Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 566
________________ पद-२९, उद्देशकः-, द्वार २३९ कारोपयोगः, अचक्षुषा-चक्षुर्वर्जशेषेन्द्रियमनोभिर्दर्शनं-स्वस्वविषये सामान्यग्रहणमचक्षुर्दर्शनं, ततोऽनाकारोपयोगशब्देन विशेषणसमासः, एवमुत्तरत्रापि, अवधिरेव दर्शनं-सामान्यग्रहणमवधिदर्शनं, केवलमेव सकलजगद्भाविसमस्तवस्तुसामान्यपरिच्छेदरूपं दर्शनं केवलदर्शनं, अथ मनःपर्यायदर्शनमपि कस्मान भवति येन पञ्चमोऽनाकारोपयोगो न भवतिति चेत् ?, उच्यते, मनःपर्यायविषयं हि ज्ञानं मनसः पर्यायनेव विविक्तान् गृह्णदुपजायते, पर्यायाश्च विशेषाः, विशेषालम्बनंच ज्ञानं ज्ञानमेव न दर्शनमितिमनःपर्यायदर्शनामावस्तदभावाच्च पञ्चमानाकारोपयोगासम्भव इति । ‘एवं जीवाण'मित्यादि, एवं निर्विशेषणोपयोगवत् जीवानामप्युपयोगो द्विविधः प्रज्ञप्तो भणितव्यः, तत्रापिसाकारोपयोगोऽष्टविधोऽनाकारोपयोगश्चतुर्विधः, एतदुक्तं भवति-यथा प्राक्जीवपदरहितमुपयोगसूत्रसामान्यत उक्तंतथाजीवपदसहितमपि भणितव्यं, तद्यथा-'जीवाणंभंते! कतिविधेउवओगेपं०?,गो०! दुविधे उवओगेपं०,०-सागारोवओगे यअनागारोवओगेय, जीवाणंभंते! सागारोवओगे कतिविधे पं०?, गो०! अट्ठविधे पं० त०' इत्यादि, तदेवं सामान्यतो जीवानामुपयोगश्चिन्तितः, सम्प्रति चतुर्विशतिदण्डकक्रमेण नैरयिकादीनां चिन्तयन्नाह-'नेरइयाणं भंते!' इत्यादि, नैरयिका हि द्विविधा भवन्ति-सम्यग्दृष्टयो मिथ्यादृष्टयश्च, अवधिरपि तेषां भवप्रत्ययोऽवश्यमुपजायते, 'भवप्रत्ययो नारकदेवाना' मिति वचनात्, तत्र सम्यग्दृष्टीनां मतिज्ञानश्रुतज्ञानावधिज्ञानानि मिथ्याष्टीनां मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानानीति सामान्यतौ नैरयिकाणां षड्विधः साकारोपयोगः,अनाकारोपयोगस्त्रिविधस्तद्यथा-चक्षुर्दर्शनं अचक्षुर्दर्शनमवधिदर्शन च, एष च त्रिविधोऽप्यनाकारोपयोगः सम्यग्दृशां मिथ्याशां चाविशेषेण प्रतिपत्तव्यः, उभयेषामप्यवधिदर्शनस्य सूत्रे प्रतिपादितत्वात्, एवमसुरकुमारादीनांस्तनितकुमारपर्यवसानानां भवनपतीनाम प्यवसेयं, पृथिवीकायिकानां साकारोपयोगो द्विविधस्तद्यथा-मत्यज्ञानं श्रुतज्ञानं च, अनाकारोपयोग एकऽचक्षुर्दर्शनरूपः, शेषोपयोगानांतेषामसम्भवात, सम्यग्दर्शनादिलब्धिविकलत्वात्, एवमप्तेजोवायुवनस्पतीनामपि वेदितव्य, द्वीन्द्रियाणां साकारोपयोगश्चतुर्विधः, तद्यथा-मतिज्ञानं श्रुतज्ञानं मत्यज्ञानं श्रुताज्ञानं, तत्रापर्याप्तावस्थायां केषांचित् सासादनभावमासादयतां मतिज्ञानश्रुतज्ञाने शेषाणां तुमत्यज्ञानश्रुताज्ञाने, अनाकारोपयोगस्त्वेकोऽचक्षुर्दर्शनरूपः, शेषोपयोगाणाणं तेषामसम्भवात्, एवं त्रीन्द्रियाणामपि, चतचुरिन्द्रियाणामप्येव, नवरमनाकारोपयोगो द्विविधः चक्षुर्दर्शनमचक्षुर्दर्शनं च, पञ्चेन्द्रियतिरश्चां साकारोपयोगः षड्विधस्तद्यथा-मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञान, अनाकारोपयोगस्त्रिविधस्तद्यथा-चक्षुदर्शनअचक्षुदर्शनं अवधिदर्शनंच, अवधिद्विकस्यापि केषुचित्तेषु सम्भवात्, मनुष्याणां यथासम्भवमष्टावपि साकारोपयोगाश्चत्वारोऽप्यनाकारो पयोगा;, मनुष्येषु सर्वज्ञानदर्शनलब्धिसम्भवात्, व्यन्तरज्योतिष्कवैमानिका यथा नैरयिकाः, तदेवं सामान्यतश्चतुर्विशतिदण्डकक्रमेण च जीवानां उपयोगश्चिन्तितः, सम्प्रति मन्दमतिस्पष्टावबोधाय जीवा एवतत्ततदुपयोगोपयुक्ताः, सामान्यतश्चतुर्विशतिदण्डकक्रमेणचिन्त्यन्ते 'जीवाणंभंते!' इत्यादिसुगमम् पदं - २९ -- समाप्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664