________________
पदं-३४, उद्देशकः, द्वारं
२५७
प्राक् यथा इन्द्रिययसत्के प्रथमोद्देशके भणितं तथा भणितव्यं, तच्च तावत् यावत् सर्वान्तिमं 'से एएण-टेण मित्यादिना निगमनवाक्यं, तच्चैवम्___'तत्य णंजे तेमायिमिच्छद्दिविउववन्नगा तेणं नजाणंति न पासंति आहारेंति, तत्थणजे तेअमायिसम्मद्दिविउववण्णगातेणंदुविहापन्नत्ता, तंजहा-अनंतरोबवण्णगा यपरंपरोववण्णगा य, तत्थणंजेतेअनंतरोववण्णगातेणंनयाणंतिनपासंतिआहारेति, तत्थणंजेते परंपरोववण्णगा तेणं दुविहा पं०, त०-पज्जत्तगा य अपञ्जत्तगा य, तत्य णं जे त अपज्जत्तगा ते णं न जाणंति न पासंति आहारेति, तत्थणं जे ते पज्जत्तगा ते दुविहापं०,तं०-उवउत्ता य अणुवउत्ता य, तत्थ णं जेते अनुवउत्तातेणंनयाणंति नपासंति आहारेति, तत्थणंजेते उवउत्तातेणंजाणंति पासंति आहारेंति, से एएणडेणंगोयमा! एवं वुच्चति अत्यंगइयानजाणंतिनपासंतिआहारेंतिअत्यंगइया जाणंति पासंति आहारेंति ?" इति, अस्यायमर्थः-तत्र ये ते मायिमिथ्यादृष्टयुपपन्नका उपरितनोपरितनौवेयकपर्यवसाना इत्यर्थः ते मनोभक्ष्याहारयोग्यान् पुद्गलान् न जानन्ति अवधिज्ञानेन, तदवधेस्तेषामविषयत्वात्स, न पश्यन्ति चक्षुषा, तथाविधपाटवाभावात्,
-येऽप्यमायिसम्यग्दृष्टयुपपन्नकाअनुत्तरविमानवासिन इत्यर्थः, ते द्विधा-अनन्तरोपपन्का परम्परोपपन्नकाश्च, प्रथमसमयोत्पन्ना अप्रथमसमयोत्पन्नाश्चेत्यतः अत्र येते अनन्तरोपपन्नकास्ते नजानमन्ति न पश्यन्ति, प्रथमसमयोत्पन्नतयाऽवधिज्ञानोपयोगस्य चक्षरिन्द्रियस्य चाभावात, किन्वेवमेहारयन्ति, तत्र येते परम्परोपपन्नकास्ते द्विविधाः, तद्यथा-पर्याप्ता अपर्याप्ताश्च, तत्र ये ते अपर्याप्तकास्ते न जानन्ति न च पश्यन्ति, पर्याप्तीनामस्पूर्णत्वेनावध्याधुपयोगाभावात्, येऽपि पर्याप्तस्तेऽपि द्विविधाः, तद्यथा-उपयुक्ता अनुपयुक्ताश्च, तत्र ये ते उपयुक्तास्ते जानन्ति, अवधानवशतो यथाशक्ति नियमेन ज्ञानस्य स्वविषयपरिच्छेदाय प्रवृत्तिसम्भवात्, पश्यन्ति चक्षुषा इन्द्रियपाटवस्यतेषामतिविशिष्टत्वात्, येत्वनुपयुक्तास्तेनजानन्तिनच पश्यन्ति अनुपयुक्तत्वादेव, उपयुक्ता अपि कथं मनोभक्ष्याहारयोग्यान् पुद्गलान् जानते इति चेत्, उच्यते,
_ -इहावश्यकप्रथमपीठिकायामवधिज्ञानाधिकारेऽभिहितम्- “संखेज्ज कम्मदब्वे लोए थोऊणयंपलियं"अस्यायमर्थः-कार्मणशरीरद्रव्याणि पश्यन् क्षेत्रतो लोकस्य सङ्खयेयान् भागान् पश्यतिकालतः स्तोकोनंपल्योपमंयावत, अनुत्तरास्तुसम्पूर्णांलोकनाडीपस्यन्ति, सभिन्नलोगनालिं पैसंति अनुत्तरा देवा' इति वचनात्, ततस्ते मनोभक्ष्याहारयोग्यानपि पुद्गलान् जानन्ति, आह चमूलटीकाकारः-'तेजानन्ति पश्यन्ति आहारयन्तिच, विशुद्धत्वादवधेरिन्द्रियविषयस्यचातिविशुद्धत्वात् पश्यन्त्यपि" इति, अत्र इन्द्रियविषयस्तेति-इन्द्रियपाटवस्येतिभावः, उपसंहारवाक्यं प्रतीतं । अध्यवसायचिन्तायां प्रत्येकं नैरयिकादीनामसङ्खयेयान्यध्यवसानानि प्रतिसमयं प्रायोऽन्यान्याध्यवसानभावात्,।
सम्यकत्वाद्यधिगमचिन्तांकुर्वन्नाह-'नेरइयाणमित्यादि, नैरयिकाःणमिति पूर्ववत् भदन्त किं सम्यकत्वाधिगामिनः-सम्यकत्वप्राप्तिवन्तः, एवं मिथ्यात्वाधिगामिनः सम्यग्मिथ्यात्वाधिगामिनश्च?, भगवानाह-गौतम ! 'सम्मेत्यादि सुगम, त्रिविधायाअपिप्राप्तेर्यथायोगसम्भवात, 'एवं जावे'त्यादि, एवं-नैरयिकगतेनाभिलापप्रकारेण निरन्तरं तावद्वक्तवयं यावद्वैमानिकाः, नवरमेकेन्द्रियाणां विकलेन्द्रियाणां केषांचित् सासादनसम्यकत्वमपि लभ्यते तथापि ते [11/17]
For Private & Personal Use Only
Jain Education International
'www.jainelibrary.org