Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 575
________________ २४८ प्रज्ञापनाउपाङ्गसूत्रम्-२- ३३/-1-1५७९ सफड्डगावहि एगदिसोवलंभाओ अंतगयमोहिनाणं भन्नइ, अहवा सव्वप्पएऐसेसु विसुद्धे सुवि ओरालियसरीरगंतेण एगदिसि पासणा गयंति अंतगयंति भण्णइ' इति, एष द्वितीयः, तृतीयः पुनरयं-एगदिग्भाविना तेनावधिना यदुद्योतितंत्रक्षेत्रंतस्यान्ते वर्तते अवधिरवधिज्ञानवतस्तदन्ते वर्तमानत्वात्, ततोऽन्ते एकदिग्गतस्यावधिविषयलस्य पर्यन्ते गतः-स्थितोऽन्तगत इति, ___ अन्तगतश्चावधिः त्रिधा, तद्यथा-पुरतोऽन्तगतःपृष्ठतोऽन्तगतः पार्श्वतोऽन्तगतः, तत्र यथा कश्चित्पुरुषो हस्तगृहीतया दीपिकया पुरतः प्रेर्यमाणया परत एव पश्यति, नान्यत्र, एवं येनावधिना तथाविधक्षयोपशमभावतः पुरत एव सङ्खयेयान्यसङ्खयेयानि वा योजनानि पश्यति नान्यत्र सोऽवधिः पुरतोऽन्तगत इत्यभिधीयते, तथा स एव पुरुषोयथा पृष्ठतो हस्तेनध्रियमाणया दीपिकया पृष्ठत एवपश्यतेयंवयेनावधिनापृष्ठत एव सङ्खयेयान्यसङ्घयेयानिवा योजनानिपश्यति स पृष्ठतोऽन्तगतो, येन तुपार्श्वत एकतो द्वाभ्यां वा सङ्खयेयान्सङ्ख्येयानि वा योजनानि पश्यति स पार्श्वतोऽन्तगत इति, उक्तं च नन्धध्ययनचूर्णी-"पुरतोऽतगएणं पुरतो चेव संखेज्जाणि वा असंखेजज्जाणिवा जोयणाईजाणइपासइ, ___ भग्गतोऽतगएणं ओहिनाणेणं मग्गतोचेव' इत्यादि, मध्यगत इत्यात्रि त्रिधा व्याख्यानं, इह मध्यं प्रसिद्धं दण्डादिमध्यवतू, तत्रात्मप्रदेशानां मध्ये मध्यवर्तिष्वात्मप्रदेशेषु गतः-स्थितो मध्यगतः अयं चस्पर्द्धकरूपः सर्वदिगुपलम्भकारणं, मध्यवर्तिनामात्मप्रदे ज्ञानामवधिरवसेयः, अथवा सर्वेषामप्यात्मप्रदशानां क्षयोपशमभावेऽपि औदारिकशरीरमध्यभागेनोपलब्धिः स मध्ये गतोमध्यगतः, उक्तं च नन्द्यध्ययनचूर्णी-“ओरालियसरीरमझे फड्डगविसुद्धीओसव्वायप्पएसविसुद्धीओवासवदिसोवलंभत्तणओमज्झगतोत्ति भण्णइ' इति, अथवातेनवधिना यदुद्योतितं क्षेत्रंसर्वासुदिक्षुतस्यमध्ये-मध्यभागेस्थितोमध्यगतः अवधिज्ञानिस्तदुधोतितक्षेत्रमध्यवर्त्तित्वात्, आह चनंदिचूर्णिकृदेव-“अहवाउवलद्धिखेत्तस्सअवहिपुरिसो मज्झगतोत्तिअतो वा मज्झगतो ओही भण्णई' इति, इह व्याख्यनत्रेऽपि यदाऽवधिना धोतितं क्षेत्रमवधिमता सम्बद्धं भवति तदा सोऽभ्यन्तराधिर्मतः, सर्वदिगुपलब्धिक्षेत्रमध्यवर्तित्वात्, एष चेह न ग्राह्योऽभ्यन्तरावधावस्यान्तर्भावात्, यदा तु तदुद्योतितं क्षेत्रमपान्तराले व्यवच्छिन्नत्वादवधिमता सम्बद्धं न भवति तदा बाह्योऽवधिः एष चेह ग्राह्य, प्रस्तुतत्वात, तथा 'देसोही' इतिदेशावधिर्वक्तव्यः, उपलक्षणमेतत्, प्रतिपक्षभूतः सर्वावधिश्च, अथ किंस्वरूपो देशावधिः किंस्वरूपोवासविधिरिति चेत्, उच्यते, इहावधिस्त्रिविधो भवति, तद्यथा-सर्वजघन्यो मध्यमः सर्वोत्कृष्टश्च, तत्र यः सर्वजघन्यः स द्रव्यतोऽनन्तानि तैजसभाषापा- न्तरालवर्तीनि द्वयाणि क्षेत्रतौऽङ्गुलसङ्खयेयभागं क्षेत्रं कालतोऽतीतमनागतं चावलिकाया असङ्खयेयभाग, इहावधिः क्षेत्रं कालं च स्वरूपतः साक्षान्न जानाति, तयोरमूर्तत्वात्, अवधेश्च रूपिविषयत्वात् 'रूपिष्ववधे' रिति वचनात्, इह क्षेत्रकालदरअशनमुपचारतो वेदितव्यं, किमुक्तं भवति ?-एतापति क्षेत्रे काले च यानि द्रव्याणि तानि जानातीति, भावोतोऽनन्तान् पर्यायान् जानाति, प्रतिद्रव्यं जघन्यपदेऽपि चतुर्णां रूपरसगन्धस्पर्शरूपाणां पर्यायाणमवगमात्, 'दो पज्जवे दुगुणिए सव्वजहण्णे उ पिच्छए (ओही)। तेउ वनाईया चउरो' द्वौ पर्यवौ द्विगुणिती सर्वजघन्यौ तुप्रेक्षतेऽवधिः । तेतुवर्णादिकाश्चत्वारः इति वचनात्, द्रव्याणां चानन्तत्वात्, अत ऊर्ध्वं तुप्रदेशवृध्या समयवृध्या पर्यायवृध्या Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664