________________
पदं- ३४, उद्देशक:-, द्वारं
२६३
सुरतानुबन्धि परस्परं सभ्यासभ्यमनः सङ्कल्पकरणरूपं कुर्वन्ति, 'सेस' मित्यादि, शेषं 'से जहा नामए सीया पोग्गला' इत्यादि निरवशेषं तावद् वक्तव्यं यावत् 'भुञ्जो २ परिणमन्ती' ति सर्वान्तिमं वाक्यं, व्याख्या चास्य प्राग्वत्, तत ऊर्ध्वं तु ग्रैवेयकादयो मनसाऽपि योषितो न प्रार्थयन्ति, प्रतनुवेदोदयत्वात्, यथोत्तरं चैतेऽनन्तगुणसुखभाजः, तथाहि - कायप्रवीचारेभ्यो नन्तगुणसुखाः स्पर्शपरिचारकास्तेभ्यो ऽप्यनन्तगुणसुखाः रूपपरिचारकास्तेभ्योऽपि अनन्तगुणसुखा; शब्दपरिचारकास्तेभ्योऽप्यनन्तगुणसुखा मनः परिचारकास्तेभ्योऽपि अपरिचारकाः अनन्तगुणसुखाः । साम्प्रतमेतेषामेव परस्परमल्पबहुत्वमभिधित्सुराह
मू. (५९३) एतेसि णं भंते! कायपरियारगाणं जाव मनपरियारगाणं अपरियारगाण य कयरे० अप्पा वा ४?, गो० ! सव्वत्थोवा देवा अपरियारगा मनपरियारगा संखे० सद्दपरियारगा असंखे० रूवप० असं०- फासप० असं० कायप० असं० ॥
बृ. 'एएसि णमित्यादि, सर्वस्तोका देवा अपरिचारकाः, ते हि ग्रैवेयकानुत्तरोपपातिन्स्ते च सर्वसङ्घयया क्षेत्रपल्योपमासङ्घयेय भागवर्त्तिनभः प्रदेशराशिप्रमाणा इति, तेभ्योऽपि मनः परिचारका देवाः सङ्घयेयगुणाः, तेषामानतादिकल्पचतुष्टयवर्त्तित्वात्, तद्वर्त्तिनां च पूर्वदेवापेक्षया सङ्घयेयगुणक्षेत्रपल्योपमा सङ्घयेय भागगताकाशप्रदेशराशिप्रमाणत्वात्, तेभ्यः शब्दपरिचारका असङ्घयेयगुणाः, ते हि महाशुक्रसहस्रारकल्पवासिनः, ते च धनीकृतलोकस्य एकप्रादेशिक्याः श्रेणेरसङ्घयेयतमे भागे यावन्त आकाशप्रदेशास्तावठ्यामाणाः,
तेभ्योऽपि रूपपिचारका देवा असङ्घयेयगुणाः, ते हि ब्रह्मलोकलान्तकल्पनिवासिनः, ते च पूर्वदेवानधिकृत्यासङ्घयेयगुण श्रेण्यसङ्घयेयभागगतनभः प्रदेशराशिप्रमाणाः, तेभ्योऽपि स्पर्शपरिचारका देवा असङ्घयेयगुणाः, तेषां सनत्कुमारमाहेन्द्रकल्पवर्त्तित्वात् तद्वर्त्तिनांच ब्रह्मलोकलान्तकदेवानपेक्ष्यासङ्घयेयगुणश्रेण्यसङ्घयेयबागवत्याकाशप्रदेशपरिमाणतयाऽधीतत्वात्, तेभ्यः कायपरिचारका देवा असङ्घयेयगुणाः भवनपत्यादीनामीशानान्तानां सर्वेषां कायपरिचारकत्वात्, तेषां सर्वसङ्ख्यया प्रतरासङ्घयेयभागवर्त्तिनभः प्रदेशराशिप्रमाणत्वात् इति ॥
पदं - ३४ – समाप्तम्
पदं - ३५ - "वेदना "
बृ. तदेवमुक्तं चतुस्त्रिंशत्तमं पदं, सम्प्रति पञ्चत्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरपदे वेदपरिणामविशेषः प्रवीचारः प्रतिपादितः अत्र तु गतिपरिणामविशेषा वेदना प्रतिपाद्यते, तत्र आदी सकलवक्तव्यतासङ्ग्रहपरे इमे द्वे गाधे
मू. (५९४)
सीता य दव्वसरीरा साता तह वेदणा भवति दुक्खा ।
अब्भुवगमोवक्कमिया निदाय अनिदाय नायव्वा ॥
बृ. 'सीया य दव्वे' त्यादि, वेदना प्रथमतः शीता चशब्दादुष्णा सीतोष्णा च वक्तव्या, तदनन्तरं द्रव्य क्षेत्रकालभावैर्वेदना वक्तव्या, ततः शारीरी उपलक्षणान्मानसी च वेदना वाच्या, ततः साता तथा दुःखा वेदना सभेदा वक्तव्यतया ज्ञातव्या भवति, तदनन्तरमाभ्युपगमिकी औपक्रमिकी च वेदना वक्तव्यतया ज्ञातव्या, ततोऽप्यनन्तरं निदा चानिदा चेति, सातसुखादीनां विशेषमाभ्युपगमिक्यादिशब्दानामर्थं त्वग्रे वक्ष्यामः, सातादिवेदनां अधिकृत्य यो विशेषो वक्ष्यते
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org