Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 592
________________ पदं-३५, उद्देशकः-, द्वार २६५ 'नेरइया णमित्यादि, तत्राद्यासु तिसृषु पृथिवीषूण्णां वेदनां देदयन्ते, ते हि शीताः ये नरकावासाश्चतदाश्रयभूताः, सर्वतोजगप्रसिद्धस्वादिराङ्गारातिरिक्तबहुप्रतापोष्णपुद्गलसम्भूताः, चतुर्थ्यांतुपङ्कप्रभाभिधानायां पृथिव्यां केचिन्नैरयिका उष्णवेदना केचिञ्च शीतवेदनामनुभवन्ति, तत्रत्यनरकावासानां शीतोष्णभेदतो द्विधा मेदात्, केवलं ये उष्णवेदनां वेदयन्ते ते प्रभूततराः, प्रभूतेषुनरकावासेषूष्णवेदनासद्मावात्, इतरेशीतवेदनामनुभवन्तःस्तोकाः, स्तोकतरेषुनरकावासेषु शीतवेदनासम्भवात्, धूमपरभायामपिपृथिव्यां केचित् शीतवेदनाका केचिदुष्णवेदनाकाः, नवरं शीतवेदनाकाः प्रभूततराः, प्रभूतेषु नरकावासेषु शीतवेदनासम्भवात्, स्तोका उष्णवेदनाः, कतिपयेष्वेव नरकावासेपूष्णवेदनाभावात्, अथस्तन्योस्तु द्वयोः पृथिव्यशीतवेदनामेव नैरयिका अनुभवन्ति, तत्रत्यनैरयिकाणां सर्वेषामुष्णयोनिकत्वात्, नरकावासानांत्वनुपमहिमानुषक्तत्वात, एतावत्सूत्रंचिरन्तनेष्वविप्रतिपत्त्या श्रूयते, केचिदाचार्याः पुनरेतद्विषयमधिकमपि सूत्रं पठन्ति, ततस्तन्मतं आह___'केइ एक्क्कीए पुढवीए वेयणं भणंति' इति केचिदाचार्या एकैकस्यां पृथिव्यां प्रश्ननिवचनरूपतया वेदनां भणंति, यथा भणन्ति तथोपदर्शयन्ति-‘रयणप्पभे त्यादि सुगम, तदेवं नैरयिकाणां चिन्तिता शीतादिवेदना, सम्प्रत्यसुरकुमाराणांतांचिचिन्तयिषुरिदमाह-'असुरकुमाराणं पुच्छा' असुरकुमाराणां शीतादिवेदनाविषयेत पृच्छासूत्रंच वक्तव्यं, 'असुरकुमाराणं भंते ! किं सीयं वेदणंवेयंति उसिणं वेयर्णवेयंतिसीओसिणंवेयणंवेयंति?,इतिभगवानाह-'गोयमे त्यादि, शीतामपि वेदनां वेदयन्ते, यदा शीतलजलसम्पूर्णहदादिषु निमज्जनादिकं विदधति, उष्णामपि वेदनां वेदयंते यदाकोऽपि महर्द्धिकस्तज्जातीयोऽन्यजातीयोवा कोपवशाविरूपतया ६ष्टयाऽवलोकमानःशरीरे सन्तापमुत्पादयति, यथा प्रथमोत्पन्नः ईशानेन्द्रो बलिचञ्चाराजधानीवास्तव्यानामसुरकुमाराणामुत्पादितवान् , अन्यथा वातथाविधोष्णपुद्गलसम्पृक्तावुष्णवेदनामनुभवन्तो वेदितव्याः, यदा त्ववयवभेदेन शीतपुद्गलसम्पर्क उष्णपुद्गलसम्पर्कचोपजायते तदा शीतोष्णां वेदनांवेदयन्ते, ननुउपयोगःक्रमेणजीवानां भवति, तथास्वाभाव्यात्, कथमत्रशीतोष्णवेदनानुभवो युगपत् प्रख्याप्यते इति?, उच्यते, इहापि वेदनानुभवः क्रमेणैव, तथाजीवस्वाभाव्यात्, केवलं शीतोष्णवेदनाहेतुपुद्गलसम्पर्को युगपदुपजायत इति सूक्ष्ममाशुसञ्चारिणमुपयोगक्रममनपेक्ष्य यथैव ते वेदयमाना युगपदभिमन्यन्ते तथैव प्रतिपादितमिति न कश्चिद्दोषः, सामान्यतः सूत्रस्य प्रवृत्तत्वात, ___ 'एवं जाववेमाणिय'त्तिएवं-असुरोक्तेनप्रकारेण याववैमानिकास्तावत्सूत्रं वक्तव्यं, तच्चैवम्-'पुढविकाइयाणं भंते ! किं सीयं वेयणं वेयंति उसिणं वे० वे०सीओसिणं वेयणं वेयंति गो०! सीयंपिवे० वे० उसिणंपिवे० वे०सीतोसिणंपि वे० वेयंति' इत्यादि, तत्र पृथिवीकायिकादयो मनुष्यपर्यवसानाःशीतवेदनां हिमादिप्रपातेऽभिवेदयमाना वेदितव्याः उष्णवेदनामग्न्यादिसम्पर्के शीतोष्णवेदनामवयवशःशीतोष्णपुद्गलसम्बन्धेइति, व्यन्तरज्योतिष्कवैमानिकास्त्वसुरकुमारवत् भावनीयाः । उक्ताशीतादिभेदात् त्रिविधा वेदना, सम्प्रति तामेव वेदनांप्रकारान्तरेणाभिधित्सुः प्रश्ननिर्वचनसूत्रे आह___ 'कइविहाणंभते' इत्यादि, इह वेदना द्रव्यक्षेत्रकालभावसामग्रीवशादुत्पद्यते, सर्वस्यापि वस्तुनो द्रव्यादिसामग्रीवशादुत्पद्यमानत्वात्, तत्र यदाऽस्यैव वेदनापुद्गलद्रव्यसम्बन्धमधिकृत्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664