________________
२४७
पदं-३२, उद्देशकः, द्वार
"न महव्वयसम्भावेवि चरणपरिणामसंभवो तेसिं । न बहुगुणाणंपिजओ केवलसंभूइ परिणामो॥"
पदं-३२-समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपासूत्रे द्वात्रिंशतमपदस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता।
(पदं-३३ - “अवधिः" वृतदेवमुक्तं द्वात्रिंशत्तमंपदे, सम्प्रति त्रयस्त्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरपदे चारित्रपरिणामविशेषः संयमः प्रतिपादितः, इह तु ज्ञानपरिणामविशेषः खल्ववधिःप्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्यावधिविषयमधिकारद्वारमाहमू. (५७९) भेदविसयसंठाणे अभिंतरबाबिरे य देसोही।
ओहिस्स य खयवुड्डी पडिवाई चेव अपडिवाई।" वृ. 'भेयविसये' त्यादि, अवधेः-अवधिज्ञानस्य प्राग्निरूपतिशब्दार्थस्य प्रथमं भेदो वक्तव्यः, ततोविषयस्तदनन्तरंसंस्थानं-अवधिनाद्योतितस्य क्षेत्रस्य यस्तप्रादिरूपआकारविशेषः सोऽवधिनिबन्धन इत्यवधेः संस्थानत्वेन व्यपदिश्यते, तथा द्विविधोऽवधिर्वक्तव्यः, तद्यथाअभ्यन्तरो बाह्यश्च, तत्र योऽवधिः सर्वासु दिक्षु स्वद्योत्यं क्षेत्रं प्रकाशयति अवधिमता च सह सातत्येन ततः स्वद्योत्यं क्षेत्रं सम्बद्धं सोऽभ्यन्तरावधि, एतद्विपरीतो बाह्यवधिः, स च द्विधा, तद्यथा-अन्तगतो मध्यगतश्च,
___ अथान्तगत इतिकःशब्दार्थः?,उच्यते, इहपूर्वाचार्यप्रदर्शितमर्थत्रयंअन्ते-आत्मप्रदेशानां पर्यन्ते गतः स्थितोऽन्तगतः, काऽत्र भावनेति चेत्, उच्यते, इहावधिरुत्पद्यमानः कोऽपि स्पर्द्धकरूपतयोत्पद्यते, स्पर्द्धकं च नामावधिज्ञानप्रभाया गवाक्षजालादिद्वारविनिर्गतप्रदीपप्रभाया इव प्रतिनियतो विच्छेदविशेषः, तथा चाह जिनभद्रगणिक्षमाश्रमणः स्वोपज्ञाभाष्यटीकायां"स्पर्द्धकमवधिविच्छेदविशेष" इति, तानि च एकजीवस्यासङ्घयेयानि संख्येयानि च भवन्ति, यत उक्तं मूलावश्यकप्रथमपीढिकायाम्-'फड्डाय असंखेज्जा संखिज्जा यावि एगजीवस्स' इति, तानिच विचित्ररूपाणिकानिचित्पर्यन्तवतिष्वाप्रदेशेषूत्पद्यन्ते, तत्रापिकानिचित्पुरतः कानिचित्पृछतः कानिचिदधोभागेकानिचिदुपरितनभागेकानिचिन्मध्यवर्तिष्वाप्रदेशेष्वेवं योऽवधिरुपजायते स आत्मनः पर्यन्ते सल्थित इतिकृत्वा अनन्तग इत्यभिधीयते, तैरेवपर्यन्तवर्तिभिरात्म- प्रदेशै; साक्षादवबोधात्', - अथवा औदारिकशरीरस्यान्ते गतः-स्थितोऽन्तगतः, औदारिकशरीरमधिकृत्य कदाचि. देकया दिशोपलम्भात्, इदमपि स्पर्द्धकरूपमवधिज्ञानं, अथवा सर्वेषामप्यात्पमर्देशानां क्षयोपशमभावेऽपिऔदारिकशरीरस्यान्ते कयाचिदेकया दिशायद्वशादुपलभ्यते सोऽप्यन्तगतःआह-यदि सर्वेषामप्यात्मप्रदेशानां क्षयोपशमस्ततः सर्वतः किं न पश्यति?,उच्यते, एकदिशैव क्षयोपशमसम्भवात्, विचित्रो हि दशाद्यपेक्षया कर्मणां क्षयोपशमः, ततः सर्वेषामप्यात्मप्रदेशानामित्थंभूत एव स्वसामग्रीवशात्क्षयोपशमः संवृत्तो यदौदारिकशरीरमपेक्ष्य कयाचिद्विवक्षितयाएकया दिशा पश्यतीति, तथा चोक्तं नन्धध्ययनचूर्णो–'ओरालियसरीरंते ठियं गयंति एगहुँ, तं वा अप्पप्पए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org