SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ २४५ पदं-३१, उद्देशकः, द्वारनाप्यसंज्ञीसर्वज्ञत्वात, तदेवं सामान्यतोजीवपदे संज्ञिनोऽसंभिनोनोसंज्ञिनोअसंज्ञिनश्च लभ्यन्ते इति, भगवान्तथैवप्रतिसमाधानमाह-'गोतमे'त्यादि, जीवाः संज्ञिनोऽपि नैरयिकादीनां संज्ञिनां भावाद्, असंज्ञिनोऽपि पृथिव्यादीनामसंज्ञिनां भावात्, नोसंज्ञिनोअसंज्ञिनोऽपि सिद्धकेवलिनां नोसंज्ञिनोअसंज्ञिनामपि भावात्, । एतानेवचतुर्विंशतिदण्डकक्रमेणंचिन्तयति-'नेरइयाणमित्यादि, इहयेनैरयिकाःसंज्ञिभ्य उत्पद्यन्तेते संज्ञिनो व्यवह्रियन्ते इतरे त्वसंज्ञिनः नच नैरयिकाणां केवलिभावोघटते, चारित्रप्रतिपत्तेरभावात्, तत उक्तं नैरयिकाःसंज्ञिनोऽप्यसंज्ञिनोऽपि, नो नोसंज्ञिनोनोअसंज्ञिनः, एवमसुरकुमारादयोऽपि स्तनितकुमारपर्यवसाना भवनपतयो वक्तव्याः, तेषामप्यसंज्ञिनोऽप्युत्पादात् केवलित्वाभावाच्च, 'मणूसाजहाजीवत्तिमनुष्याः प्राक्यथाजीवाउक्तास्तथावक्तव्याः, संज्ञिनोऽपि असंज्ञिनोऽपिनोसंज्ञिनोअसंज्ञिनोऽपिवक्तव्या इतिभावः, तत्रये गर्भव्युत्क्रान्तास्ते संज्ञिनः सम्मूर्छिमाअसंज्ञिनः केवलिनो नोसंज्ञिनोअसंज्ञिनः, ‘पञ्चेन्द्रियतिरिक्खजोणियवाणमंतरा जहा नेरइया' इति, पञ्चेन्द्रियातिर्यग्योनिका व्यन्तराश्च यथा नैरयिका उक्तास्तथा वक्तव्याः, संज्ञिनोऽपिअसंज्ञिनोऽपिनो नोसंज्ञिनोअसंज्ञिनः वक्तव्याइति भावः तत्र पञ्चेन्द्रियतिर्यग्योनिकाः सम्मूर्छिमाः असंज्ञिनः गर्भव्युत्क्रान्ताः संज्ञिनः, व्यन्तरा असंज्ञिभ्य उत्पन्ना असंज्ञिन; संज्ञिभ्य उत्पन्नाः संज्ञिनः, उभयेऽपिचारित्रप्रतिपत्तेरभावात्नो नोसंज्ञिनोअसंझिनः,ज्योतिष्कवैमानिकाः संज्ञिनएव, नोअसंज्ञिनः,असंज्ञिभ्य उत्पादाभावात्, नोनोसंज्ञिनोअसंज्ञिनश्चारित्रप्रतिपत्तेरभावात्, सिद्धास्तु प्रागुक्तयुक्तितो नो संज्ञिनो नाप्यसंज्ञिनः किन्तु नोसंज्ञिनोअसंज्ञिनः, मू. (५७६) नेरइयतिरियमणुया य नवणयरगसुरा इसण्णीऽसण्णी य। विगलिंदिया असण्णी जोकतिसवेमाणिया सण्णी।। वृ.अत्रैव सुखप्रतिपत्तये सङ्ग्रहणिगाथामाह-'नेरइय' इत्यादि, नैरयिकाः 'तिरिय'त्ति तिर्यक्पञ्चेन्द्रिया मनुष्या वनचरा-व्यन्तरा असुरादयः-समस्ता भवनपतयः प्रत्येकं संज्ञिनोऽसंज्ञिनश्च वक्तव्याः एतच्चानन्तरमेव भावितं, विकलेन्द्रिया-एकद्वित्रिचतुरिन्द्रिया असंज्ञिनो ज्योतिष्कवैमानिकाः संज्ञिन इति ॥ पदं-३१ - समाप्तम् पदं-३२- “संयम्" । वृ. तदेवमुक्तमेकत्रिंशत्तमं पदं, अधुना द्वात्रिंशत्तमं पदमारभ्यते, तस्य चायमभिसम्बन्धः-इहानन्तरपदे संज्ञिपरिणाम उक्तः, इह तुचारित्रपरिणामविशेषः संयमः प्रतिपाद्यते, संयमो नाम निरवद्येतरयोगप्रवृत्तिनिवृत्तिरूपः, तत्र चेदमादिसूत्रम् मू. (५७७) जीवाणं भंते ! किं संजया असंजया संजया २ नोसंजयानोअसंजयानोसंजयासंजया?, गो० ! जीवा संजयावि १ असंजया वि २ संजयासंजयावि ३ नोसंजयानोअसंजयानोसंजयासंजयावि४, नेरइयाणं भंते ! पुच्छा, गो० ! नेरइया नो संजया असंजया नोसंजयासंजया नो नोसंजयनोअसंजयनोसंजयासंजया, एवं जाव चउरिदि, पंचिंदियतिरिक्खजोणियाणं पुच्छा, गो०! पंचिंदियतिरिक्खजोणितानोसंजता असंजतावि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy