Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 590
________________ पदं- ३४, उद्देशक:-, द्वारं २६३ सुरतानुबन्धि परस्परं सभ्यासभ्यमनः सङ्कल्पकरणरूपं कुर्वन्ति, 'सेस' मित्यादि, शेषं 'से जहा नामए सीया पोग्गला' इत्यादि निरवशेषं तावद् वक्तव्यं यावत् 'भुञ्जो २ परिणमन्ती' ति सर्वान्तिमं वाक्यं, व्याख्या चास्य प्राग्वत्, तत ऊर्ध्वं तु ग्रैवेयकादयो मनसाऽपि योषितो न प्रार्थयन्ति, प्रतनुवेदोदयत्वात्, यथोत्तरं चैतेऽनन्तगुणसुखभाजः, तथाहि - कायप्रवीचारेभ्यो नन्तगुणसुखाः स्पर्शपरिचारकास्तेभ्यो ऽप्यनन्तगुणसुखाः रूपपरिचारकास्तेभ्योऽपि अनन्तगुणसुखा; शब्दपरिचारकास्तेभ्योऽप्यनन्तगुणसुखा मनः परिचारकास्तेभ्योऽपि अपरिचारकाः अनन्तगुणसुखाः । साम्प्रतमेतेषामेव परस्परमल्पबहुत्वमभिधित्सुराह मू. (५९३) एतेसि णं भंते! कायपरियारगाणं जाव मनपरियारगाणं अपरियारगाण य कयरे० अप्पा वा ४?, गो० ! सव्वत्थोवा देवा अपरियारगा मनपरियारगा संखे० सद्दपरियारगा असंखे० रूवप० असं०- फासप० असं० कायप० असं० ॥ बृ. 'एएसि णमित्यादि, सर्वस्तोका देवा अपरिचारकाः, ते हि ग्रैवेयकानुत्तरोपपातिन्स्ते च सर्वसङ्घयया क्षेत्रपल्योपमासङ्घयेय भागवर्त्तिनभः प्रदेशराशिप्रमाणा इति, तेभ्योऽपि मनः परिचारका देवाः सङ्घयेयगुणाः, तेषामानतादिकल्पचतुष्टयवर्त्तित्वात्, तद्वर्त्तिनां च पूर्वदेवापेक्षया सङ्घयेयगुणक्षेत्रपल्योपमा सङ्घयेय भागगताकाशप्रदेशराशिप्रमाणत्वात्, तेभ्यः शब्दपरिचारका असङ्घयेयगुणाः, ते हि महाशुक्रसहस्रारकल्पवासिनः, ते च धनीकृतलोकस्य एकप्रादेशिक्याः श्रेणेरसङ्घयेयतमे भागे यावन्त आकाशप्रदेशास्तावठ्यामाणाः, तेभ्योऽपि रूपपिचारका देवा असङ्घयेयगुणाः, ते हि ब्रह्मलोकलान्तकल्पनिवासिनः, ते च पूर्वदेवानधिकृत्यासङ्घयेयगुण श्रेण्यसङ्घयेयभागगतनभः प्रदेशराशिप्रमाणाः, तेभ्योऽपि स्पर्शपरिचारका देवा असङ्घयेयगुणाः, तेषां सनत्कुमारमाहेन्द्रकल्पवर्त्तित्वात् तद्वर्त्तिनांच ब्रह्मलोकलान्तकदेवानपेक्ष्यासङ्घयेयगुणश्रेण्यसङ्घयेयबागवत्याकाशप्रदेशपरिमाणतयाऽधीतत्वात्, तेभ्यः कायपरिचारका देवा असङ्घयेयगुणाः भवनपत्यादीनामीशानान्तानां सर्वेषां कायपरिचारकत्वात्, तेषां सर्वसङ्ख्यया प्रतरासङ्घयेयभागवर्त्तिनभः प्रदेशराशिप्रमाणत्वात् इति ॥ पदं - ३४ – समाप्तम् पदं - ३५ - "वेदना " बृ. तदेवमुक्तं चतुस्त्रिंशत्तमं पदं, सम्प्रति पञ्चत्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरपदे वेदपरिणामविशेषः प्रवीचारः प्रतिपादितः अत्र तु गतिपरिणामविशेषा वेदना प्रतिपाद्यते, तत्र आदी सकलवक्तव्यतासङ्ग्रहपरे इमे द्वे गाधे मू. (५९४) सीता य दव्वसरीरा साता तह वेदणा भवति दुक्खा । अब्भुवगमोवक्कमिया निदाय अनिदाय नायव्वा ॥ बृ. 'सीया य दव्वे' त्यादि, वेदना प्रथमतः शीता चशब्दादुष्णा सीतोष्णा च वक्तव्या, तदनन्तरं द्रव्य क्षेत्रकालभावैर्वेदना वक्तव्या, ततः शारीरी उपलक्षणान्मानसी च वेदना वाच्या, ततः साता तथा दुःखा वेदना सभेदा वक्तव्यतया ज्ञातव्या भवति, तदनन्तरमाभ्युपगमिकी औपक्रमिकी च वेदना वक्तव्यतया ज्ञातव्या, ततोऽप्यनन्तरं निदा चानिदा चेति, सातसुखादीनां विशेषमाभ्युपगमिक्यादिशब्दानामर्थं त्वग्रे वक्ष्यामः, सातादिवेदनां अधिकृत्य यो विशेषो वक्ष्यते For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664