वोपरितनभागादधस्तने भागे समुत्पद्यमानो जीवो विदिशो वा दिशि दिशो वा विदिशि यदोत्पद्यते तदा एकेन समयेन त्रसनाडी प्रविशति द्वितीयेनोपरि अधो वा गमनं तृतीयेन बहिर्नन्थ्सरणं चतुर्थेन दिशि उत्पत्तिदेशप्राप्तिः, अयं चतुःसामयिको विग्रहः, एवं पञ्चसामयिकस्तु त्रसनाड्या बहिरेव विदिशो विदिशि उत्पत्तौ लभ्यते, तद्यथा-प्रथमसमये त्रनाड्या बहिरेव विदिशो दिशि गमनं द्वितीये त्रसनाड्या मध्ये प्रवेशः तृतीये उपर्यधो वा गमनं चतुर्थे बहिनिस्सरणं पञ्चमे विदिश्युत्पत्तिदेशगमनमिति, उपसंहारमाह-‘एवंइयकालस्स अप्फुण्णे एवइकालस्स फुडे' इति एतावता कालेनापूर्णमेतावताकालेन स्पृष्टमिति, ‘सेसं तं चेव जाव पंचकिरिए' इति अत ऊर्द्ध शेषं तदेव सूत्र--'ते णं भंते ! पुग्गला निच्छूढा समाणा जाई तत्थ पाणाई इत्यादि यावत् पंचकिरिया' इति पदं, तदेवं सामान्यतो जीवपदे मारणान्तिकसमुद्घातश्चिन्तितः, सम्प्रति एनमेव चतुर्विंशतिदण्डकक्रमेण चिन्तयन् प्रथमो नैरयिकातिदेशमाह "एव'मित्यादि, एवं-सामान्यतो जीवपद इव नैरयिकेऽपि वक्तव्यं, नवरमयं विशेषःसामान्यतो जीवपदे क्षेत्रमायामतो जघन्येनाङ्गुलासङ्ख्येयभागमात्रमुक्तंइह तुजघन्यतः सातिरेकं योजनसहन, किमत्र कालणमिति चेत् ?, उच्यते, इह नैरयिकाः नरकादुद्वॉत्ताः स्वभावत एव पञ्चेन्द्रियतिर्यक्षु मध्ये उत्पद्यन्ते मनुष्येषु वा नान्यत्र, सर्वजधन्यचिन्ता चात्र क्रियते, ततो यदा पातालकलशसमीपवर्ती नैरयिकः पातालकलशमध्ये द्वितीये वा त्रिभागे मत्स्यतयोत्पद्यते तदा पातालकलशठिक्करिकायायोजनसहनमानत्वत्यथोक्तंजधन्यमानंनातोऽपिन्यूनतरंकथंचनेति, उत्कर्षतोऽसङ्खयेयानि योजनानि, तानि सप्तमपृथिवीगतनारकापेक्षया भावनीयानि, अत्रैवोपसंहारमाह___ “एगदिसिंएवइए' इत्यादि, एकस्यादिशिजघन्यत उत्कर्षतचएतावत्-अनन्तरोक्तप्रमाणं क्षेत्रमापूर्णमेतावत् क्षेत्रं स्पृष्टं, विग्रहगतिमधिकृत्य विशेषमाह-विग्गहे णे'त्यादि, विग्रहेणापूर्ण स्पॉष्टं वावक्तव्येकसामयिकेन द्विसामयिकेन त्रिसामयिकेनवा, नन्वेतत्सामान्यतोजीवपदेऽप्युक्तं तत्कोऽत्रविशेषस्ततआह-'नवरंचउसमइएण वाण भन्नइ' इति नवरमत्र सामान्यजीवपद इव चतुःसामयिकेनेति न भण्यते, नैरयिकाणामुत्कर्षतोऽवि विग्रहस्य त्रिसामयिकत्वात्, तेच त्रय; समया एवं भवन्ति-इह कश्चिन्नैरयिको वायव्यां दिशि वर्तमानो भरतक्षेत्रे पूर्वस्यां दिशि तीर्यक्पञ्चेन्द्रियतया मनुष्यतया वोत्पित्सुः प्रथमसमये ऊर्द्धमागच्छतिद्वितीयसमयेवायव्या दिशः पश्चिमदिशं तृतीये ततः पूर्वदिशमितिस, एवमसुरकुमारादिष्वपि यथायोगंत्रिसमयविग्रहभावना कार्या, 'सेसं तं चेव जाव पंचकिरियावि' इति शेषं सूत्रं तदेव वेदनासमुद्घातगतं, तेणं भंते ! पोग्गला केवइया कालस्स निच्छुभंति?, गो० ! जहन्नेणवि अंतो० उक्को० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy