Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 574
________________ २४७ पदं-३२, उद्देशकः, द्वार "न महव्वयसम्भावेवि चरणपरिणामसंभवो तेसिं । न बहुगुणाणंपिजओ केवलसंभूइ परिणामो॥" पदं-३२-समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपासूत्रे द्वात्रिंशतमपदस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता। (पदं-३३ - “अवधिः" वृतदेवमुक्तं द्वात्रिंशत्तमंपदे, सम्प्रति त्रयस्त्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरपदे चारित्रपरिणामविशेषः संयमः प्रतिपादितः, इह तु ज्ञानपरिणामविशेषः खल्ववधिःप्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्यावधिविषयमधिकारद्वारमाहमू. (५७९) भेदविसयसंठाणे अभिंतरबाबिरे य देसोही। ओहिस्स य खयवुड्डी पडिवाई चेव अपडिवाई।" वृ. 'भेयविसये' त्यादि, अवधेः-अवधिज्ञानस्य प्राग्निरूपतिशब्दार्थस्य प्रथमं भेदो वक्तव्यः, ततोविषयस्तदनन्तरंसंस्थानं-अवधिनाद्योतितस्य क्षेत्रस्य यस्तप्रादिरूपआकारविशेषः सोऽवधिनिबन्धन इत्यवधेः संस्थानत्वेन व्यपदिश्यते, तथा द्विविधोऽवधिर्वक्तव्यः, तद्यथाअभ्यन्तरो बाह्यश्च, तत्र योऽवधिः सर्वासु दिक्षु स्वद्योत्यं क्षेत्रं प्रकाशयति अवधिमता च सह सातत्येन ततः स्वद्योत्यं क्षेत्रं सम्बद्धं सोऽभ्यन्तरावधि, एतद्विपरीतो बाह्यवधिः, स च द्विधा, तद्यथा-अन्तगतो मध्यगतश्च, ___ अथान्तगत इतिकःशब्दार्थः?,उच्यते, इहपूर्वाचार्यप्रदर्शितमर्थत्रयंअन्ते-आत्मप्रदेशानां पर्यन्ते गतः स्थितोऽन्तगतः, काऽत्र भावनेति चेत्, उच्यते, इहावधिरुत्पद्यमानः कोऽपि स्पर्द्धकरूपतयोत्पद्यते, स्पर्द्धकं च नामावधिज्ञानप्रभाया गवाक्षजालादिद्वारविनिर्गतप्रदीपप्रभाया इव प्रतिनियतो विच्छेदविशेषः, तथा चाह जिनभद्रगणिक्षमाश्रमणः स्वोपज्ञाभाष्यटीकायां"स्पर्द्धकमवधिविच्छेदविशेष" इति, तानि च एकजीवस्यासङ्घयेयानि संख्येयानि च भवन्ति, यत उक्तं मूलावश्यकप्रथमपीढिकायाम्-'फड्डाय असंखेज्जा संखिज्जा यावि एगजीवस्स' इति, तानिच विचित्ररूपाणिकानिचित्पर्यन्तवतिष्वाप्रदेशेषूत्पद्यन्ते, तत्रापिकानिचित्पुरतः कानिचित्पृछतः कानिचिदधोभागेकानिचिदुपरितनभागेकानिचिन्मध्यवर्तिष्वाप्रदेशेष्वेवं योऽवधिरुपजायते स आत्मनः पर्यन्ते सल्थित इतिकृत्वा अनन्तग इत्यभिधीयते, तैरेवपर्यन्तवर्तिभिरात्म- प्रदेशै; साक्षादवबोधात्', - अथवा औदारिकशरीरस्यान्ते गतः-स्थितोऽन्तगतः, औदारिकशरीरमधिकृत्य कदाचि. देकया दिशोपलम्भात्, इदमपि स्पर्द्धकरूपमवधिज्ञानं, अथवा सर्वेषामप्यात्पमर्देशानां क्षयोपशमभावेऽपिऔदारिकशरीरस्यान्ते कयाचिदेकया दिशायद्वशादुपलभ्यते सोऽप्यन्तगतःआह-यदि सर्वेषामप्यात्मप्रदेशानां क्षयोपशमस्ततः सर्वतः किं न पश्यति?,उच्यते, एकदिशैव क्षयोपशमसम्भवात्, विचित्रो हि दशाद्यपेक्षया कर्मणां क्षयोपशमः, ततः सर्वेषामप्यात्मप्रदेशानामित्थंभूत एव स्वसामग्रीवशात्क्षयोपशमः संवृत्तो यदौदारिकशरीरमपेक्ष्य कयाचिद्विवक्षितयाएकया दिशा पश्यतीति, तथा चोक्तं नन्धध्ययनचूर्णो–'ओरालियसरीरंते ठियं गयंति एगहुँ, तं वा अप्पप्पए Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664