Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 565
________________ २३८ प्रज्ञापनाउपाङ्गसूत्रम्-२- २९/-1-1५७२ वदित्यर्तः,असावपिःछद्मस्थानामान्तर्मुहूर्त्तिकः परमानाकारोपयोगकालत् साकारोपयोगकालः सङ्ख्येयगुणः प्रतिपत्तव्यः, पर्यापरिच्छेदकतया चिरकाललगनात्, छद्मस्थानांतथास्वाभाव्यात्, केवलिनां त्वनाकारोऽप्युपयोग एकसामयिकः, चशब्दौ स्वगतानेकभेदसूचकौ, तत्र साकारोपयोगभेदानभिधित्सुरिदमाह 'सागारोवओगेणंभंते!' इति, अर्थाभिमुखोनियतः-प्रतिनियतस्वरूपोबोधो-बोधविशेषो अभिनिबोधः अभिनिबोधएव आभिनिबोधिकं, अभिनिबोधशब्दस्य विनयादिपाठाभ्युपगमात् 'विनयादिभ्य' इत्यनेन स्वार्थेइकणप्रत्ययः, 'अतिवर्तन्ते स्वार्थे प्रत्ययकाः प्रकृतिलिभङ्गवचनानी' तिवचनादत्र नपुंसकता, यथा विनय एव वैनयिकमित्यत्र, अथवा अभिनिबुध्यतेऽस्मादस्मिन्वेति अभिनिबोधः-तदावरणकर्मक्षयोपशमस्तेन निवृत्तमाभिनिबोधिकं तच्च तज्ज्ञानं च आभिनिबोधिकज्ञानं, सच इन्द्रियमनोनिमित्तो योग्यदेशावस्थितवस्तुविषयः स्फुटप्रतिभासो बोधविशेष इत्यर्थः,स चासौ साकारोपयोगश्च आभिनिबोधिकज्ञानसाकारोपयोगः, एवं सर्वत्रापि समासः कर्तव्यः, तथा श्रवणं श्रुतं-वाच्यवाचकभावपुरस्सरीकारेणशब्दसंस्पृष्टार्थग्रहणहेतुरुपलब्धिविशेषः, एवमाकारं वस्तु घटशब्दवाच्यं जलधारणाद्यर्थक्रियासमर्थमित्यादिरूपतया प्रधानीकृतः समानपरिणामःशब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः, श्रुतंचतत् ज्ञानंच श्रुतज्ञानं,ततो भूय; साकारोपयोगशब्देन विशेषणसमासः, तथाऽवशब्दोऽधःशब्दार्थः, अव-अधो विस्तृतं वस्तु धीयते-परिच्छिद्यतेऽनेनेत्यवधिः, यद्वा अवधिः-मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपातदुपलक्षितं ज्ञानमप्यवधिः, अवधिश्चासौ ज्ञानंचावधिज्ञानं, तथापरिः-सर्वतोभावेअवनंअवः, 'तुदादिभ्योऽन्का वित्यधिकारे 'अकितौचे'त्यकारप्रत्ययः,अवनंगमनमितिपर्यायाः, परिअवःपर्यवः,मनसिमनसोवा पर्यवःमनःपर्यवः,सर्वतस्त्परिच्छेद इत्यर्थः, पाठान्तरं पर्यय इति, तत्र पर्ययणं पर्ययः बावेऽल्प्रत्ययः, मनसि मनसो वा पर्ययः मनःपर्ययः, सर्वतस्तत्परिच्छेद इत्यर्थः, स चासौ ज्ञानं च मनःपर्यवज्ञानं मनःपर्ययज्ञानं वा, अथवा मनःपर्यायेति पाठान्तरं, तत्र मनांसि पर्येति-सर्वात्मना परिच्छिनत्ति मनःपर्याय, 'कर्णोषऽण्' मनःपर्यायं च तत् ज्ञानं च मनःपर्यायज्ञान, यदिवा मनसः पर्यायाः मनःपर्यायाः, पर्याया धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यनन्तरं, तेषु तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं, इदं चार्द्धतृतीयद्वीपसमुद्रान्तर्वतिसंज्ञिमनोगतद्रव्यालम्बनं, तथा केवलं-एकंमत्यादिज्ञाननिरपेक्षत्वात्, ‘नटुंमि उछाउमथिए नाणे' इति वचनात् शुद्धं वा केवलं तदावरणमलकलङ्कविगमात्सकलं वा केवलंप्रथमत एवाशेषतदावरणविगतमः सम्पूर्णोत्पत्तेः असाधारणं वा केवलमनन्यसदशत्वात् अनन्तं वा केवलं ज्ञेयानन्तात्वात्, केवलंच तत् ज्ञानं च केवलज्ञानं, तथा मतिश्रुतावधय एव यदा मिथ्यात्वकलुषिता भवन्ति तदा यथाक्रम मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानव्यपदेशांल्लभन्ते, उक्तं च "आधत्रयमज्ञानपि भवति मिथ्यात्वसंयुक्त"मिति, 'विभङ्ग' इतिविपरतो भङ्गः-परिच्छित्तिप्रकारो यस्य तत् विभङ्गं, तच्च तत् ज्ञानं च विभङ्गज्ञानं, सर्वत्रापि च साकारोपयोगशब्देन विशेषणसमासः। ____ अनाकारोपयोगभेदानभिधिसुराह-'अनागारोवओगेणंभंते !' इत्यादि, तत्र चक्षुषाचक्षुरिन्द्रियेणदर्शनं-रूपसामान्यग्रहणलक्षणंचक्षुर्दर्शनं तच्चतत् अनाकारोपयोगःचक्षुर्दर्शनाना Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664