Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 576
________________ २४९ पदं-३३, उद्देशकः-, द्वारंचप्रवर्द्धमानोऽवधिर्मध्यमो वेदितव्यः सचतावत्यावत्सर्वोत्कृष्टः परमावधिर्नभवति, सर्वोत्कृष्टः परमावधिव्यतः सर्वाणि रूपिद्रव्याणि जानाति, क्षेत्रतोऽलोके लोकमात्राणि खण्डानि, कालतोऽतीतानामगताश्चासङ्खयेया उत्सर्पिण्यवसर्पिणीर्भावतोऽनन्तान् पर्यायान्, प्रतिद्रव्यं सङ्खयेयानामसङ्खयेयानां च पर्यायाणामवगमात्, ॥१॥ “एगं दव्वं पेच्छं खंधमणुंवास पज्जवे तस्स । उक्कोसमसंखिजे संखेज्जे पेच्छए कोई॥" इति वचनात्, तत्र सर्वजघन्यो मध्यमश्च देशावधिः, सर्वोत्कृष्टस्तुपरमावधिः सर्वावधिः तथाऽवधेः क्षयवृद्धी वक्तव्ये, किमुक्तं भवति ?-ड्रीयमानकः प्रवर्द्धमानकश्चावधिर्वक्तव्य इति, तत्र तथाविधसामग्रयभवतः पूर्वावस्थातोहानिमुपगच्छन्हीयमानकः, उक्तंच-"हीयमाणयं पुव्वावत्थातो अहोऽहो हस्समाण'ति, वर्द्धमानको बहुबहुतरेन्धनप्रक्षेपा-दिभिर्वर्द्धमानज्वालाकलापइव पूर्वावस्थातो यथायोगप्रशस्तप्रशस्ततराध्यवसायभावतोऽभिवर्द्धमानः,तथा प्रतिपाती अप्रतिपाती चशब्दस्यानुक्तार्थसमुन्नायकत्वादानुगामिकोऽनानुगामिकश्च वक्तव्यः तत्र प्रतिपतनशीलःप्रतिपाती-य उत्पन्नःसन् क्षयोपशमानुरूपं कियत्कालं स्थित्वाप्रदीप इवसामस्त्येन विध्वंसमुपयाति, अथ हीयमानकप्रतिपातिनोः कः प्रतिविशेषः ?, उच्यते, हीयमानकः पूर्वावस्थातोऽधोऽधो हानिमुपगच्छन्नभिधीयतेप्रतिपाती तुनिर्मूलमेककालंध्वंसमुपगच्छन्निति, तथा न प्रतिपाती अप्रतिपाती, यत्केवलनानाद्वा मरणादारतो वा न भ्रंशमुप यातीत्यर्थः तथा गछन्तंपुरुषंआ-समन्तादनुगच्छतीत्येवंशीलमानुगामिआनुगाम्येवानुगामिकः, स्वार्थेकः प्रत्ययः, अथवाअनुगमःप्रयोजनंयस्यसआनुगामिकः,लोचनवत् गच्छन्तमनुगच्छति सोऽवधिरानुगामिक इति भावः तथा न आनुगामिकोऽनानुगामिकः, श्रृङ्खलाप्रतिबद्धदीप इव यो गच्छन्तं पुरुष नानुगच्छतीति भावः ॥ मू. (५८०) कइविहाणंभंते! ओही पन्नत्ता?, गो०! दुविहा ओही पन्नता, तं०-भवपछइयाय खओवसमियाय, दोण्हं भवपञ्चइया, तं०-देवाणय नेरइयाणय, दोण्हं खओवसमिया, तं०-मणूसाणं पंचिंदियतिरिक्खजोणियाण य।। छ.तदेवमधिकारप्रतिपादनाय द्वारगाथोपन्यस्ता, सम्प्रति 'यथोद्देशं निर्देश' इति न्यायात प्रथमतो भेदप्रतिपादनार्थमाह-'कइविहाणंभंते!' इत्यादि, कतिविधीभदन्त! अवधिःप्रज्ञप्तः,सूत्रे स्त्रीत्वनिर्देशःप्राकृतत्वात्, भगवानाह-गौतम ! द्विविधोऽवधिः प्रज्ञप्तः, तद्यथा-'भवपच्चइया यखओवसमियाय भवप्रत्यकःक्षायोपशमिकश्च, तत्रभवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति भवो-नारकादिजन्म, ''नाम्नी ति अधिकरणे घप्रत्ययः, भव एव प्रत्ययः-कारणं यस्य स भवप्रत्ययः, प्रत्ययशब्दश्चेह कारणपर्यायः, वर्ततेच प्रत्ययशब्दः कारणत्वे "प्रत्ययःशपथज्ञानहेतुविश्वासनिश्चये" इति, स एव स्वार्थिकप्रत्ययविधानात् भवप्रत्ययकः, तथाऽवधिज्ञानावरणीयस्य कर्मण उदयावलिकाप्रविष्टस्यांशस्य वेदनेन योऽपगमः स क्षयोऽनुदयावस्थस्या विपाकोदयविष्कम्भणमुपशमः क्षयश्च उपशमश्च क्षयोपशमी ताभ्यां निवृत्तः क्षायोपशमिकः, चशब्दौस्वगतानेकभेदसूचकौ, तत्रतुयोयेषंभवतितंतेषामुपदर्शयति-दोण्ह'मित्यादि, द्वयोर्जीवसमूहयोर्भवप्रत्ययकः, तद्यथा-देवानां च नारकाणां च, देवा भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदाच्चतुर्विधाः, For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664