________________
२४६
प्रज्ञापनाउपाङ्गसूत्रम्-२- ३२/-/-/५७७ संजता संजतावि नो नोसंजतनो असंजतनोसंजतासंजतावि, मणुस्साणं पुच्छा, गो० ! मणूसा संजतावि असंजतावि संजतासंजतावि नो नोसंजतनो असंजतनोसंजतासंजता,
वाणमंतरजोतिसियवेमाणिया जहा नेरइया, सिद्धा णं पुच्छा गो० ! सिद्धा नो संजता १ नो असंजता २ नो संजतासंजता ३ नोसंजतनो असंजतनोसंजतासंजता ४ ॥
वृ. 'जीवाणं भंते!' इत्यादि, संयमच्छन्ति स्म - सर्वसावद्ययोगेभ्यः सम्यगुपरमन्ति स्म अर्थात् निरवद्ययोगेषु चारित्रपरिणामस्फातिहेतुषु वर्त्तन्ते स्म इति संयताः 'गत्यर्थनित्याकर्मका' दिति कर्त्तरि क्तप्रत्ययः हिंसादिपापस्थाननिवृत्ता इत्यर्थः, तद्विपरीता असंयताः हिंसादीनां देशतो निवृत्ताः संयतासंयताः, त्रितयप्रतिषेधविषयाः सिद्धाः, कथमिति चेत्, उच्यते, उक्तमिह संयमो नाम निरवद्येतरयोगप्रवृत्तिनिवृत्तिरूपः ततः संयतादिपर्यायो योगाश्रयः सिद्धाश्च भगवन्तो योगातीताः शरीरमनसोऽभावादतनतयप्रतिषेधविषयाः, एवं च सामान्यतो जीवपदे चतुष्टयमपि घटते, तथा चाह - 'गोयमे' त्यादि, गौतम ! जीवाः संयता अपि साधूनां संयतत्वात्, असंयता अपि नैरयिकादीनामसंयतत्वात्, संयतासंयता अपि पञ्चेन्द्रियतिरश्चां मनुष्याणां च देशतः संयमस्य भावात्, नोसंयतनोअसंयतनोसंयतासंयता अपि सिद्धानां त्रयस्यापि प्रतिषेधात्, चतुर्विंशतिदण्डकसूत्राणि सुगमानि । मू. (५७८)
" संजय असंजय मीसगा य जीवा तहेव मणुया य । संजतरहिया तिरिया सेसा अस्संजता होति ।।"
बृ. अत्रैवं सङ्ग्रहणिगाथामाह - 'संयते' त्यादि, संयता असंयता मिश्रकाश्च - संयतासंयता जीवास्तथैव मनुष्याश्च, किमुक्तं भवति ? - जीवपदम मनुष्यपदे च एतानि त्रीण्यपि पदानि घटन्ते, नतु न घटन्ते इत्येवंपरमेतत् सूत्रं, अन्यथा जीवपदे त्रितयप्रतिषेधरूपं चतुर्थमपि पदं घटत एव, यथोक्तं प्राक्, तथा संयतरहिता उपलणमेतत् त्रितयप्रतिषेधरहिताश्च तिर्यञ्चःतिर्यक्पञ्चेन्द्रियाः,
आह
कथं संयतपदरहितास्तिर्यक्पञ्चेन्द्रियाः ?, यावता तेषामपि संयतत्वमुपपद्यते एव, तथाहिसंयतत्त्वं नाम निरवद्येतरयोगप्रवृत्तिनिवृत्त्यात्मकं, तेच निरवद्येतरयोगेषु प्रवृत्तिनिवृत्ती तिरश्चामपि सम्भवतः, यतश्चरमकालेऽपि चतुर्विधस्याप्याहारस्य प्रत्याख्यानं कृत्वा शुभेषु योगेषु वर्त्तमाना दृश्यन्ते, अन्यच्च सिद्धान्ते तत्र तत्र प्रदेशे महाव्रतान्यप्यात्मन्यारोपयन्तः श्रूयन्ते, उक्तं च“तिरियाणं चारितं निवारितं तह य अह पुणो तेसिं
119 11
सुव्वइ बहुयाणं चिय महव्वयारोवणं समए ॥"
तदेतदयुक्तं सम्यग्वस्तुतत्त्वापरिज्ञानात्, संयततत्वमिह निरवद्येतरयोगप्रवृत्तिनिवृत्तिरूपमान्तरचारित्रपरिणामानुषक्तभगवन्तव्यं, न शेष, न च तेषां कृतचतुर्विधाहारप्रत्याख्यानानामपि महाव्रतान्यारोपयतां भवप्रत्ययादेव चरणपरिणाम उपजायते, स ह्यचिन्त्यचिन्तामणिकल्पे मनुष्यभव एव, यदि परंकर्मक्षयोपशमाद् भवति, नान्यथा, अत एवायमतिदुर्लभो गीयते भगवद्भिः, अथ कथमवसीयते न तिरश्चां तथा चेष्टमानानामभ्यान्तरश्चारित्रपरिणामः ?, उच्यते, केवलज्ञानाद्यश्रवणात् यदि हि तिरश्चामपि चरणपरिणामस्सम्भवेत् तत् क्वचित् कदाचित् कस्यचिदुत्कर्षतो भावतो मनः पर्यायज्ञानं केवलज्ञानं वा श्रूयेत, तयोश्चारित्रपरिणामनिबन्धनत्वात् न च श्रूयते, तस्मादवसीयते- - न तेषां चारित्रपरिणामः, उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org