________________
२४९
पदं-३३, उद्देशकः-, द्वारंचप्रवर्द्धमानोऽवधिर्मध्यमो वेदितव्यः सचतावत्यावत्सर्वोत्कृष्टः परमावधिर्नभवति, सर्वोत्कृष्टः परमावधिव्यतः सर्वाणि रूपिद्रव्याणि जानाति, क्षेत्रतोऽलोके लोकमात्राणि खण्डानि, कालतोऽतीतानामगताश्चासङ्खयेया उत्सर्पिण्यवसर्पिणीर्भावतोऽनन्तान् पर्यायान्, प्रतिद्रव्यं सङ्खयेयानामसङ्खयेयानां च पर्यायाणामवगमात्, ॥१॥ “एगं दव्वं पेच्छं खंधमणुंवास पज्जवे तस्स ।
उक्कोसमसंखिजे संखेज्जे पेच्छए कोई॥" इति वचनात्, तत्र सर्वजघन्यो मध्यमश्च देशावधिः, सर्वोत्कृष्टस्तुपरमावधिः सर्वावधिः तथाऽवधेः क्षयवृद्धी वक्तव्ये, किमुक्तं भवति ?-ड्रीयमानकः प्रवर्द्धमानकश्चावधिर्वक्तव्य इति, तत्र तथाविधसामग्रयभवतः पूर्वावस्थातोहानिमुपगच्छन्हीयमानकः, उक्तंच-"हीयमाणयं पुव्वावत्थातो अहोऽहो हस्समाण'ति, वर्द्धमानको बहुबहुतरेन्धनप्रक्षेपा-दिभिर्वर्द्धमानज्वालाकलापइव पूर्वावस्थातो यथायोगप्रशस्तप्रशस्ततराध्यवसायभावतोऽभिवर्द्धमानः,तथा प्रतिपाती अप्रतिपाती चशब्दस्यानुक्तार्थसमुन्नायकत्वादानुगामिकोऽनानुगामिकश्च वक्तव्यः तत्र प्रतिपतनशीलःप्रतिपाती-य उत्पन्नःसन् क्षयोपशमानुरूपं कियत्कालं स्थित्वाप्रदीप इवसामस्त्येन विध्वंसमुपयाति, अथ हीयमानकप्रतिपातिनोः कः प्रतिविशेषः ?, उच्यते, हीयमानकः पूर्वावस्थातोऽधोऽधो हानिमुपगच्छन्नभिधीयतेप्रतिपाती तुनिर्मूलमेककालंध्वंसमुपगच्छन्निति, तथा न प्रतिपाती अप्रतिपाती, यत्केवलनानाद्वा मरणादारतो वा न भ्रंशमुप यातीत्यर्थः तथा गछन्तंपुरुषंआ-समन्तादनुगच्छतीत्येवंशीलमानुगामिआनुगाम्येवानुगामिकः, स्वार्थेकः प्रत्ययः, अथवाअनुगमःप्रयोजनंयस्यसआनुगामिकः,लोचनवत् गच्छन्तमनुगच्छति सोऽवधिरानुगामिक इति भावः तथा न आनुगामिकोऽनानुगामिकः, श्रृङ्खलाप्रतिबद्धदीप इव यो गच्छन्तं पुरुष नानुगच्छतीति भावः ॥
मू. (५८०) कइविहाणंभंते! ओही पन्नत्ता?, गो०! दुविहा ओही पन्नता, तं०-भवपछइयाय खओवसमियाय, दोण्हं भवपञ्चइया, तं०-देवाणय नेरइयाणय, दोण्हं खओवसमिया, तं०-मणूसाणं पंचिंदियतिरिक्खजोणियाण य।।
छ.तदेवमधिकारप्रतिपादनाय द्वारगाथोपन्यस्ता, सम्प्रति 'यथोद्देशं निर्देश' इति न्यायात प्रथमतो भेदप्रतिपादनार्थमाह-'कइविहाणंभंते!' इत्यादि, कतिविधीभदन्त! अवधिःप्रज्ञप्तः,सूत्रे स्त्रीत्वनिर्देशःप्राकृतत्वात्, भगवानाह-गौतम ! द्विविधोऽवधिः प्रज्ञप्तः, तद्यथा-'भवपच्चइया यखओवसमियाय भवप्रत्यकःक्षायोपशमिकश्च, तत्रभवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति भवो-नारकादिजन्म, ''नाम्नी ति अधिकरणे घप्रत्ययः, भव एव प्रत्ययः-कारणं यस्य स भवप्रत्ययः, प्रत्ययशब्दश्चेह कारणपर्यायः, वर्ततेच प्रत्ययशब्दः कारणत्वे "प्रत्ययःशपथज्ञानहेतुविश्वासनिश्चये" इति, स एव स्वार्थिकप्रत्ययविधानात् भवप्रत्ययकः, तथाऽवधिज्ञानावरणीयस्य कर्मण उदयावलिकाप्रविष्टस्यांशस्य वेदनेन योऽपगमः स क्षयोऽनुदयावस्थस्या विपाकोदयविष्कम्भणमुपशमः क्षयश्च उपशमश्च क्षयोपशमी ताभ्यां निवृत्तः क्षायोपशमिकः, चशब्दौस्वगतानेकभेदसूचकौ, तत्रतुयोयेषंभवतितंतेषामुपदर्शयति-दोण्ह'मित्यादि, द्वयोर्जीवसमूहयोर्भवप्रत्ययकः, तद्यथा-देवानां च नारकाणां च, देवा भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदाच्चतुर्विधाः,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org