________________
२५६
प्रज्ञापनाउपाङ्गसूत्रम्-२- ३४/-/-/५८७ तेषां सम्यक् परिज्ञानाभावात्, द्वीन्द्रियाणां हि मत्यज्ञानं तदपि चास्पष्टमतः प्रक्षेपाहारमपि न ते स्वयं गृह्यमाणमपि सम्यक् जानन्ति चक्षुरिन्द्रियाभावात् न च पश्यन्ति, एवं त्रीन्द्रिया अपि ज्ञानदर्शनवलिकला भावनीयाः,
चतुरिन्द्रियाः 'अत्येगइय'त्ति सन्त्यकके ये स्वयं गृह्यमाणमप्याहारं प्रक्षेपरूपमपि न जानन्ति, मिथ्याज्ञानित्वात्, तेषामपि हि द्वीन्द्रियाणामिव मत्यज्ञानं तदपि चाविश्पष्टमिति, चक्षुषा पुनः पश्यन्ति चक्षुरिन्द्रियसद्भावात् तथाहि पश्यन्ति मक्षिकादयो गुडादिकमिति एवमाहारयन्ति, तथा सन्त्येकके चतुरिन्द्रिया ये न जानन्ति, मिथ्याज्ञानित्वात्, न पश्यन्ति च अन्धकारादिना चक्षुर्दर्शनस्य व्याहतत्वात् अनाभोगसम्भवाद्वा,
तिर्यक्पञ्चेन्द्रियतिरस्यां चतुर्भङ्गी प्रक्षेपाहारं लोमाहारं चाधिकृत्य भावनीया, तत्र प्रक्षेपाहारमधिकृत्यैवं भावना स्न्त्येकके तिर्यक्पञ्चेन्द्रिया ये प्रक्षेपमाहारं जानन्ति, सम्यग्ज्ञानितया तेषां यथावस्थितपरिज्ञानात्, पश्यन्ति चक्षुरिन्द्रियभावात् एवमाहारयन्ति १, तथा सन्त्येकके ये जानन्ति पूर्ववत् न च पश्यन्ति चक्षुर्दर्शनस्यान्धकारादिना अनाभोगेन च व्याहतत्वात् २, तथा सन्त्येकके ये न जानन्ति मिथ्याज्ञानितया सम्यक्परिज्ञानाभावात् पश्यन्ति पुनश्चक्षुरिन्द्रियोपयोगात् ३ तथा सन्त्येकके ये न जानन्तिमिथ्याज्ञानित्वान्न च पश्यन्ति पूर्ववत् एवमाहारयन्ति ४ लोमाहारापेक्षया त्वेवं भावना-सन्त्येकके तिर्यक्पञ्चेन्द्रिया ये लोमाहारमपि जानन्ति, विशिष्टावधिज्ञानपरिकलितत्वात्,
पश्यन्ति तथाविधक्षयोपशमभावत इन्द्रियपाटवस्यातिविशुद्धत्वात् एवमाहारयन्ति १ तथा सन्त्येकके ये न जानन्ति पूर्ववत् न तु पश्यन्ति तथाविधस्येन्द्रियपाटवस्याभावात् २ तथा सन्त्येकके ये न जानन्ति पश्यन्ति पुनस्तद्विषयेन्द्रियपाटवस्य भावात् ३ तथा सन्त्येकके ये न जानन्ति मिथ्याज्ञानित्वात् अवधिविकलत्वात् अवधिविषयातीतत्वाद्वा, न च पशयन्ति तथारूपपाटवाभावात् ४ इति, एवं मनुष्याणामपि लोमाहारप्रक्षेपाहारौ प्रतीत्य चतुर्भङ्गी भावनीया, 'वाणमंतरजोइसिया जहा नेरइया' इति, नैरयिकावधिरिव व्यन्तरज्योतिष्कावधिरपि मनोभक्षित्वेऽप्याहारपुद्गलानामविषयत्वात्,
'वैमाणियाणं पुच्छ' त्ति, वैमानिकानां पृथक् सूत्रं वक्तव्यं, 'वेमाणिया णं भंते!' जे पोग्गले आहारत्ताए गेहति ते किं जाणंति पासंति आहारेति उदाहु न जाणंति न पासंति आहारेंति' इति, भगवानाह - 'गोयमे' त्यादि, माया पूर्वभवकृता विद्यते येषां ते मायिनो, मायया हि यया तया वा बादररूपकृतया कलुषकर्मप्रादुर्भावः, कलुषे च कर्मण्युदयमागते भवप्रत्ययादप्युपजायमानोऽवधिर्नातिसमीचीनो भवति, एते च सम्यग्दशो न वेदितव्याः, तथा मिध्या- विपर्यास्ता दृष्टि:- जिनप्रणीतवस्तुतत्त्वप्रतिपत्तिर्येषां ते मिथ्याध्ष्टयः, मायिनश्च मिथ्याध्ष्टश्च मायिमिध्याध्ष्टयस्ते च ते उपपन्नाश्च मायिमथ्याध्ष्टयुपपन्नास्त एव स्वार्थिककप्रत्ययविधानात् मायिमिध्यादट्युपपन्नकास्ते चोपरितनोपरितनग्रैवेयकपर्यवसाना विज्ञेयाः, तेषां यथायोगमवंश्यं मिथ्याधष्टित्वस्य मायित्वस्य च भावात्, तद्विपरीता अमायिसम्यग्ध्ष्टयुपपन्नकाः, ते चानुत्तरविमानवासिनः, तेषामवश्यं सम्यग्धष्टित्वं, पूर्वानन्तरभवे नितरां प्रतनुक्रोधमानमायालो भत्वस्योपशान्तकषायत्वस्य च भावात्, आहच मूलटीकाकार:- "वेवाणिया मायिमिच्छद्द्द्दिट्ठीउववण्णगा जाव उवरिमगेवेज्जा, अमायिसम्मद्दिट्टिउववन्नगा अनुत्तरसुरा एव गृह्यन्ते' इति, 'एवं जहे 'त्यादि, एवमुक्तेन प्रकारेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org