Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 584
________________ पदं-३४, उद्देशकः, द्वारं २५७ प्राक् यथा इन्द्रिययसत्के प्रथमोद्देशके भणितं तथा भणितव्यं, तच्च तावत् यावत् सर्वान्तिमं 'से एएण-टेण मित्यादिना निगमनवाक्यं, तच्चैवम्___'तत्य णंजे तेमायिमिच्छद्दिविउववन्नगा तेणं नजाणंति न पासंति आहारेंति, तत्थणजे तेअमायिसम्मद्दिविउववण्णगातेणंदुविहापन्नत्ता, तंजहा-अनंतरोबवण्णगा यपरंपरोववण्णगा य, तत्थणंजेतेअनंतरोववण्णगातेणंनयाणंतिनपासंतिआहारेति, तत्थणंजेते परंपरोववण्णगा तेणं दुविहा पं०, त०-पज्जत्तगा य अपञ्जत्तगा य, तत्य णं जे त अपज्जत्तगा ते णं न जाणंति न पासंति आहारेति, तत्थणं जे ते पज्जत्तगा ते दुविहापं०,तं०-उवउत्ता य अणुवउत्ता य, तत्थ णं जेते अनुवउत्तातेणंनयाणंति नपासंति आहारेति, तत्थणंजेते उवउत्तातेणंजाणंति पासंति आहारेंति, से एएणडेणंगोयमा! एवं वुच्चति अत्यंगइयानजाणंतिनपासंतिआहारेंतिअत्यंगइया जाणंति पासंति आहारेंति ?" इति, अस्यायमर्थः-तत्र ये ते मायिमिथ्यादृष्टयुपपन्नका उपरितनोपरितनौवेयकपर्यवसाना इत्यर्थः ते मनोभक्ष्याहारयोग्यान् पुद्गलान् न जानन्ति अवधिज्ञानेन, तदवधेस्तेषामविषयत्वात्स, न पश्यन्ति चक्षुषा, तथाविधपाटवाभावात्, -येऽप्यमायिसम्यग्दृष्टयुपपन्नकाअनुत्तरविमानवासिन इत्यर्थः, ते द्विधा-अनन्तरोपपन्का परम्परोपपन्नकाश्च, प्रथमसमयोत्पन्ना अप्रथमसमयोत्पन्नाश्चेत्यतः अत्र येते अनन्तरोपपन्नकास्ते नजानमन्ति न पश्यन्ति, प्रथमसमयोत्पन्नतयाऽवधिज्ञानोपयोगस्य चक्षरिन्द्रियस्य चाभावात, किन्वेवमेहारयन्ति, तत्र येते परम्परोपपन्नकास्ते द्विविधाः, तद्यथा-पर्याप्ता अपर्याप्ताश्च, तत्र ये ते अपर्याप्तकास्ते न जानन्ति न च पश्यन्ति, पर्याप्तीनामस्पूर्णत्वेनावध्याधुपयोगाभावात्, येऽपि पर्याप्तस्तेऽपि द्विविधाः, तद्यथा-उपयुक्ता अनुपयुक्ताश्च, तत्र ये ते उपयुक्तास्ते जानन्ति, अवधानवशतो यथाशक्ति नियमेन ज्ञानस्य स्वविषयपरिच्छेदाय प्रवृत्तिसम्भवात्, पश्यन्ति चक्षुषा इन्द्रियपाटवस्यतेषामतिविशिष्टत्वात्, येत्वनुपयुक्तास्तेनजानन्तिनच पश्यन्ति अनुपयुक्तत्वादेव, उपयुक्ता अपि कथं मनोभक्ष्याहारयोग्यान् पुद्गलान् जानते इति चेत्, उच्यते, _ -इहावश्यकप्रथमपीठिकायामवधिज्ञानाधिकारेऽभिहितम्- “संखेज्ज कम्मदब्वे लोए थोऊणयंपलियं"अस्यायमर्थः-कार्मणशरीरद्रव्याणि पश्यन् क्षेत्रतो लोकस्य सङ्खयेयान् भागान् पश्यतिकालतः स्तोकोनंपल्योपमंयावत, अनुत्तरास्तुसम्पूर्णांलोकनाडीपस्यन्ति, सभिन्नलोगनालिं पैसंति अनुत्तरा देवा' इति वचनात्, ततस्ते मनोभक्ष्याहारयोग्यानपि पुद्गलान् जानन्ति, आह चमूलटीकाकारः-'तेजानन्ति पश्यन्ति आहारयन्तिच, विशुद्धत्वादवधेरिन्द्रियविषयस्यचातिविशुद्धत्वात् पश्यन्त्यपि" इति, अत्र इन्द्रियविषयस्तेति-इन्द्रियपाटवस्येतिभावः, उपसंहारवाक्यं प्रतीतं । अध्यवसायचिन्तायां प्रत्येकं नैरयिकादीनामसङ्खयेयान्यध्यवसानानि प्रतिसमयं प्रायोऽन्यान्याध्यवसानभावात्,। सम्यकत्वाद्यधिगमचिन्तांकुर्वन्नाह-'नेरइयाणमित्यादि, नैरयिकाःणमिति पूर्ववत् भदन्त किं सम्यकत्वाधिगामिनः-सम्यकत्वप्राप्तिवन्तः, एवं मिथ्यात्वाधिगामिनः सम्यग्मिथ्यात्वाधिगामिनश्च?, भगवानाह-गौतम ! 'सम्मेत्यादि सुगम, त्रिविधायाअपिप्राप्तेर्यथायोगसम्भवात, 'एवं जावे'त्यादि, एवं-नैरयिकगतेनाभिलापप्रकारेण निरन्तरं तावद्वक्तवयं यावद्वैमानिकाः, नवरमेकेन्द्रियाणां विकलेन्द्रियाणां केषांचित् सासादनसम्यकत्वमपि लभ्यते तथापि ते [11/17] For Private & Personal Use Only Jain Education International 'www.jainelibrary.org

Loading...

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664